________________ परिट्ठवणा 577 - अभिधानराजेन्द्रः - भाग 5 परिट्ठवणा भत्तं परिणगेलण, पुव्वगहो थंडलिस्सेव !|56ell यत्र साधवो मासकल्पं वर्षावासं वा कर्तुकामास्तत्र पूर्वमेव तिष्टतो दव्यम्य वहनकाष्ठाऽऽदेरवलोकन नियमाद्गच्छवासिनः कुर्वन्ति। विमित्याह-उपक्रमा मरणं, तत्कस्याऽपि संयतस्य भवेदित्येवमर्थः / तच मरणं कदाचित् भक्तपरिज्ञानतो भवेत्. कदाचित्तु ग्लानस्य। उपलक्षणभिदम्-तेनाऽऽशुकारेण वा मरणं भवेत्। ततः पूर्वमेव महास्थण्डिलस्य, वहनकाष्टाऽऽदेश्वावग्रहः प्रत्युपेक्षणं विधेयम्। अधुनाऽधिकृतविधिप्रतिपादनाय नियुक्तिकारो द्वारगा थात्रयमाहपडिलेहणा दिसा णंतए य काले दिया य रातो य। जग्गण वंधण छेदण, एतं तु विधिं तहिं कुजा॥६००। कुसपडिमाए णियत्तणमत्तग मीसे तणाई उवकरणे। काउस्सग्गपदाहिण, अब्भुट्ठाणे य वाहरणा // 601 // काउस्सग्गे य सज्झाइए य खमणस्स मग्गणा होति। वोसिरणे आलोयणसुभासुभं ठावती निमित्तट्ठा।६०२। (टिस त्ति) दिग्भागो निरूपणीयः! (णंतपय त्ति) औपग्रहिकानन्तकं मृतच्छेदनार्थ गच्छे सदैव धारणीयम्। जातिप्रधानश्वायं निर्देशः, ततो जघन्यतोऽपि त्रीणि वस्त्राणि धारणीयानि। (काले दिया यराओ अत्ति) दिवा रात्रौ वा कालगते विषादो न विधेयः रात्रौ च स्थाप्यमाने मृतके जागरणं बन्धनं छेदनं च कर्त्तव्यम् / एवं विधिं तत्र कुर्यात् / तथा-नक्षत्रं विलोक्य कुशप्रतिमाया एकस्या द्वयोर्वा करणमकरणं वा (नियत्तण त्ति) येन प्रथमतो गता न तेनैव पथा निवर्तनीयम् / मात्रके पानकं गृहीत्वा सुरत एकेन साधुना गन्तव्यं, यस्यां दिशि ग्रामस्ततःशीर्ष कर्त्तव्यं, तृणानि समानि प्रस्तरणीयानि, उपकरण रजोहरणाऽऽदिकं तस्य पार्श्वे धारणीयम, अविधिपरिष्ठापनायाः कायोत्सर्गः स्थण्डिले स्थितैर्न कर्तव्यः / निवर्तमानैः प्रादक्षिण्यं न विधेयम्। शवस्य चाभ्युत्थानेन वसत्यादिक परित्यजनीयम्। यस्य च संयतस्य व्याहरणं नामग्रहणं स करोति तस्य लोचः कर्त्तव्यः, गुरुसकाशमागतैः कायोत्सर्गो विधेयः, स्वाध्यायिकस्य च मार्गणा कर्तव्या। उच्चाराऽऽदिमात्रकाणां व्युत्सर्जन कर्त्तव्यम, अपने अहि तस्यावलोकन, शुभाशुभगतिज्ञानार्थं निमित्तग्रहनार्थ च विधेयमिति द्वारगाथा-बयसमासार्थः। अथैनामेव विवरीषुराहजंदव्वं घणमसिणं, वावारजुयमवहमाणए बलियं। वेणुमय दारुगं वा, तं वहणट्ठा पलोयंति॥६०३|| यद् व्यं वेणुमयं दारुकं वा घनमसृणं व्यापार युक्तमवहमानकं वलायो दृढतरं सागारिकस्य गृहे तिष्ठति तत्कालगतस्य वहनार्थ प्रथममेव प्रलोकयन्ति, महास्थण्डिलं च प्रत्युपेक्षणीयम्। अथन प्रत्युपेक्षन्तेतत इमे दोषाःअत्थंडिलम्मि काया, पवयणघाओ य होइ आसपणे। छदवणे गहणाई, परुग्गहे तेण पेहिज्जा / / 604 / / अस्थाण्डले परिष्टापयन्न् षट्कायान् विराधयति, प्रवचनघातश्च ग्रामाऽऽदेरासन्ने परिष्ठापयतो भवति, परावग्रहे च परिष्ठापयतश्छापन भवेत्। छपिनं नाम ते छलादपि साधुपादिन्यत्र द्रुतं शबं परित्यजेयुः, ततो ग्रहणाऽऽकर्षणाऽऽदयो भवेयुः। ततो महास्थण्डिलमवश्यं प्रागेव प्रत्युपेक्षेत। गत प्रत्युपेक्षणाद्वारम्। (५)अथ दिग्द्वारमाहदिसि अवरदक्खिणा दक्खिणाय अवरा य दक्खिणा पुव्वा। अवरुत्तरा य पुवा, उत्तर पुवुत्तरा चेव॥६०५।। प्रथममपरदक्षिणा नैऋत्या दिग् निरीक्षणीया, तदभावे दक्षिणा, तस्या अभाव अपरा दिक, तदप्राप्तौ दक्षिणपूर्वो आग्नेयी, तदलाभे अपरोत्तरा वा। एवं तस्या अभावे पूर्वा, तदभावे उत्तरा, तदभावे उत्तरपूर्वा / सम्प्रति प्रथमाया दिशि सत्यां शेषदिक्षु परिष्ठापने दोषानाहसमाही न भत्तपाणे, उवकरणे तुमंतुमा य कलहो य। भेदो गेलन्नो वा, चरिमा पुण कढए अन्नं / / 606 // प्रथमायां दिशिशवस्य परिष्ठापने चतुरानपानवस्वपात्रलाभतः समाधिर्भवति, तस्यां सत्यां यदि दक्षिणस्यां परिष्ठापयन्ति तदा भक्तपानं न लभन्ते, अपरस्यामुपकरणं न प्राप्नुवन्ति, दक्षिणपूर्वस्यां 'तुमंतुमा' परस्परं साधूनां भवति। अपरोत्तरस्यां कलहः संयतगृह स्थान्यतीर्थिकः समं भवति, पूर्वस्यां गणभेदश्चारित्रभेदो वा भवेत्; उत्तरस्यांग्लानत्वम् / चरमा पूर्वोत्तरा, सा कृतमृतकपरिष्ठापना अन्यं साधुभाकर्षति, मारयतीत्यर्थः। आसन्नमज्झदूरे, वाघातट्ठा, तु थंडिले तिण्णि। खेत्तुदगहारेयपाणाणिविट्ठमादी व वाधाए॥६०७।। प्रथमायामपि दिशि त्रीणि स्थण्डिलानि प्रत्यवेक्षणीयानि, ग्रामाऽऽदेरासन्ने मध्ये दूरे वा / किमर्थ पुनस्त्रीणि प्रत्यवेक्षन्ते ? इत्याहव्याधातार्थ, व्याघातं कदाचिद्वेदित्यर्थः। स चायम्-क्षेत्र तत्र प्रदेशे कृष्टम् , उदकेन वा भावित, हरितकायाद् वा जातः, त्रसप्राणिभिर्वा संसक्तं समजानि, ग्रामो वा निविष्टः, आदिग्रहणेन सार्थो वा आवासितः, एवमादिको व्याघातो यद्यासन्ने स्थण्डिले भवति तदा मध्ये परिष्ठापयन्ति, तत्रापि व्याघाते दूरे परिष्ठापयन्ति, अथ प्रथमायां दिशि विद्यमानायां द्वितीयायां तृतीयायां वा प्रत्यवेक्षन्ते ततश्चतुर्गुरुकाः। एतेच दोषाःएसण पेलण जोगा-ण व हाणी भिण्ण मासकप्पो वा। भत्तोवधी अभावे, इति दोसा तेण पढमम्मि // 608 / / भक्तपानलोभादुपधेरलाभावा प्रेरणं कुर्युः / अथैषणां न प्रेषयेषुस्ततो योगानामावश्यकव्यापाराणां हानिः, अपरं वा क्षेत्रं गच्छतां मासकल्पो भिन्नो वा भवेत्। एवमादयो दोषा भक्तोपध्यादेरभावे भवन्ति, ततः प्रथमे दिग्भागे महास्थण्डिलं प्रत्यवेक्षणीयम्। एमेव सेसियासु वि, तुभंतुमा कलह भेदमरणं वा। जं पावंति सुविहिया, गणाहिवो पावें तिविहं तु // 606 / / यथा द्वितीयायां तृतीयायां च दोषा उक्ताः, एवं शेषेष्वपि चतुर्थ्यादिषुः यत्तुमतुमा कलह गणभेदं मरणं वा सुविहिताः प्राप्नुवन्ति, तद्गणाधिपः सर्वमपि प्राप्स्यति अथ प्रथमायां व्याघातस्ततो द्वितीयायामपि प्रत्यवेक्षणीयं, तस्यां च स एव भक्तपानलक्षणो गुणो भवति यः प्रथमायामुक्तः। अथ द्वितीयस्यां विद्यमानायां तृतीयायां प्रत्यवेक्षन्ते। ततः स एव प्रागुक्तो दोषः। एवमष्टमी दिशं यावन्नेतव्यम्। द्वितीयस्यां व्याघातस्ततः तृतीवस्यां प्रत्यवेक्षणीयं, तस्यां च स एव गुणो भवति / एवमुत्तरोत्तरदिक्ष्वपि भावनीयम्। गतं दिग्द्वारम्।