________________ परिग्गहवेरमण 561 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण सययं मरणाणं पारए पारके य सव्वेसिं संसयाणं पवयसमायाहिं अट्ठहिं अट्ठकम्मगंठीविमोयके अट्ठमयमहणे ससमयकुसले य भवइ (8) / एवमपरिग्रहताऽस्य भवति / आह च- 'अज्झत्तविसोहीए, उवकरण बाहिर परिहरतो / अपरिगहो त्ति भणितो, जिणेहिँ तेलोकदसीहिं / / 1 / / ' | तथा-प्रत्युपेक्षणं चक्षुषा निरीक्षणं, प्रस्फोटनम् आस्फोटनम्, आभ्या सह या प्रमार्जना रजोहरणाऽऽदिक्रिया सा तथा, तस्याम् / (अहो य राओ यत्ति) रात्रिन्दियम् अप्रमत्तेना-प्रमादिना भवन्ति, सततं निक्षेप्तव्य च मोक्तव्य,ग्रहीतव्यं चेति / किं तदित्याह- "भायणभंडोवहिउवकरणं / ' एवमनेन न्यायेन संयतः संयमी, विमुक्तत्यक्तधनाऽऽदिनिः सङ्गोऽभिष्वङ्गवर्जितः, निर्गता परिग्रहरुचिर्यस्य स तथा निर्ममो ममेतिशब्दवर्जी, निःस्नेहबन्धनश्च यः स तथा, सर्वपापविरतः, वास्यामपकारिकायां चन्दने वोपकारके समानस्तुल्यः समाचारो विकल्पो वा यस्य स तथा, द्वेषरागविरहित इत्यर्थः / समा उपेक्षणीयत्वेन तुल्यास्तृणमणिमुक्ता यस्य स तथा, लोष्टौ च काञ्चने च सम उपेक्षकत्वेन तुल्यो यः स तथा ततः कर्मधारयः समश्च हर्षदैन्याभावात, मानेन पूजया सहापमानना न्यत्कारो मानापमानना तस्यां शमितमुपशमितं रजः पापं रतं वा रतिर्विषयेषु रयो वौत्सुक्यं येन स शमितरजः, शमितरयो वा शमितरागद्वेषः, समितःसमितिषु पञ्चसु, सम्यग्दृष्टिः सम्यग्दर्शनी, समश्व यः सर्वप्राणिभूतेषु, तत्र प्राणा द्वीन्द्रियाऽऽदित्रसाः भूतानि स्थावराः (स हु समण त्ति) स एव श्रमण इति वाक्यनिष्ठा। किंभूतोऽसावित्याह-श्रुतधारकः, ऋजुकोऽवक्र, उद्यतो वाऽनलसः,संयतः संयमी, सुसाधुः सुष्ट निर्वाणसाधनपरः, शरणं त्राणं सर्वभूतानां पृथिव्यादीनां रक्षणाऽऽदिना, सर्वजगद्वत्सलो वात्सल्यकर्ता, हित इत्यर्थः / सभ्यभाषकश्च, संसारान्ते स्थितश्च (संसारसमुच्छिन्ने त्ति) समुच्छिन्नसंसारः, सततं सदा मरणानां पारगः सर्वदैव तस्य न बालाऽऽदिमरणानि भविष्यन्तीत्यर्थः / पारगश्च सर्वेषां संशयानां, छेदक इत्यर्थः / प्रवचनमातृभिरष्टभिः समितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्मरूपो या ग्रन्थिस्तस्या विमोचकोऽएमदमथनोऽष्टमदस्थाननाशकः, स्वसमय कुशलश्च स्वसिद्धान्तनिपुणश्च भवति (6) / सुहदुहनिव्विसेसे अभितरबाहिरम्मि सदा तवोवाहणम्मि य सुठुज्जुए खंते दंते य हियनिरए इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणगुत्ते वइगुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारी बाई लज्जूपण्णो तवस्सी खंतिखमे जिइंदिए सोहिए अणियाणे अबहिलेस्से अममे अकिं चणे छिन्नगथे निरुवलेवे सुविमलवरकंसभायणं चेव मुक्कतोए संखे विव निरंजणे विगयरागदोसमोहे कुम्मो इव इंदिएसु गुत्ते जचकणगं व जावरूवे पुक्खरपत्तं व निरुवलेवे चंदो इव सोम्मभावयाए मूरो व्व दित्तत्तेए अचले जह मंदरे गिरिवरे अक्खोभे सागरो व्व थिमिये पुढवी वि य सव्यफासविसहे तवस्साइ य भासरासिछन्नेव जाततेए जलियहुयासणो विव तेयसा जलंते गोसीसहचंदणं पि व सीयले सुगंधी य हदए विव समियभावे उग्घसियसुनिम्मलं आर्यसमंडलतल व पागडभावेण सुस्सभावे सोंडीरी कुंजरो व्व वसभो व जायथामे सीहो व्व जहा मिगाहिवे इइ होइ दुप्पधरिसे (10) / सुखदुःखनिर्विशषा, हर्षाऽऽदिरिहित इत्यर्थः / (अभिंतरबाहिरे त्ति) आभ्यन्तरस्यैव शरीरस्य कार्मणलक्षणस्य तापकत्वादभ्यन्तरं प्रायश्चित्ताऽऽदिषद विधं, बाह्यस्याप्यौदारिकलक्षणस्य शरीरस्य तापकत्वाद्वाह्यमशनाऽऽदिषविधम् अनयोश्च द्वन्द्वः तत आभ्यन्तरबाही सदा नित्य तप एव उपधानश्च गुणोपष्टम्भकारि तप उपधानं तत्र च सुष्टद्युक्तः अतिशयेनोद्यतः, क्षान्तः क्षमावान्, दान्तश्च इन्द्रियदमेन (हि यनिरए त्ति) आत्मनः परेषां च हितकारीत्यर्थः / पाठान्तरेधृतिनिरतः। "इरिए' इत्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येव / तथा त्यागी सर्वसङ्गत्यागात्संविज्ञमनोज्ञसाधुदामाद्वा / (लज्जु त्ति) रज्जुरिव रज्जुः,सरलत्वात् धन्यो धनलाभयोग्यत्वात् तपस्वी प्रशस्ततपो-युक्तत्वात्।क्षान्त्या क्षमतेनत्वसामादिति क्षान्तिक्षमः, जितेन्द्रिय इति व्यक्तम् / शोभितो गुणयोगात, शोधिदो वा शुद्ध-कारी, सुहृद् वा सर्वप्राणिमित्रम् ।अनिदानो निदानपरिहारी, संयमात् अबहिर्लेश्याऽन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्यः, अममो ममकारवर्जितः, अकिञ्चनो निर्द्रव्यः, छिन्नग्रन्थिः त्रुटितस्नेहः / पाठान्तरत:"छिन्नसोय त्ति'' छिन्नशोको अथवा छिन्नश्रोताः, तत्र श्रोतो द्विविधम्द्रव्यश्रोतो, भावश्रोतश्च / तत्र द्रव्यश्रोतो नद्यादिप्रवाहः / भावश्रोतश्च संसारसमुद्रपात्यशुभो लोकव्यवहारः, सछिन्नो येन स तथा / निरुपलेपोऽविद्यमानकर्मानुलेपः, एतच विशेषणं भाविनि भूतवदुपचारमाश्रित्योच्यते। सुविमलवरकांस्यभाजनमिव विमुक्ततोयः, श्रमणपक्षे तोयमिव तोय सम्बन्धहेतुः स्नेहः (संखे विव त्ति) शङ्खइव निरञ्जनः, साधुपक्षे रजनं जीवस्वरूपोपरञ्जनकारि रागाऽऽदिकं वस्तु अत एवाऽऽह-वीतरागद्वेषमोहः, कूर्म इव इन्द्रियेषु गुप्तः। यथाहि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पादैः कदाचित् गुप्तो भवतीत्येवं साधुरपीन्द्रियेष्विन्द्रियाण्याश्रित्येत्यर्थः / जात्याकाश्चनमिव जातरूपः रागाऽऽदिक्षुद्रव्यपोहालब्धस्वस्वरूप इत्यर्थः, पुष्करपत्रमिव पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया, पाठान्तरेणसौम्यभावतया सौम्यपरिणामेन अनुपतापकतया, सूर इव दीप्ततेजाः, तपस्तेजः प्रतीत्य, अचलो निश्चलः परीषहाऽऽदिभिः, यथा मन्दरो गिरिवरो, मेरुरित्यर्थः / अक्षोभः क्षोभवर्जितः, सागर इव स्तिमितः भावकलोलरक्षितः / तथा-पृथिवीव सर्वस्पर्शविषहः, शुभाशुभस्पर्शषु समचित्त इत्यर्थः / (तवसा इव त्ति) तपस ऽपि च हेतुभूतेन भस्मराशि छन्न इव जाततेजा बह्निभावनेह यथा भस्मच्छन्नो वह्निरन्तवलति बहिलानो भवतीत्येव श्रमणः शरीरमाश्रित्य तपसा म्लानो भवति, अन्तस्तु शुभलेश्ययादीप्यत इति ज्वलितहुताशन इव तेजसा ज्वलन्, साधुपक्षतेजो ज्ञान, भावतमोविनाशकत्वात् , गोशीर्षचन्दनमिव शीतलो मनःसन्तापोपशमनात्, सुगन्धिश्च शीलसौगन्ध्यात्, हृदक इव नद इव