SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ परिग्गहवेरमण 567- अभिधानराजेन्द्रः - भाग 5 परिग्गहावंत स्पृष्ट्वा इति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञमद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् / तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्ट्वा स्पर्शान् अमनोज्ञपापकान (किं ते ति) तद्यथाअनेको बहुविधो बन्धो रज्ज्वादिभिः संयमन, बधो विनाशः, ताडनं चपेटाऽऽदिना, अङ्कन तप्ताऽयःशलाकयाऽङ्ककरणम्, अतिभाराऽऽरोहणम्, अङ्गभजनं शरीरावयवप्रमोटनं शूचीनां नखेषु प्रवेशो यः स तथा, गात्रस्य शरीरस्य प्रक्षणनं चीरणं गात्रप्रक्षणनं, तथा लाक्षारसेन क्षारतैलेन तथा (कलकल त्ति) कलकशब्दं करोति यत्तत्कलकलम्, अतितप्तमित्यर्थः / तेन वपुणा ससिकेन काललोहेन च यत्सेचनमभिषेचनं तत्तथा, हडीबन्धनं खोटकक्षेषः रज्ज्या निगडैः सङ्कलेन हस्तान्दुकेन च यानि बन्धनानि तानि तच्छब्दरेवोक्तानि, तथा कुम्भ्यां भाजनविशेषे पाकः पचनं, दहनमग्निना सिंहपुञ्छनं सेपस्त्रोटनम्, उद्वन्धनमुल्लम्बनं शूलभेदः, शूलिकाप्रपतनं, गजचरणमलनं, करचरणकर्णनासौष्ठशीर्षच्छेदन प्रतीतम्, जिह्वाछेदन जिह्वाकर्षणं, वृषणनयनहृदयान्त्रदन्तानां यद्भञ्जननामर्दन तत्तथा, योक्त्रं यूपे वृषभसंयमन, लताकं च कशा बर्धः, एषां ये प्रहारास्ते तथा। पदपाष्णि जानु अष्ठीवत् प्रस्तराः पाषाणा एषां यो निपातः पतनं स तथापीडनं यन्त्रपीडन, कपिकच्छस्तीब्रकण्डूतिकारकः फलवि शेषः, अग्निर्वह्निः(विच्छुयडक त्ति) वृश्चिकदंशः, याताऽऽतपदंशमशकानिपातश्चेति द्वन्द्वः / ततस्तान् स्पृष्ट्वा, दृष्टनिषद्या दुरासनानि दुर्निषधिका कष्टस्वाध्यायभूमीः स्पृष्ट्वा तेष्विति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरूक्षेषु बहुविधेषु अन्येषु चैवमादिकेषु स्पर्श - ध्वमनोज्ञकेषु न तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत्। इह पञ्चमसंवरे शब्दाऽऽदिषु रागद्वेषनिरोधनं यद्भावनात्वेनोक्तं तत्तेषु लदनिरोधो परिग्रहः स्यादिति मन्तव्यम्, तद्विरत एव चाऽपरिग्रहो भवतीति / आह च-'जे सद्दरूपरसगंधमागए फासए य संपप्प मणुण्णपायए गेहीए ओसन्नं करेज पंडिए, से होति दंते विरए अकिंचणे त्ति।" प्रश्न०५ संव० द्वार। अहावरा पंचमा भावणाफासओ जीवो मणुण्णा-मणुण्णाई फासाइं पडिसंवेदेति, मणुण्णामणुण्णहिं फासेहिं णो सज्जेज्जा, णो रज्जेज्जा णो पिज्झेज्जा, णो मुच्छेज्जा, णो अज्झोववजेज्जा, णो विणिधायमावजेज्जा / केवली बूयाणिग्गंथे णं मणुण्णामणुण्णेहिं फासेहिं सज्जमाणे०जाव विणिधायमावजमाणे संति भेदा संति संति विभंगा संति केवलिपण्णत्ताओ धम्माओ भंसेज्जा"णो सक्का फासमवेएउं, फासविसयमागयं / रागद्दोसा उजे तत्थ, ते भिक्खू परिवज्जए।।१।।" फासओजीवो मणुण्णामणुप्रणाइं फासाइं पडिसंवेदेति पंचमा भावणा एतावया पचमे महव्वते सम्म अवहिते आणाए आराधिते यावि भवति, पंचम भंते ! महत्वयं / इच्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपण्णे अणगारे अहासुयं अहाकप्पं अहामग्गं सम्मं कारण फासित्ता पालित्ता तीरिता किट्टित्ता आणाए आराहित्ता यावि भवति / आचा०२ श्रु०३ चू०। निगमनम्एवमिणं संवरस्सदारं सम्म संवरियं होति सप्पिणिहियं इमेहिं पंचहि विकारणेहिं मणवयणकायपरिरक्खिएहिं णिचं आमरणं तंच एस जोगो नेयव्यो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्साई असंकिलिट्ठो सुद्धो सव्वजिणमण्णुण्णाओ। एवं पंचमं संवरदारं फासियं पालियं सोहियं तिरियं किट्टियं अणुपालि यं आणाए आराहियं भवति एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्धं सिद्धिवरसासणमिणं आघवियं सुदेसियं पसत्थं। पंचमं संवरदारं सम्मत्तं त्ति बेमि॥१०॥ (एवमिणमित्यादि) पञ्चमं संवराध्ययननिगमनं पूर्ववदिति / प्रश्र०५ संब०द्वार। परिग्गहसण्णा स्त्री० (परिग्रहसंज्ञा) लोभोदयात्प्रधानभवकारणाभिष्वङ्ग पूर्विका सचित्तेतरद्रव्योपादानक्रियैव संज्ञायतेऽनयेति परिग्रहसंज्ञा। भ०७ श०८ उ० / स्था०। प्रज्ञा० / तीव्रलोभोदयात्परिग्रहाभिलाषे, ध० 3 अधि०। लोभविपाकोदयसमुत्थमूपिरिणामे, जी०१ प्रति०। आ वा०। आ००। चारित्रमोहोदयजनितपरिग्रहाभिलाषे, स्था०४ ठा० 4 उ०। चउहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जइ। तं जहा-अविमुत्तयाए लोभवेयणिज्जस्स कम्मस्स उदएणं मईए तदहोवओगेणं / अविमुक्ततया सपरिग्रहतया मत्या सचेतनाऽऽदिपरिग्रहदर्शनाऽऽदिजनितबुद्ध्या, तदर्थोपयोगेन परिग्रहानुचिन्तनेनेति। स्था० 4 ठा० 4 उ०। आव०। परिग्गहावंत त्रि० (परिग्रहवत्) परिग्रहयुक्ते, आचा०। अविरतवादी परिग्रहवानिति युदक्तं तत्प्रतिपादयन्नाहआवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एतेसु परिग्गहावंती, एतदेव एगेसिं महब्मयं भवति, लोगवित्तं च णं उवेहाए, एए संगे अविजाणओ॥१४॥ (आवंतीत्यादि) यावन्तः केचन, लोके परिग्रहवन्तः परिग्रहयुक्ताः स्युस्तत्र, एवंभूतपरिग्रहसद्भावादित्याह- (से अप्पं वा इत्यादि) तद् द्रव्यं यत्परिगृह्यते तदल्पं वा स्तोकं वा स्यात्कपर्दकाऽऽदि, बहु वा स्यात धनधान्यहिरण्य ग्रामे जनपदाऽऽदि, अणु वा स्यात् मूल्यतस्तृणकाष्ठाऽऽदि, प्रमाणतो वजाऽऽदि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वाऽऽदि। एतच्च चित्तवद्वा स्यादचित्तवद्वेति / एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेन्वेव यरिग्रहवत्सु गृहस्थेष्वन्तर्वर्तिनो व्रतितोऽपि स्युः, यदि वैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पाऽऽदिषु वा द्रव्येषु मूर्छा कुर्वन्तः परिग्रहवन्तो भवन्ति, तया चाविरतो विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम्, एकदेशापरापादमि सर्वापराधितासम्भवः, अनिवारिताऽऽश्रवत्वात् / यद्यंवमल्पेनापि परिग्रहेण परिग्रह -
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy