________________ परिग्गहवेरमण 558 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण वविप्यापेक्षया, क्षयोपशमाऽऽद्यपेक्षया च; पादपपक्षे च मूलक - न्दाऽऽदिविशेषापेक्षयेति / ततः पदद्वयस्य कर्मधारयः / सम्यक्त्वमेव सम्यग्दर्शनभेव विशुद्ध निर्दोष बद्ध मूल कन्दस्याऽधोवर्ति यस्य स तथा / धृतिः वित्तस्वास्थ्यं सैव कन्दः स्कन्दाधोभागरूपोयस्य स तथा। विनय एव वेदिका पार्श्वतः परिकररूपा यस्य स तथा / (निग्गयतेल्लोक त्ति) प्राकृतत्वात्यैलोक्ये निर्गतं त्रैलोक्यनिगतं भुवनत्रयव्यापकमत एव विपुलं विस्तीर्ण यद्यशः ख्यातिस्तदेव निचितो निविडः पीनं स्थूलं पीवरो महान् सुजातः सुनिष्पन्नः स्कन्धो यस्य स तथा। पञ्चमहाव्रतान्येव विशालाः विस्तीर्णाः शालाः शाखा यस्य स तथा। भावनैवानित्यत्वाऽऽदिविन्ता त्वक् वल्कलं यस्य वाचनान्तरभावनैव त्वगन्तो वल्कलावसान यस्यस तथा / ध्यानं च धर्मध्यानाऽऽदि शुभयोगाश्च सद्व्यापारा ज्ञानं च बोधविशेषः तान्येव पल्लववराकुराः प्रबालप्रवरप्ररोहाः तानिधारयति यः स तथा / ततः पदद्वयस्य कर्मधारयः। बहवो ये गुणा उत्तर गुणाः शुभफलारूपाः त एव कुसुमानि तैः समृद्धो जातिसमृद्धिर्यस्य स तथा। शीलमेवैहिकफलानपेक्षप्रवृत्ति स्वसमाधानमेव वा सुगन्धः सद्गन्धो यत्र स तथा। (अणण्हवफलो त्ति) अनाश्रवो नवकर्मानुपादानः स एव फलं यस्य स तथा। पुनश्च पुनरपि माक्ष एव वरबीजसारो मिजालक्षणः सारो यस्य स तथा। मन्दरगिरिशिखरे मेरुधराधरशिखरे या चूलिका चूड़ा सा तथा सा इव, अस्य प्रत्यक्षस्य, मोक्षवरे वरमोक्षे भावमोक्षे सकलकर्मक्षयलक्षणे गन्तव्ये, मुक्तिरेव निर्लोभतैव मार्गः पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः शेखरकल्पः / कोऽसावित्याह-सम्बर एवाऽऽश्रवनिरोध एव वरपादपः प्रधानद्रुमः सम्वरवरपादपः पञ्चप्रकारस्यापि संवरस्य उक्तस्वरूपे सत्यपि प्रकृताध्ययनमनुसरन्नाह चरमं पञ्चम सम्बरद्वारम्। आश्रवनिरोधमुखमिति पुनर्विशेषयन्नाह - जत्थ न कप्पइ गामाऽऽगरणगरखेड कव्वड मडं बदोणमुहपट्टणाऽऽसमगयं वा किंचि अप्पं वा बहुं वा अणुं वा थूलं वा तसथावरकायदव्वजायं मणसा वि परिघेत्तूण हिरण्णसुवण्णखेत्तवत्थू न दासीदासमयकपेसहयगयगवेलगंवा ण जाणजुगसयणासणाई न छत्तकं न कोडिंका न उवाणहे, न पेहुणवीयणतालियंटका ण यावि अयतउयतंबसीसकंसरययजायरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकाचवरवेलचम्म-पत्ताई महारिहाई परस्स अज्झोववायलोभजणणाई परियट्टि (1) / यत्र चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति, न कल्पते न युज्यते, परिग्रहीतुमिति सम्बन्धः / किं तदित्याह-ग्रामाऽऽकरनगरखेटककर्वटमडम्बद्रोणमुखपत्तनाऽऽश्रमगतं वा / ग्रामाऽऽदिव्याख्यानं पूर्ववत्। वाशब्द उत्तरपदापेक्षया विकल्पार्थः / किञ्चिदित्यानर्दिष्टस्वरूपं सामान्यं, सर्वमेवेत्यर्थः / अल्पं वा स्वल्पतः बहु वा मूल्यतः। एवं (अणुवा ) स्तोक प्रमाणतः, स्थूलं वा महत्प्रमाणतः। (तसथावरकायदव्वजायं ति) त्रसकायरूपं शङ्खाऽऽदि सचेतनमचेतनं वा / एवं स्थावरकायरूपं रत्नाऽऽदि द्रव्यजातं वस्तुसामान्यं मनसाऽऽपि चेतसाऽपि आस्तां कायेन, परिग्रहीतुं स्वीकर्तुम् / एतदेव विशेषेणाऽऽह-न हिरण्यसुवर्णक्षेत्रवस्तु, परिकल्पते परिगृहीतुमिति प्रकमः / न दासीदासभृतकप्रेष्यहयगजगवेलकं वा / दास्यादयः प्रतीताः / न यानयुग्यशयनाऽऽसनानि, यानं रथाऽऽदिकं, युग्यं वाहनमात्रं, गोल्लकदेशप्रसिद्धो वा जम्पानविशेषः / न छत्रकमातपवारणं, न कुण्डिका कमण्डलू, नोपानही प्रतीतौ, न पेहुणव्यञ्जनतालवृन्तकानि, पेहुणं मयूरपिच्छं, व्यजनं वंशाऽऽदिमयं तालवृन्तकं व्यजनविशेष एव न चापि च अयो लोह, अपुकं वङ्ग, ताम शुल्वं सीसकं नाग, कांस्यं त्रपुकताम्रसंयोगजं, रजतं रूप्यं, जातरूपं सुवर्ण मणयश्चन्द्रकान्ताऽऽद्याः, मुक्ताऽऽधारपुटकं शुक्तिसंपुटं, शङ्खः कम्यूः, दन्तमणिः प्रधानदन्तो हस्तिप्रभृतीनां, दन्तजो वा मणिः, शृङ्गं विषाणं, शैल, पाषाणः। पाठान्तरेण- "लेस त्ति' तत्र श्लेषः श्लेषद्रव्यं काचवरः प्रधानकाचः, चेलं वस्त्रं, चौजिनमेतेषां द्वन्द्वः / तत एषां सक्तानि यानि पात्राणि भाजनानि तानि तथा महार्हाणि महानि, बहुमूल्यानीत्यर्थः परस्याऽन्यस्याध्युपपातं च ग्रहणैकाग्रचित्तता लोभं च मूर्छा जनयन्ति यानि तानि अध्युपपातलोभजनानि (परियाट्टिउंति) परिकर्षयितु वा, परिपालयितुमित्यर्थः / न कल्पन्त इति योगः (1)| गुणवओ न यावि पुप्फफलकंदमूलाऽऽदिकाई सणसत्तरसाई सव्यधण्णाई तिहिं वि जोगेहिं परिघेत्तुं ओसहभेसज्जभोयणट्ठयाए संजएणं (2) किं कारणं अपरिमिपणाणदंसणधरेहिं सीलगुण-विणयतवसंजमनायकेहिं तित्थंकरहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरिंदेहिं एस जोणी जंगमाणं दिट्ठा, न कप्पइ जोणीसमुच्छेदो त्ति तेण वज्जंति समणसीहा। जं पिय ओदणकुम्मा-सगंजतप्पणमं पुभुंजियपललसूपसक्कुलिवेडिमवरसंखचुण्णकोसगपिंडसिहरणीवट्टगमोयकखीरदहिसप्पिनवणीयतेलगुडखंडमच्छंडितमधुमज्जमसखज्जकवंजणविहिमाइकं पणितं उवस्सए परघरे वऽरण्णे न कप्पइ तं पि संनिहिं काऊण सुविहियाणं (3) / (गुणवउ त्ति) गुणवतो मूलगुणाऽऽदिसम्पन्नस्येत्यर्थः / न चाऽपि पुष्पफलकन्दमूलाऽऽदिकानि सणः सप्तदशो येषां व्रीह्यादीनां तानि तथा सणसप्तदशकानि, सर्वधान्यानि, त्रिभिरपि योगैः मनः प्रभृतिभिः परिग्रहीतु कल्पन्ते इति प्रकृतमेव। किमर्थमित्याह- औषधभेषज्यभोजनार्थायतत्रौषधमेकाङ्ग, भैषज्यं द्रव्यसंयोगरूप, भोजनं प्रतीतमेव / (संजएण ति) विभक्ति परिणामात् संयतस्य साधोः (2) / किं कारणं को हेतुरकल्पने ? उच्यते -अपरिमितज्ञानदर्शनधरैः सर्वविद्भिःशील समाधानं गुणाः मूलगुणाऽऽदयो, विनयोऽभ्युत्थानाऽऽदिकः, तपः-संयमौ प्रतीतौ, तान्नयन्ति वृद्धिप्रापयन्तियेतेतथा तैस्तीर्थकरैः शासनप्रवर्तकः, सर्वजगजीववत्सलैः सर्वैस्त्रैलोक्यमहितैर्जिनाश्छद्मस्थवीतरागाः तेषां वराः केवलिनस्तेषामिन्द्रास्तीर्थकरनामकर्मोदयवर्तित्वाद्ये ते तथा, तैः एषा पुष्फफलधान्यरूपा, योनिरुत्पत्तिस्थानं जगतां जगमाना त्रसानामित्यर्थः / दृष्टोपलब्धा केवलज्ञानेन, ततश्चन कल्पते न सगच्छते, योनिसमुच्छेदो योनिध्वं सः, कर्तुमिति गम्यते। परिग्रहे औषधाऽऽधुपयोगे च तेषां