________________ परिग्गहवेरमण 556 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण सोऽवश्यं भवतीति। इति-शब्द उपदर्शने, येनैवं तेन वर्जयन्तिपरिहरन्ति, पुष्पफलधान्यग्रहणभोजनाऽऽदिकम् / के ? श्रमणसिंहा मुनिपुङ्गवाः / यदपि च ओदनाऽऽदि तदपि न कल्पते संनिधीकर्तुं सुविहितानामिति सम्बन्धः / तत्र ओदनः कूर, कुल्पाषा माषाः, ईषत् म्विन्ना मुद्राऽऽदय इत्यन्ये / (गंज त्ति) भोज्यविशेषः तर्पणाः शक्तवः (मंथु त्ति) वदराऽऽदिचूर्णः (भुजि यत्ति) धानाः (पलल त्ति) तिलपिष्ट, सूपो मुद्राऽऽदिविकारः शष्कुली तिलपर्पटिका, वेष्टिमा च प्रतीता। वरशङ्खाणि चूर्ण कोशकानि च रूढिगम्यानि। पिण्डा गुडपिण्डाः शिखरिणी गुडमिश्र दधि, वट्ट त्ति) घनीभूतं तीमनं, मोदका लड्डुकाः / क्षीरं, दधि च व्यक्तम्। सर्पिः घृतं नवनीतं म्रक्षणम् तैलं गुडं, खण्ड च कंठ्यानि / मत्स्यण्डिका खण्डविशेषः मधुमद्यमांसानि प्रतीतानि,खाद्यकानि प्रतीतानि व्यञ्जनानि तक्राऽऽदीनि शालकानि वा तेषां ये विधयः प्रकारास्तेषामनेकव्यजनविधयस्तत एतेषामोदनाऽऽदीनां द्वन्द्वः / तत एते आदिर्यस्य तत्तथा। प्रणीतं प्रापितं उपाश्रये, वसतौ, परगृहे वा, अरण्ये अटव्यां, न कल्पते न सङ्गच्छते तदपि सन्निधीकर्तुं सशीकर्तुं सुविहितानां परिग्रहपरिवर्जनेन शोभनानुष्ठानानां, सुसाधूनामित्यर्थः / आह च विडमुझे (?) इमं लोण, तेल्लं सप्पिच फाणियं / ण ते संनिहिमिच्छंति, नायपुत्तवएरआ" ||1|| इति। (3) / जंपि य उद्दिट्टड वियरचितक पनवजातपकिण्णपाउकरणपामि भीसं कीयकडं पाहुडं वा दाणटुं पुण्णपगडं समणवणीवगट्ठयाए वा कयं पच्छाकम्मं पुरेकम्म नित्तिक मुदकमक्खियं अइरितं मोहरं सयं गाहमाहडं मट्टिओवलितं अच्छिज्जं चेव अणिसिटुंजं तं तिहिसुजण्णेसुउस्सवेसु य अंतो वा बहिं वा होञ्ज समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पइ तं पि य परिघेत्तुं (5) यदपि चोद्दिष्टाऽऽदिरूपमोदनाऽऽदि, न कल्पते तदपि च ग्रहीतुमिति सम्बन्धः / उद्दिष्ट -यावदर्थिकान् पाषण्डिनः श्रम णान् साधूनुद्दिश्य दुर्भिक्षोपगमाऽऽदौ यद्भिक्षावितरणं तदौ ।शिकमुद्दिष्टम् आह च - "उद्दिसिय साहुमाई, ओमे चिय भिक्खवियरणं जंच" इति।स्थापितंप्रयोजने याचितं गृह स्थेन च तदर्थ स्थापितं यत्तत् स्थापितम्। आह च - "सो हो ही सियखीरा - इठावणं ठवण साहणऽट्टाए।" रचितकंमोदकचूर्णाऽऽदि साध्वाद्यर्थ प्रताप्य पुनर्मोदकाऽऽदितया विरचितम् / औद्दोशिकभेदोऽयं कर्माभिधान उक्तः / पर्यवजातं पर्यवोऽवस्थान्तरं जातो यत्र तत्पर्यवजातं, कूराऽऽदिकमुद्वरितं दध्यादिना विमिश्रितं करम्बाऽऽदिकं पयोयान्तरमापादितमित्यर्थः / अयमप्यौद्देशिकभेदकृताभिधान उक्तः / प्रकीर्णविक्षिप्तं विच्छर्दितं, परिसाटीत्यर्थः। अनेन नवच्छर्दिताभिधान एषणादोष उक्त। (पाउकरणं ति) प्रादुःक्रियते अन्धकारादपवरकाऽऽदेः साध्वर्थं बहिष्करणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत्प्रादुःकरणमशनाऽऽदि / आह च-''णीयदुवारधारे, व / गवक्खकरणा पाउइ करण तु / " (पामिच्चं ति) अपमित्यकम् उत्पज्जकमुच्छिन्नमित्यर्थः / आह च-"पामिचं जं साहूणऽट्ठा उच्छिदिउं विपाविति।" इति। एषां च समाहारद्वन्द्वः / (मीसक नि) मिश्रजातं साध्वर्थ गृहस्थार्थ वाऽऽदित उपस्कृतम् / आह च- "पढम चिय गिहिसंजयमीसो-वक्खडाइ मीसं तु।'' (कीरागड त्ति) क्रीतेन क्रयेण कृतं साधुदानाय क्रीतकृतम्। आह च-"दव्वाइपडुचहिं किणणं साहूणहाए कीयं तु पाहुड वा।'' प्राभृतिकेत्यर्थः / तल्लक्षणं चेदम् - "सुहुमेयरमुस्सक्कण मवस द्रण सो य पाहुडिया।" ततः पदत्रयस्य समाहारद्वन्द्वः / चशब्दः पूर्ववाक्यापेक्षया विकल्पार्थः। दानमर्थो यस्य तद्दानार्थ पुण्यार्थ प्रकृतं साधित पुण्यप्रकृतम्। पदद्वयस्य द्वन्द्वः। तथा श्रमणाः पञ्चावेधाः - "निग्गंथमुत्ततापस-गेरुय-अजीव पंवहा समणा / ' वनीपकाच तर्कुकास्त एवार्थ प्रयोजनं यस्य तत्तथा तद्भावस्तत्ता तया / वा विकल्पार्थः / कृतं निष्पादितम्। इह कश्चिद्दाता दानमेवाऽऽलम्बते दातव्यं मयोत, अन्यस्तु पुण्यं मम भूया-दित्येवम् अन्यस्तु श्रमणान् अन्यस्तु वनीपकानिति चत्वारोऽपि औद्देशिकस्य भेदा एते उक्ता इति। (पच्छाकम्मं ति) पश्चाद्दानानन्तरं कर्म भाजनधावनाऽऽदि यत्राशनाऽऽदौ तत्पश्चात्कर्म (पुरेकम्म ति) पुरो दानात्यूर्वं कर्म हस्तधावनाऽऽदि यत् तत्पुरःकर्म (णित्तियं ति) नैत्विकं सार्वदिकमवस्थित मनुष्यपोषाऽऽदिप्रमाणम् / (उदकमक्खियं ति) उदकाऽऽदिना संसृष्टम् / यदाह"मक्खियमुदगाइणा उ जं जुन्न।" अयमेषणादोष उक्तः। (अति-रित्तं ति) "वत्तीस किर कवला, आहारो कुक्खिपूरओ भणिओ। पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ||1 // " एतत्प्रमाणा-तिक्रान्तमरिरिक्तम्। अयं च मण्डलीदोष उक्तः। (मोहरं ति) मौखर्वेण पूर्व संस्तवः पश्चात् संस्तवाऽऽदिना बहुभाषित्वेन यल्लभ्यते तन्भौखरम्, अयमुत्पा-. दनादोष उक्तः (सयं गाहं ति) स्वयमात्प्रता दत्तं गृह्यते यत् तत् स्वयं आहम् अवमपरिणताऽभिधानदोष उक्तः,दायकस्य दाने अपरिणतत्वादिति। (आहडं ति) स्वप्राभाऽऽदेः साध्वर्थमानीतमाहृतम्। आह च- "सग्गामपरग्गाममाणीय, आहडं ततं होइ।" (मट्टिउवलितं ति) उपलक्षणत्वान्मृतिकाग्रहणस्य मृत्तिकाजतुगोमयाऽऽदिना उपलिप्तं सत् यदुद्भिद्य ददाति तं मृतिकोपलितम्, उद्भिन्नमित्यर्थः / आह"छगणाइणोवलितं, उभिदिय ज तभुब्भिन्ना" (अच्छिज्जं चेव ति) आच्छेद्यं यदाच्छिद्य भृत्याऽऽदिभ्यः स्वामी ददाति। आह च-"अच्छिज्ज अच्छिदिया जं सामी भिचमाईणं / ' अनिसृष्टं बहुसाधारणं सत् यदेक एव ददाति। आह च- 'अणिसट्ठ सामलं, गोडियभत्ताइ ददउ एगस्स।' एतेषूद्दिष्टाऽऽदिषु यत् प्राय उद्गमदोषा उक्ताः / तत्प्रायः नियततियिषु मदनत्रयोदश्यादिषु, यज्ञेषु नागाऽऽदिपूजासूत्सवेषु च शक्रोत्सवाऽऽदिषु अन्तर्बहिर्वा उपाश्रयात् भवेत् श्रमणार्थं स्थापितं दानायोमस्थापित हिंसालक्षणं यत्सावातत्-सम्प्रयुक्तंन कल्पतेतदपिच परिग्रहीतुम(४) / अह के रिसयं पुणो तं कप्पति ? जंतं एकारसपिंडवाय सुद्धं किणणहणणपयणकयकारियाणुं मोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणाए सुद्धं ववगयचुपचइयचतदेहं च फासुयं च ववगयसंजोगमणिंगालं विगयधूम छद्वाणनिमित्तं छक्कायपरिरक्खणट्ठा दिणे दिणे फासुकेण मिक्खेण वट्टियव्वं (5) /