SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ परिग्गहवेरमण 560- अमिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण अर्थति परप्रश्ने। कीदृशं किंविधं (पुणो इति) पुनः तत कल्पते संगच्छते परिगृहीतमोदनाऽऽदीनि प्रकृतम् ? उच्यते यत्तदेकादशपिण्डपातशुद्धम्-आचारागस्य द्वितीय श्रुतस्कन्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायिकैरुद्देशैर्विशुद्धं तदुक्तदोषविमुक्तं यत्तत्तथा। तथा क्रयणं मूल्येन ग्रहणं, हननं विनाशनं, पचनं चाग्निना पाक इति द्वन्द्वः। एषां यानि कृतकारितानुमोदनानि स्वयंकरणकारणानुमतयः तानि तथा, ता एव नवकोट्यो विभागा इति समासः ताभिःसुपरिशुद्ध निर्दोषम् / दशमिश्च दोषैर्विप्रमुक्तम्; ते च शङ्किताऽऽदय एषणादोषाः / उगम आधाकर्माऽऽदिषोडशविधः, उत्पादना धात्र्यादिषोडशविधैव, एतत् द्वयम्. एषणा गवेषणाऽभिधाना उद्गमोत्पादनैषणा, तया शुद्धम्। (वव-गयचुयचइयचत्तदेहं च त्ति) व्यपगतमोघतश्चेतनापर्यायादचेतनत्वं प्राप्तं, च्युत जीवनाऽऽदिक्रियाभ्यो भ्रष्ट, च्यावितं तेभ्य एव आयुः क्षयेण भ्रंशितं त्यक्तदेहं च त्यक्तजीवसंसर्गसमुत्थशक्तिजनिताऽऽहाराऽऽदिपरिणामप्रभवापचय यत्तत्तथा, चः समुच्चये, प्रासुकं च निर्जीवमित्येतत्पूर्वोक्तस्यैव व्याख्यानम् / कल्पते ग्रहीतुमिति प्रक्रमः / तथा व्यपगतसंयोगमनङ्गार विगतधूमं चेति पूर्ववत् / षट् स्थानकानि निमित्त यस्य भैक्ष्यवर्त्तनस्य तत्तथा। तानि चामूनिद्वेयण 1 वेयावच्चे, 2 इरियट्ठाए व 3 संजमट्ठाए ! तह पाणवत्तियाए 5, छटुं पुण धम्मचिंताए / / 1 / / " इति षटकायपरिरक्षणार्थमिति व्यक्तम्- (दिणे दिणे त्ति) अहनि 2, प्रतिदिनं, सर्वदाऽपीत्यर्थः। प्रासुकेन भैक्ष्येण भिक्षासमूहेन, वर्तितव्यं वृत्तिः कार्या (5) / जं पि य समणस्स सुविहियस्स उ रोगाऽऽयंके बहुप्पगारम्मि | समुप्पन्ने वायाहिकपित्तसिंभअइरित्तकुवियतहसंण्णिवायजाते तह उदयपत्ते उज्जलबलविउलकक्खडपगाढदुक्खे असुहकडुयफरुसचंडफलविवागे महब्भए जीवियंतकरणे सव्वसरीरपरितावणकरणे न कप्पइतारिसे वि तह अप्पणो परस्सव ओसहभेसज्जभत्तपाणं च तं पि सण्णिहिकयं (6) / तथा-यदपि च औषधाऽऽदि, तदपि संनिधिकृत न कल्पत इत्यक्षरघटना / कस्य न कल्पते ? इत्याह-श्रमणस्य साधोःसुविहितस्य पार्श्वस्थाऽऽदेः, तुक्यालङ्कारे / कस्मिन् सतीत्याह-रोगाऽऽतङ्के रोगो ज्वराऽऽदिः, स चासावातङ्कश्च कृच्छ्रजीवितकारी रोगाऽऽतङ्कः, तत्र बहुप्रकारे विविधे, समुत्पन्ने जाते, तथा (वायाहिक ति) वाताऽऽधिक्यम् (पित्तसिंभाइरित्तकुविय त्ति) पित्तसिंभयोर्मायुश्लेष्मणोरतिरिक्तकुपितमतिरेककोपः पित्तसिंभातिरिक्तकुपितम् / तथेति तथाप्रकार औषधाऽऽदिविषयो यः सन्निपातो वाताऽऽदित्रयसंयोगः, जातः स तथा। ततः पदवयस्य द्वन्द्वकत्वम्। ततस्तत्र वासति। अनेन च रोगाऽऽतङ्कनिदानमुक्तम्। तथा उदयप्रति उदिते सति। केत्याह-उज्ज्वलं सुखलेशमलवजित बलं बलवत् कष्टोपक्रमणीयं विपुलं विपुलकालवेद्य, त्रितुलं वा त्रीन् मनः प्रभृतीन तुलयति तुलामारोपयति कष्टावस्थां करोतीति त्रितुलं कर्कशं कर्क शद्रव्यमिवानिष्ट, प्रगाढं प्रकर्षवत् यत् दुःखमसुखं तत्तथा तत्र / किंभूते? इत्याह-अशुभः असुखो वा कटुकः, कटुक द्रव्यमिवानिष्टः, परुषः परुषस्पर्शद्रव्यमिवानिष्टः, एवं चण्डो दारुणः फलविपाकः कार्यनिष्ठो दुःखानुबन्धलक्षणो यस्य तत्तथा तत्र, महद्भय यस्मात्तन्महाभयं तत्र, जीवितान्तकरणे; सर्वशरीरपरितापनकरणे, न कल्पते न युज्यते, तादृशेऽपि रोगाऽऽतकाऽऽदौ, यादृशो न सोढुं शक्यते (तह त्ति) तेन प्रकारेण पुष्टाऽऽलम्बनम् विनाशाऽऽलम्वनस्य पुन: कल्पत एवा यतः- 'काहिं अतित्ति, अदुवा अहीहं, (?) तवोवहाणेसु य उज्जमिस्स। गणं व नीईए उसारविस्सं, सालंबसेवी समुवेइ मोक्ख / / 1 / / " आत्मने परस्मै वा निमित्तम्. औषधं भेषजं, भक्तं पानं च, तदपि सन्निधिकृतं सञ्चयीकृतम्, परिग्रहविरतत्वात् (6) जं पि य समणस्स सुविहियस्स तु पडिग्गहधारिस्स भवइ भायणभंडोवहिउवकरणपडिग्गहो पायबंधणपायकेसरियापायट्ठवणं च पडलाइं तिण्णि च रयत्ताणं गोच्छओ तिन्नि य पच्छगा रओहरणचोलपट्टकमुखणंतकमादीयं (7) / एय पिय संजमस्स उवबिंहणट्टयाए वायाऽऽतवदंसमसगसीयपरिरक्खणट्ठयाए उवगरणं रागदोसरहियं परिवहियव्वं संजएण णिचं (8) यदपि च श्रमणस्य सुविहितस्य, तुशब्दो भाषामात्रे पतद् ग्रहधारिणः सपात्रस्य सम्भवति, भाजनं च पात्रं, भाण्ड मृन्मयं तदेव, उपधिश्व औपधिकः, उपकरणं चौपग्रहिकम्। अथवाभाजनं च भाण्ड चोपधिश्चेत्येवंरूपमुपकरणं भाजनभाण्डोपध्युपकरणम्, तदेवाऽऽह-पतद्ग्रह पात्रं, पात्रबन्धनं पात्रबन्धः, पात्रकेशरिका पात्रप्रमार्जनपोत्तिका, पात्रस्थापन यत्र कम्बलखण्डे पात्रं निधीयते, पटलानि भिक्षाऽवसरे पात्रप्रच्छादकानि वस्वखण्डानि / तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्ति अन्यथा पश्च सप्त केति / रजस्त्राणं च पात्रवेष्टनं चीवर, गोच्छकः पात्रवस्त्रप्रमार्जनहेतुः कम्वलश कलरूपः, त्रय एव प्रच्छदौ द्वौ सौत्रिको, तृतीय और्णिकः, रजोहरण प्रतीतं, चोलट्टकः परिधानवस्त्र मुखानन्तकं मुखवस्त्रिका। एषां द्वन्द्वः / तत एतान्यादिर्यस्य तत्तथा (7) / एतदपि च संयमस्योपबृहणार्थमुपष्टम्भार्थ, न परिग्रहसंज्ञया। आह च "ज पि वत्थं व पायं वा, कंबल पायपुंछणं / तं पि संजमलजट्ठा, धारेंती परिहरंति य // 1 // " परिभुञ्जत इत्यर्थः। "नय सो परिगहो वुत्तो नायपुत्तेण ताइणा। मुच्छा परिग्गही वुत्तो, इइवुत्तं महेसिणा॥१॥" अस्मद्गुरुणेत्यर्थः। तथा वाताऽऽतपदंशमशकशीतपरिरक्षणार्थतया उपकरणं रजोहरणाऽऽदिक रागद्वेषरहितं यथा भवतीत्येवं परिवो ढव्य परिभोक्तव्यं संयतेन नित्यम् (8) / पडिलेहणपप्फोडणपमज्जणाए अहो य राओ य अप्पमत्तेणं हंति सययं निक्खिवियव्वं च गिण्हियव्वं च भाययणभंडोवहिं उवकरणं / एवं से संजए विमुत्ते निस्संगो निप्परिग्गहरुई निम्ममे निसिनेहबंधणे सव्वपावविरए वासीचंदणसमाणकप्पो समतिणमणिभुत्तलेठुकं चणसमे समे य माणावमाणणाए समियरए समियरागदेसे समिते समिइसुसम्मविट्ठी समे यजे सव्वपाणभूएसु से हु समणे सुयधारए उज्जुए संजए सुसाहू सरणं सव्वभूयाणं सव्यजगवच्छले सच्चभासके य संसारते वितेयसंसारसमुच्छिन्ने
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy