________________ परवादिवयण 546 - अभिधानराजेन्द्रः - भाग 5 परवादिवयण था नष्टः-अपगतः, सत्यथः -सद्भावः-सन्मार्गः परमार्थो येभ्यस्ते तथा। एवंभूताश्च यूयं 'संसारस्य' चतुर्गतिभ्रमणलक्षणस्य 'अपारगाः' अतीर- 1 गामिन इति // 10 // __ अयंतावत् पूर्वपक्षः, अस्य च दूषणायाऽऽहअह ते परिभासेजा, भिक्खू मोक्खविसारए। एवं तुन्भे पभासंता, दुपक्खं चेव सेवह / 11 / / (अहते परिभासेज्जा इत्यादि) अथ' अनन्तरं 'तान् एवं प्रतिकूलत्वेनोपस्थितान् भिक्षुः परिभाषेत' ब्रूयात्, किंभूतः? - ‘मोक्षविशारदः' - मोक्षमार्गस्यसम्यग्ज्ञानदर्शन चारित्ररूपस्य प्ररूपकः, एवम्' अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुष्टः पक्षो दुष्पक्षोऽसत्प्रतिज्ञाऽभ्युपगमः तमेव सेवध्वं यूयम्।यदि वा-रागद्वेषाऽऽत्मकं पक्षद्वयं सेवध्वं यूयम्। तथाहिसदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलङ्कस्याप्यस्मदभ्युपगमस्य दूषणाद् द्वेषः, अथैवं पक्षद्वयं सेवध्वं यूयम्। तद्यथा-वक्ष्यमाणनीत्या बीजोदकोद्दिष्टकृतभोजित्वाद् गृहस्थाः यतिलिङ्गाभ्युपगमात्किल प्रव्रजिताश्चेत्येवं पक्षद्वयाऽऽसेवनं भवतामिति / यदि वास्वतोऽसदनुष्ठानमपरं च सदनुष्ठायिनां निन्दनभिति भावः।।११।। आजीविकाऽऽदीनां परतीथिकानां दिगम्बराणां वा सदाचारनिरूपणायाऽऽहतुम्भे भुंजह पाएसु, गिलाणो अमिहडम्मि य। तंच बीओदगं भोचा, तमु हिस्सादि जंकडं / / 12 / / (तुरभे भुंजह इत्यादि) किल वयमपरिग्रहतया निष्किञ्चना एवमभ्युपगमं कृत्वा यूयं भुध्वं पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु तत्परिभोगाच तत्परिग्रहोऽवश्यंभावी, तथा-आहाराऽऽदिषु मूछी कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति / अन्यच्चग्लानस्य भिक्षाऽटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः यतेरानयनाधिकाराभावाद् गृहस्थाऽऽनयने च यो दोषसद्धायः स भवतामवश्यंभावीति तमेव दर्शयतियच्च गृहस्थैर्षीजोदकाऽऽधुपमर्देनाऽऽपादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्योद्देशकाऽऽदि 'यत्कृतं' यन्निष्पादितं तदवश्यं युष्मत् परिभोगायावतिष्ठते / तदेवं गृहस्थगृहे तद्भाजनाऽऽदिषु भुञ्जानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्त्यं कारयन्तो यूयमवश्यं वीजोदकाऽऽदिमोजिन उद्देशिकाऽऽदिकृतभोजिनश्चेति।।१२।। किञ्चान्यत्लित्ता विव्वमितावेणं, उज्झिआ असमाहिया। नातिकंडूइयं सेयं, अरुयस्सावरज्झती // 13 // योऽयंषड्जीवानेकायविराधनयोद्दिष्टभोजित्वेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तीव्रोऽभितापः-कर्मबन्धरूपस्तेनोपलिप्ताः-संवेष्टितास्तथा (उज्झिय त्ति) सद्विवेकशून्या भिक्षापात्राऽऽदित्यागात्परगृहभोजितयोद्देशकाऽऽदिभोजित्वान्। तथा- 'असमाहिताः' शुभाध्यवसायरहिताः सत्साधुप्रद्वेषित्वात्। साम्प्रतं दृष्टान्तद्वारेण पुनरपि तद्दोषााभिधित्सयाऽऽह-यथा 'अरुषः' व्रणस्यातिकण्डूयितं नस्वैर्वि लेखनं न श्रेयोन शोभनं भवति, अपि त्वपराध्यतितत्कण्ड्रयनं व्रणस्य दोषमावहति, एवं भवन्तोऽपि सद्विवेकरहिता वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया षड्जीवनिकायरक्षणभूतं भिक्षापात्राऽऽदिकमपि संयमोपकरण परिहृतवन्तः, तदभावाचावश्यंभावी अशुद्धाऽऽहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति भावः।।१३।। अपिचतत्तण अणुसिट्टा ते, अपडिन्नेण जाणया। ण एस णियए मग्गे, असमिक्खा वती किती॥१४॥ 'तत्त्वेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीविकाऽऽदयः, वोटिका वा अनुशासिताः' तदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः, केन? 'अप्रतिज्ञेन' नास्य मयेदमसदपिसमर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञोरागद्वेषरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थः, कथमनुशासिता इत्याह योऽयं भवद्भिरभ्युपगतो मार्गो यथा यतीनां निष्कञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येषन नियतो न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा-ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा इत्येषा असमीक्ष्याभिहिताअपयोलोच्योक्ता, तथा 'कृतिः' करणभूपि भवदीयमसमीक्षितमेव, यथा चाऽपर्यालोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयित श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितं, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति॥१४॥ यथाप्रतिज्ञातमाहएरिसा जावई एसा, अग्गवेणु व्व करिसिता। गिहिणो अमिहडं सेयं, मुंजिउ न तु भिक्खुणं / / 15 / / येयमीक्षा वाक् यथा यतिना ग्लानस्याऽऽनीय न देयमित्येषा अग्रे वेणुवत्-वंशवत्कर्षिता तन्वी युक्त्यक्षमत्वात् दुर्बलेत्यर्थः / तामेव वाचं दर्शयति- 'गृहिणाम्' गृहस्थानां यदभ्याहृतं तद्यते क्तुं 'श्रेयः' श्रेयस्कर, नतु भिक्षूणां संबन्धीति, अग्रेतनुत्वं चास्या वाचएवंद्रष्टव्यम्यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूद्रमाऽऽदिदोषरहितमिति / / 15 // किञ्चधम्मपन्नवणा जा सा, सारंभा ण विसोहिआ। ण उ एयाहिँ दिट्ठीहिं, पुव्वमासिं पगप्पियं // 16|| धर्मस्य प्रज्ञापना देशना, यथा-यतीनां दानाऽऽदिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यतयस्तु स्वाऽनुष्ठानेनैव विशुध्यन्ति, न तुतेषां दानाधिकारोऽस्तीत्येतद्दूषयितुं प्रक्रमते'नतु' नैवैताभिर्यथा गृहस्थेनैव पिण्डदानाऽऽदिनायतेग्लानाऽऽद्यवस्थायामुपकर्त्तव्यम्, न तु यतिभिरेव परस्परमित्येवंभूताभिर्युष्मदीयाभिः 'दृष्टिभिः धर्मप्रज्ञापनाऽऽदिभिः पूर्वम् आदौ सर्वज्ञैः प्रकल्पितं प्ररूपितं प्रख्यापितमासीऽऽदिति, यतो न हि सर्वज्ञा एवंभूतं परिफल्गुप्रायमर्थं प्ररूपयन्ति यथा-असंयतैरेषणाऽऽद्यनुपयुक्तैग्लानाऽऽदेवयावृत्त्यं विधेय,नतूपयुक्तेन संयतेनेति।अपिच भवद्भिरपिग्लानोपकारोऽभ्युपगत ए