________________ परिट्ठवणा 580 - अमिधानराजेन्द्रः - भाग 5 परिट्ठवणा इदं च वक्तव्यम्-बुध्यस्वबुस्यस्व गुह्यक ! मा मुह्य मा प्रमादीः संस्तार- | कान्मोत्तिष्ठेति भावः। वित्तासेज रसेज व, भीमं वा अट्टहास मुंचेजा। अभिएण सुविहिएणं, कायव्व विहीऍ वोसिरणं॥६२६|| अन्याधिष्ठितं तत्कडेवरं वित्रासयेत् विकरालरूपं दर्शयित्वा भापयेत् / रसेगा आरर्टि मुश्चेत्, भीमं वा रोमहर्षजनकमट्टहासं मुश्चेत्, तथाऽपि तत्राऽभीतेन सुविहितेन विधिना पूर्वोक्तेन, वक्ष्यमाणेन च व्युत्सर्जन कर्तव्यम् / गतं जागरणाऽऽदिद्वारम्। (10) अथकुशप्रतिमाद्वामाहदोण्णि जदि सडखेत्ते, दन्भमया पुत्तगा तु कायव्वा / समखेत्तम्मि य एको, अवड्ड अत्तिईण कायव्वो // 627 / / कालगते सति संयते नक्षत्रं विलोकयति ततश्चतुर्गुरु, ततो नक्षत्रे / विलोकिते यदि सार्द्धक्षेत्रं तदानीं नक्षत्र, सार्द्धक्षेत्रं नामपञ्चचत्वारिंशन्मुहूर्तभोग्यं, सार्द्ध, दिनभोग्यमिति यावत् / तदा दर्भमयौ द्वौ पुत्तलको कर्त्तव्यौ, यदि न करोति तदाऽऽश्वपरं साधुद्वयमाकर्षति, तानि च सार्द्धक्षेत्राणि नक्षत्राणि षट् भवन्ति / तद्यथा-उत्तराफाल्गुन्यः, उत्तराषाढाः, उत्तराभद्रपदाः, पुनर्वसू, रोहिणी, विशाखा चेति / अथ समक्षेत्रं त्रिंशन्मुहूर्लभोग्यं यदा नक्षत्रं तत एकः, पुत्तलकः कर्त्तव्यः, एष ते द्वितीय इति वक्तव्यम्। अकरणे अपरमेकमाकर्षति। समक्षेत्राणि चामूनि पञ्चदश-अश्विनी, कृत्तिका, मृगशिरः, पुष्यो, मघाः, पूर्वाफाल्गुन्यो, हस्तः, चित्रा, अनुराधा, मूलं, पूर्वाषाढाः, श्रवणो, धनिष्ठाः, पूर्वभद्रपदा, रेवती चेति / अथापार्द्धक्षेत्रं पञ्चदशमुहूर्तभोग्यं तन्नक्षत्रम् अभीचिर्वा तत एकोऽपि पुत्तलको न कर्त्तव्यः / अपार्द्धक्षेत्राणि चामूनिषट् शतभिषक, भरणी आर्द्रा, अश्लेषा स्वातिः, ज्येष्ठा चेति। (11) अथ निवर्तनद्वारमाहथंडिलवाघाएणं, अहवा वि अनिच्छिए अणाभोगा। भमिऊण उवागच्छे, तेणेव पहेण न नियत्ते // 628|| यत्र मृते नीयमाने स्थण्डिलास्याऽऽढकहरिताऽऽदिभिव्यया॑धातो भवेत्, अनाभोगेन वा स्थण्डिलमतिक्रान्त भवेत्, ततो भ्रमित्वा प्रदक्षिणं कुर्वाणा उपागच्छेयुः, तेनैव पथान निवर्तेरन् 'जइ तेणेव मग्गेणं, निवत्तंतिततो असमायारी कया उद्दुल्ला, सो यजओ चेव उद्देइ, तओ, चेव उट्ठइ, तओ चेव पहावइ, तत्थ जओ गामो तओ धाविजा।" तत एवं कर्त्तव्यम् - बाघायम्मि उवेउं, पुव्वं च अपोहियम्मि थंडिल्ले। तह णीति जह से कमा,ण होंति गामस्स पडिहुत्ता // 626 / / स्थण्डिलस्य व्याघाते पूर्व वा स्थण्डिलं न प्रत्यवेक्षितं ततस्तन् मृतकमेकान्ते स्थापयित्वा स्थण्डिलं च प्रत्युपेक्ष्य तथा च भ्रमयित्वा नयति यथा मृतस्य क्रमौ पादौ ग्रामाभिमुखै न भवतः। (12) अथ मात्रकद्वारमाहसुत्तत्थतदुभयविऊ, पुरतो घेत्तूण पाणग कुसे य / गच्छति जइ सागारिय, परिट्ठवेऊण आयमणं // 630 / / सूत्रार्थतदुभयवेदी मात्रके असंसृष्टपानक कुशांश्च दर्भान् समच्छेदान् / परस्परमसंबद्धान् हस्तचतुरड्डलप्रमाणान् गृहीत्वा पृष्ठतोऽनवेक्षमाणः पुरतोऽग्रतः स्थण्डिलाभिमुखो गच्छति, दर्भणामभावे चूर्णानि कैशराणि वा गृह्यन्ते, यदि सागारिकंततः शबं परिष्ठाप्याऽऽचमनं हस्तपादशौचाऽsदिकं कर्त्तव्यम्, आचमनग्रहणेनेदं ज्ञापयति-यथा यथा प्रवचनोजड्डाहो न भवति तथा तथा अपरमपि विधेयम्। (13) अथ शीर्षद्वारमाहजत्तो दिसाएँ गामो, तत्तो सीसं तु होइ कायव्वं / उठेतरक्खणट्ठा, अमंगलं लोगगरिहा य / / 631 / / यस्यां दिशि ग्रामस्ततः शीर्ष शवस्य प्रतिश्रयाद् नीयमानस्य परिष्ठाप्यमानस्य च कर्त्तव्यम्। किमर्थमित्याह-उत्तिष्ठतो रक्षणार्थ, यदि नाम कथञ्चिदुत्तिष्ठते तथापि प्रतिश्रयाभिमुखं नागच्छतीति भावः / अपि च-यस्यां दिशि ग्रामस्तदभिमुखं पादयोः क्रियमाणयोरमङ्गलं भवति, लोकश्व गहाँ कुर्यात्-अहो अमी श्रमणका एतदपि न जानन्ति,यद् ग्रामाभिमुखं शब न क्रियते। (14) अथ तृणाऽऽदिद्वारमाहकुसमुट्ठिण एकेणं, अव्वोच्छिन्नाए तत्थ धाराए। संथार संथरेजा, सव्वत्थ समो य कायव्यो॥६३२॥ यदा स्थण्डिलं प्रमार्जितं भवति तदा कुशमुष्टिनैकेनाव्युच्छिन्नया धारया संस्तारकं संस्तरेत्, स च सर्वत्र समः कर्त्तव्यः। विषमे एते दोषाःविसमा जदि होज तणा, उवरिं मज्झे तहेव हेढे य। मरणं गेलण्णं वा, तिण्णं पि उ णिदिसे तत्थ // 633 / / विषमाणि तृणानि यदितस्मिन् संस्तारके, उपरिच मध्ये वा अधस्ताद्वा भवेयुः, तदा त्रयाणामपि मरणं ग्लानत्वं वा निर्दिशेत्। केषां त्रयाणांमित्याहउवरिं आयरियाणं, मज्झे वसभाण हेढे भिक्खूणं / तिण्हं पिरक्खणट्ठा, सव्वत्थ समा य कायव्वा // 634 / / उपरि विषमेषु तृणेषु आचार्याणां मध्ये वृषभाणामधस्ताद्भिक्षूणां मरण ग्लानत्वं वा भवेत् / अतस्त्रयाणामपि रक्षणार्थ सर्वत्र समानि तृणानि कर्त्तव्यानि। जत्थ य नत्थि तिणाई, चुण्णेहिं तत्थ केसरहिं वा / कायव्योऽत्थ ककारो, हेट्ट नकारं च बंधिज्जा / / 635 / / यत्र तृणानि न सन्ति तत्र चूर्णैर्वा नागकेशरै :वा अव्युच्छिन्नया धारया ककारः कर्त्तव्यः, तस्य चाधस्तान्नकारं च बध्नीयात् क्रइत्यर्थः, चूर्णाना केशराणानां चाभावे प्रलेपकाऽऽदिरपि क्रियते। (14) अथोपकरणद्वारमाहचिंधट्ठा उवगरणं, दोसा तु भवे अचिंधकरणम्मि। मिच्छत्तं सो व राया, कुणंति गामाण वहकरणं // 636|| परिष्ठाप्यमाने चिह्नार्थ यथाजातमुपकरणं पार्श्वे स्थापनीयम् / तद्यथा-रजोहरण, मुखपोत्तिका, चोलपट्टकाः, यद्येतन्न स्थापयन्ति ततश्वतुर्गुरु, आज्ञाऽऽदयश्च दोषा चिह्नस्याकरणे भवन्ति / स च कालगतो मिथ्यात्वं गच्छे त्, राजा वा