________________ परिट्ठवणा 582 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा (१६)अथव्याहरणद्वारमाहगिण्हइ णाम एगस्स दोण्ह अहवा वि होज सव्वेसिं। खिप्पं तु लोयकरणं, परिण्ण गणभेद वारसमं / / 647 / / एकस्य, द्वयोः, सर्वेषामसौ नाम गृह्णाति भवेत्कदाचिदप्येवं, तदा तेषा क्षिप्र लोचः कर्तव्यः। (परिण्ण त्ति) प्रत्याख्यानं तपस्तत्र द्वादशमुपवासपञ्चकरूपते कारापणीयाः। अथ द्वादशं कर्तुं कश्चिदसहिष्णुर्न शक्तोति, ततो दशममष्टमं षष्ठं चतुर्थ वा काराप्यते, गणभेदश्च क्रियते, गच्छान्निगम्यते, पृथग्भवन्तीति भावः। (२०)अथ कायोत्सर्गद्वारमाहचेइघरुवस्सए वा, हायंतीओ थुईउते बिति। सारवणं वसहीए, करेति सव्वं वसहिपालो / / 658 / / अविधिपरिट्ठवणाए, काउस्सग्गो य गुरुसमीवम्मि। मंगलसंतिनिमित्तं, थओ तओ अजियसंतीणं / / 646 / / चैत्यगृहे उपाश्रये वा परिहीयमानाः स्तुतीस्ते बुवते भणन्ति,यावच्च ते अद्यापि नाऽऽगच्छन्ति तावद्वसतिपालो वसतेः सारवणं प्रमार्जनं, तदादिकं सर्वमपि कृत्यं करोति। अविधि परिष्ठापनानिमित्तं च गुरुसमीपे कायोत्सर्गः कर्त्तव्यः, ततो मङ्गलार्थ शान्तिनिमित्तं चाऽजितशान्तिस्तवो भणनीयः / अत्र चूर्णिः- "ते साहुणो चेइयवरे वा उवस्सए वा ठिया होता जइ चेझ्यघरे ता परिहायंतीहिं थुईहिं चेइयाइं वंदित्ता आयरियसगासे इरियाबहिए पडिक्कमिउं अविहिपरिट्ठावणियाए काउरसग करेंति, ताहे मंगल संतिनिमित्तं अजियसंतिथओ ओसन्नेठिदे चेवपहायंते कडेति, उवस्सए वि एवं चेव चेइयवंदणवजं / ' विशेषचूर्णिः पुनरित्थम्- 'तओ आगम्म चेइयवरं गच्छति, चेइयाणं वदित्ता सतिनिमित्त अजियसंतिथुई परिवड्डिजइ, तिनि थुईओ परिहायंतीओ कड्डिजति, तओ आगंतु अविहिपरिट्टावणियाए काउस्सग्गो कीरइ।' (21) अथ क्षपणस्वाध्यायमार्गणाद्वारमाहखमणे वा सज्झाए, रातिणिय महाणिणाय णियए वा। सेससु नत्थि खमणं, णेव असज्झाइयं होइ॥६५०|| यदि रात्निक आचार्याऽऽदिरपरो वा महानिनादोलोकविश्रुतः कालगतो भवति, निजका या स्वज्ञातिकास्तत्र सन्ति, ते महतीं न धृतिं कुर्वन्ति, तत एतेषु क्षपणक स्वाध्यायिकं च कर्त्तव्यं, शेषेषु साधुषु कालगतेषु क्षपणकं नास्ति, स्वाध्यायिकं न च भवति। (22) व्युत्सर्जनद्वारमाहउच्चारपासवणमत्तगाय अत्थरणकुसपलालाऽऽदी। संथारया बहुविहा, उज्झंति अणण्णगेलण्णे // 651|| यानि तस्योचारप्रस्रवणखेलमात्रकाणि, ये चाऽऽस्तरणार्थ कुशलपलालाऽऽदिमया बहुविधा संस्तारकास्तान् सर्वानप्युज्झन्ति (अणन्नगेलन्न त्ति) यद्यन्यस्य ग्लानत्वं नास्ति, अथाऽपरोऽपिस्लानः कश्चिदस्ति, ततस्तदर्थ तानि मात्रकाऽऽदीनि ध्रियन्ते इति भावः। अहिगरणं मा होही, करइ संथारगे विकरणं आसु / उवहिं विगिंचती जो,छेवइ तस्सा विछेवइओ॥६५२।। अशिवगृहीतःस यदि मृतस्तदा येन संस्तारकेन स नीतस्तं विकरणं कुर्वन्ति षण्डशः कृत्वा परिष्ठापयन्तीत्यर्थः / कुत इत्याह-अधिकरणं गृहस्थेन गृहीते प्रान्तदेवतया वा पुनरप्यानीते भवेत्, तन्माभूदिति कृत्वा विकरणी क्रियते यश्च तदीय उपधिरपरोवा तेन स्ववपुषा सुप्तस्तं सर्वमपि परिष्ठापयन्ति। असिवम्मि णत्थि खमणं, जोगविवड्डी य व उस्सग्गो। उवओगट्टे तोले णेव, अहाजाय करणं तु / / 653| अशिवे मृतस्य क्षपणं न कर्त्तव्यं, योगवृद्धिस्तु क्रियते, नैव साधुभिः परिष्ठापनायाः कायोत्सर्गः क्रियते (उपओगट्ठ ति) मुहूर्तमानं तोलयित्वा यथाजात तस्य नैव कर्त्तव्यम्। किमुक्तम्भवति?-अशिव मृतस्य समीपे यथाजातं न स्थाप्यते अतो देवलोकं गतो यावदुपयुक्तो भवति तावत्तदीयं वपुः प्रतिश्रय एव प्रतीक्षाप्यते, येन प्रतिश्रयस्थित स्ववपुर्दृष्ट्वा संयतोऽहमिति जानीते। (23) अथाऽवलोकनद्वारमाहअवरूजगस्स तत्तो, सुत्तत्थविसारएहि थेरेहिं / अवलोयण कायव्वं, सुभासुभगतोनिमित्तट्ठा // 654 / / तस्य कालगतस्य अपरेधुर्द्वितीये दिवसे सूत्रार्थविशारदैः स्थविरैः शुभाशुभगतिनिमित्तज्ञानार्थमवलोकनं कर्त्तव्यम्। कथमित्याहजं दिसि विगिट्ठतो खलु, देहेणं अक्खएण संचिढ़े। तं दिसि सिवं वदंती, सुत्तत्थविसारया धीरा // 655 / / यस्यां दिशि शिवाऽऽदिभिराकर्षितोऽक्षतेन देहेन संतिछेत, तस्यां दिशि सूत्रार्थविशारदा धीराः शिवं सुभिक्षं सुस्वविहारं च वदन्ति। जति दिवसे संचिट्ठति, तति वरिसे धातगं च खेमं च / विवरीए विवरीतं, अकड्डिए सव्वहिं उदितं / / 656|| यति यावतो दिवसान् यस्यां दिशि अक्षतदेहस्तिष्ठति तति तावन्ति वर्षाणि तस्यां दिशि ध्रातं च क्षेमं च भवति / अथ क्षतदेहःसंजातः ततो विपरीते क्षतदेहे विपरीतं मन्तव्यं, यस्यां दिशि क्षतदेहो नतिस्तस्यां दुर्भिक्षाऽऽदिक भवतीति भावः / अथ नान्यत्राकृष्टः किं तु तत्रैवाक्षतस्तिष्ठति ततः सर्वत्रोदितं सुभिक्षं, सुखविहारं च द्रष्टव्यम्। एतन्निमित्तं कस्य गृह्यते ? इत्याहखमगस्साऽऽयरियस्सा, दीहपरिणस्स वा निमित्तं तू। सेसे तथऽण्णथा वा, ववहारवसा इमाय गती।।६५७॥ क्षपकस्याऽऽचार्यस्य वा दीर्घपरिज्ञानिनो वा प्रभूतकालपालितानशनस्येदं निमित्तं ग्रहीतव्यम्। शेष एतद्व्यतिरिक्तः तथा वा अन्यथा वा भवेत्। न कोऽपि नियमः व्यवहारवशाच्चेयं गतिः प्रतिपत्तव्या। थलकरणा वेमाणिओं, जोतिसिओवाणमंतर समम्मि। गड्डाएँ भवणवासी, एस गती से समासेणं॥६५८|| यदि तस्य शरीरकं स्थले कृतं शिवाऽऽदिभिरारोपितं तदा वैमानिक : संजात इति मन्तव्यम् / समभू भागे नीतस्य ज्योतिष्केषु व्यन्तरेषु वा उपपातो ज्ञेयः / गर्तायां नीते भवनवासि