________________ परिट्ठवणा 581 - अमिधानराजेन्द्रः - भाग 5 परिट्ठवणा जनपरम्परया तं ज्ञात्वा कश्चिन्मनुष्योऽमीभिरपद्रावित इति बद्ध्या कुपितः प्रत्यासन्नवर्तिनां द्वित्र्यादीनां ग्रामाणां बधं कृर्यात्। अथैतदेव भावयतिउवगरणमहाजाते, अकरणे उज्जेणिभिक्खुदिट्ठतो। लिंगं अपेच्छमाणे, काले वइरं तु पाडेति / / 637 / / यथाजातमुपकरणं यदितस्य पार्श्वे न कुर्वन्ति ततोऽसौ देवलोकगतः प्रत्युक्तावधेरहमनेन गृहिलिङ्गेन, परलिङ्गेन वा देवो जात इति मिथ्यात्वं गच्छेत् / उज्जयिनीभिक्षुदृष्टान्तश्चात्र भवन्ति, स चाऽऽवश्यकटीकातोऽवगन्तव्यः। (५३गाथा आव० 4 अ०) यस्य वा ग्रामस्य पार्श्वे परिष्ठापितस्तत्र तत्पाबें लिङ्गमपश्यन् लोको राजानं विज्ञापयेत्, स च केनाऽप्यपद्रावितोऽयमिति मत्वा काले नयति वैरं पातयति, वैरं निर्यातीति भावः। (16) कायोत्सर्गद्वारमाहउट्ठाणाऽऽई दोसा, हवंति तत्थेव काउसग्गम्मि। आगम्मुवस्सयं गुरु-समीव अविहीऍ उस्सग्गे // 638|| तत्रैव परिष्ठापनभूमिकायां कार्योत्सर्गे क्रियमाणे उत्थानाऽऽदयो दोषा भवन्ति, अत उपाश्रयमागम्य गुरुसमीपे अविधिपरिष्टापनिकाकायोत्सर्गः कर्त्तव्यः। (17) प्रादक्षिण्यद्वारमाहंजो जहियं सो तत्तो, णियत्तइ पयाहिणं न कायव्यं / उट्ठाणाऽऽदी दोसा, विराहणा बालवुड्डाणं॥६३६।। शबं परिष्ठाप्य यो यत्र भवति ततो निवर्तते, प्रादक्षिण्यं न कर्तव्यं, यदि / कुर्वन्ति तत उत्थानाऽऽदयो दोषाः, बालवृद्धानां च विराधना भवति / (18) अथाऽभ्युत्थानद्वारमाहजइ पुण अणीणिओ वा, णीणिज्जतो विवित्तिओ वा वि। उद्वेज समाइट्ठो, तत्थ इमा मग्गणा होति / / 640 / / यदि पुनः स कालगतोऽनिष्काशितो वा निष्काश्यमानो वा विविक्तो वा परिष्ठापितो व्यन्तरसमाविष्टः तिष्ठेत, ततस्तत्रेयं मार्गणा भवतिवसहि निवेसण साहीऐं, गाममज्झे य गामदारे य। अंतर उज्जाणंतर-णिसीहिया उद्वितो वोच्छं।।६४१।। वसतौ वा स उत्तिष्ठेत्, निवेशने वा पाटके, साहिकायां वा गृहपङ् क्तिरूपायां, ग्राममध्ये वा, ग्रामद्वारे वा,ग्रामोद्यानयोरन्तरे वा, उद्याननषेधिक्योरन्तरा वा, नैषेधिक्यां शवपरिष्ठापनभूम्यामेतेषूस्थिते यो विधिस्तं च वक्ष्यामि। प्रतिज्ञातमेव करोतिउवसय निविसण साही, तामद्धे दारे गाम मोत्तव्यो। मंडल खंड देसे, णिसीहियाए य रज्जंतु // 642 / / तत्कडेवरं नीयमानं यदि वसतात्तिष्ठति तत उपाश्रयो मोक्तव्यः। अथ निवेशने उत्तिष्ठति ततो निवेशनं मोक्तव्यं, साहिकायामुत्थिते साहिका, ग्राममध्ये उत्थिते ग्रामार्द्ध,ग्रामद्वारे उत्थिते ग्रामो मोक्तव्यः / ग्रामस्य चोद्यानस्य चान्तरा यद्युत्तिष्ठति तदा विषयमण्डलं मोक्तव्यम् / उद्याने उस्थिते खण्ड देशखण्ड मण्डलाद् बृहत्तरं परित्यक्तव्यम् / उद्यानस्य नैषधिक्यां चान्तराले उत्तिष्ठति देशः परिहर्तव्यः, नैषधिक्यामुत्थिते राज्य परिहरणीयम् / एवं तावन्नीयमानस्योत्थाने विधिरुक्तः। परिष्ठापिते च तस्मिन् गीतार्था एकस्मिन् पार्चे मुहूर्त प्रतीक्षन्ते, कदाचित्परिष्ठापितोऽप्युत्तिष्ठेत्। तत्र चाऽयं विधिःवचंतो जो उ कमो, कलेवरठावणम्मि वोचत्थो। नवरं पुण णाणत्तं, गामदारे निबोद्धव्वं / / 643 / / व्रजतां निर्गच्छतां कडेवरोस्थाने यः कमो भणितः, स एव विपर्यम्तः कडेवरस्य-परिष्ठापितस्य भूयः प्रविशने विज्ञेयो, नवरं पुनरत्र नानात्वं ग्रामद्वारे बोद्धव्यं, तत्र वैपरीत्यं न भवति, किं तु तुल्यतै-वेति भावः / तथा चात्र वृद्धसंप्रदायः- "निसीहियाए परिढवित्तु जइ उद्वेत्ता तत्थेव पडिज्जा ताहे, उवस्सओ मोत्तव्यो, निसीहियाए उजाणस्स य अंतरा पडइ निवेसणं मोत्तव्यं, उजाणे पडइ साही मोत्तव्वा, उज्जाणस्स य अंतरा पडइ गामद्धं मोत्तव्वं, गामबारे पडइ गामो मोत्तव्यो, गाममज्झे पडइ मंडल मोत्तव्वं, साहीए पडइ देसखंड मोत्तव्वं, निवेसणे पडइ देसो मोत्तव्यो, उवस्सए पडइ रज्जमोत्तव्व।'' अत्र निर्गमने प्रवेशनेच ग्रामद्वारस्थाने ग्रामत्याग एवोक्त इति ग्रामद्वारे तुल्यतैव भवति, न वैपरीत्यम्। अथ परिष्ठापितो द्व्यादिवारान् वसतिं प्रविशति ततोऽयं विधिःविइयं वसहिमिति ते, तगं च अण्णं च पुव्वतो रजं। तिप्पभितिमिति सैव उ, मुयंति रजाइँ पविसंते // 644 / / निर्ग्रन्थो यदि द्वितीय वारं वसतिप्रविशति तदा तच्चान्यच राज्यं मुच्यते, राज्यद्वयमित्यर्थः / अथ त्रीन चतुरो बहुशो वारान् वसतिं प्रविशति तदा त्रीण्येव राज्यानि मुञ्चति। असिवाई बहिया का-रेणहिँ तत्थेव वसंति जो उ तवो। अभिगहियाणभिगहितो, सा तस्स उ जोगपरिवुड्डी॥६४५।। यदि बहिरशिवाऽऽदिभिः कारणैर्न निर्गच्छन्ति, ततस्तत्रैव वसन्ति, यस्य यत्तपो अभिग्रहीतमनभिगृहीतं वा, तेन तस्य वृद्धिः कर्तव्या, सा च योगपरिवृद्धिरभिधीयते / किमुक्तं भवति?-ये नमस्कारप्रत्याख्यायिनस्ते पौरुषीं कुर्वन्ति, पौरुषीप्रत्याख्यायिनः पूर्वार्द्धं कृत्वा शक्तौ सल्यामाचाम्ल पारयन्ति, शक्तेरभावे निर्विकृतिकमेकाशनक यावदशनकमपि / यदाह चूर्णिकृत- "सइ सामत्थे आय-बिलं च पारेति, असइ निव्वीयं / एकासणयं असणयमसमत्था सवीइयं पि त्ति / / 1 / / " एवं पूर्वार्द्धप्रत्याख्यायिनश्चतुर्थ, चतुर्थप्रत्याख्यातारः षष्ठ, षष्ठप्रत्याख्यायिनोऽष्टमम् / एवं विस्तरेण विभाषा कर्तव्या। एवं योगपरिवृद्धिं कुर्वतामपि यदि कदाचिदुत्थाय आगच्छेत्, तदाऽयं विधिःअण्णाइट्ठसरीरे, पंता वा देव तत्थ उद्वेजा। काइयं डव्वहत्थेण,भेणज्ज मा गुज्झया ! गुज्झा // 646 / / गतार्था।