________________ परलोग 543 - अभिधानराजेन्द्रः - भाग 5 परलोग न परलोकगमनासिद्धिः, तस्याऽऽत्मनः सर्वेषु गोमनुष्याऽऽदिपिण्डेसु सर्वगतत्वेन निष्क्रयत्वेन च संसरणभावात्, व्योमवदिति॥१६५४।। इतोऽपि च परलोकाऽऽशङ्का, कुतः? इत्याहइहलोगाओ व परो, सुराइलोगो न सो वि पच्चक्खो। एवं पिन परलोगो, सुव्वइ य सुईसु तो संका / / 1955 // अथवा- इहलोकापेक्षया सुरनारकाऽऽदिभवः परलोक उच्यते, स चन प्रत्यक्षो दृश्यते, अतएवमपि न परलोकः सिद्ध्यति, श्रूयते चाऽसौ श्रुतिषु शास्त्रेषु, ततस्तच्छडाकिमस्ति, नास्ति, वा? इति दर्शितः पूर्वपक्षः / / 1655|| अत्र प्रतिविधीयते-यदुक्तम्-भूतधर्मश्चैतन्यं, तत्राऽऽहभूइंदियाइरित्तस्स चेयणा सो य दव्वओ निच्चो। जाइस्सरणाईहिं, पडिवजसु वाउभूह व्व / / 1656 / / इह भूतेन्द्रियातिरिक्तस्य पूर्वाभिहितानुमानाऽऽदिप्रमाणसिद्धस्याऽऽत्मन एव संबन्धिनी चेतना मन्तव्या, नतु भूतधर्मः / स चाऽऽत्मा जातिस्मरणाऽऽदिहेतुर्द्रव्यतो नित्य इति वायुभूतिरिव प्रतिपद्यस्व अतोनैकान्तानित्यत्वपक्षोक्तो दोषः, पर्यायत एवास्याऽनित्यत्वादिति भावः / / 1656 / / अथैकः सर्वगतो निष्क्रियश्चाऽऽत्मा कस्मान्नेष्यते? इत्याहन य एगो सव्वगओ, निकिरिओ लक्खणाइभे आओ। कुंभादउ व्व बहवो, पडिवज्ज तमिदभूइ व्व / / 1657 / / न चास्माभिरेक आत्मा इष्यते, किं तु बहवोऽनन्ताः / कुतः?लक्षणभेदात उपयोगलक्षणो हि जीवः, स चोपयोगो रागद्वेषकषायविषयाऽध्यवसायाऽऽदिभिर्भिद्यमान उपाधिभेदादानन्त्यं प्रतिपद्यत इत्यनन्ता जीवाः लक्षणभेदात घटाऽऽदिवदिति / तथा-न सर्वगत आत्मा, किं तु शरीरमात्रव्यापक, तत्रैव तद्गुणोपलब्धेरित्यादिशब्दोपात्तो हेतुः। स्पर्शनवदिति दृष्टान्तश्च / एवं न निष्क्रिय आत्मा, भोक्तृत्वादेवदत्तवदिति। तदेतदिन्द्रभूतिप्रथमगणधरवत्प्रतिपद्यस्वेति।।१६५७।। यदुक्तम्- "देवनारकाणां प्रत्यक्षाऽविषयत्वात्संदिग्धः परलोकः।" इति।तदयुक्तम्,मौर्याऽकम्पितवादयोर्देवनारकाणां साधितत्वात्, इति दर्शयन्नाहइहलोगाओ य परो, सोम्म ! सुरा नारगा य परलोओ। पडिवज मोरियाऽकंपिउव्व विहियप्पमाणाओ।।१९५८|| गतार्था / / 1658|| अथ प्ररेकःप्राहजीवो विण्णणमओ, तं चाणिच्चं ति तो न परलोगो। अह विण्णाणादण्णो, तो अणभिण्णो जहाऽऽगासं ||1656 / / इत्तो च्चिय न स कत्ता, भोत्ता अ अओ वि नत्थि परलोगो। जं च न संसारी सो, अण्णाणाऽमुत्तिओ खं व / / 1960 / / जीवो विज्ञानमयस्तावद्युष्माभिरिष्यते, विज्ञानादभिन्न इत्यर्थः। तच विज्ञानमनित्यं विनश्वरम, अतस्तदभिन्नस्य जिवस्याऽपि विनश्वरत्वान्न भवान्तरगमनलक्षणः परलोकः / अथ विज्ञानादन्यो जीवस्ततोऽनित्ये विज्ञाने जीवाद्भिन्ने सति स्वयं नित्योऽसावितिन परलोकाभावः / यद्येवं, तर्हि अनभिज्ञो जीवः, विज्ञानादन्यत्वाद, आकाशवत, काष्ठाऽऽदिवद्वा। अत एव च नित्यत्वादेवाऽसौ जीवो न कर्ता, नाऽपि भवता, नित्यस्य कर्तृत्वाऽऽद्यभ्युपगमे हि सर्वदैव तद्भावप्रसङ्गः, तस्य सदैवैकरूपत्वात्। कर्तृत्वाभवि च न परलोकः, अकृतस्य तस्याऽभ्युपगमे सिद्धानामपि तत्प्रसङ्गात्, भोक्तृत्वाभावेऽपिन परलोकः, अभोक्तुः परलोकहेतुभूतकर्मभोगायोगात्। इतोऽपि च न परलोकः। कुतः? इत्याह-(जे चेत्यादि) यस्माच नाऽसौ संसारी, नाऽस्य ज्ञानाद्भिन्नस्य जीवस्य भावाद्भवान्तरगमनलक्षणं संसरणमस्तीत्यर्थः / कुतः? इत्याह-स्वयमज्ञानत्वाकाष्ठखण्डवत्तथा-अमूर्त्तत्वाद् आकाशवदिति।।१६५६||१६६०।। अत्रोत्तरमाहमन्नसि विणासि चेओ, उप्पत्तिमदादिओ जहा कुंभो। नणु एवं चिय साहणमविणासित्ते वि से सोम्म ! / / 1961 // ननु "जीवो विण्णणमओतं चाणिच्च' इति ब्रुवाणो नूनं त्वमेवं मन्यसेविनाशि विनश्वरं चेतश्चेतना चैतन्यं विज्ञानमिति यावत्। उत्पत्तिमत्त्वादिति हेतुः / यथा कुम्भइति दृष्टान्तः / आदिशब्दात्पर्यायत्वाद् इत्यादिकोऽपि हेतुर्वक्तव्यः / यो हि पर्यायः स सर्वोऽप्यनित्यः, यथा स्तम्भाऽऽदीनां नवपुराणाऽऽदिपर्यायः / ततश्चाऽनित्याचैतन्यादभिन्नत्वे जीवास्याप्यनित्यत्वात्परलोकाभाव इति तवाऽभिप्रायः / न चाऽयं युक्तः, यतो हन्त नैकान्तेन विज्ञानमनित्यं, यतोऽविनाशित्वेऽपि (से) तस्य विज्ञानस्य एतदेव सौम्य! त्वदुक्त साधनं प्रमाणं वर्तते / ततोऽनैकान्तिकस्त्वदुक्तो हेतुरिति भावः / इदमुक्तम्भवतिउत्पादव्ययधौय्याऽऽत्मकं वस्तु। ततश्च यथोत्पत्तिमत्त्वाद्विनाशित्वं सिद्ध्यति, तथा धौव्याऽऽत्मकत्वाद्वस्तुनः कथञ्चिन्नित्यत्वमपि सिद्ध्यति। ततश्चेदमपि शक्यते वक्तुम-नित्यं विज्ञानम्, उत्पत्तिमत्त्वाद् घटवत् / ततश्च कथञ्चिन्नित्याद् विज्ञानादभिन्नस्य जीवस्य नित्यत्वान्न परलोकाभाव इति // 1661 // अथवा-विरुद्धाव्यभिचार्यप्ययमुत्पत्तिमत्त्वरूपो हेतुः, प्रत्यनुमानसद्भावात्। किं पुन स्तत्प्रत्यनुमानम् ? इत्याहअहवा वत्युत्तणओ, विणासि चेओ न होइ कुंभो व्व। उप्पत्तिमदादित्ते, कहमविणासी घडो वुद्धी // 1962 / / एकान्तेन विनाशि विनश्वरं चेतो विज्ञानं न भवति, वस्तुत्वात्, कुम्भवत्। ततोऽस्य प्रत्यनुमानस्योपस्थानाद्विरुद्धव्यभिचार्यप्यु-त्पत्तिमत्त्वलक्षणो हेतुः यदुक्तम्- "नणु एयं चिय साहणमविणासिते वि" इत्यादि, तत्र परस्येयं बुद्धिः स्यात् / कथंभूता बुद्धिरित्याहकथमुत्पत्तिमत्त्वात् दृष्टान्तत्वेनोपन्यस्तो घटोऽविनाशी सिद्ध्यति?-न कथञ्चित्, घटस्य विनाशित्वेन सुप्रतीतत्वात्। ततश्च दृष्टान्ते अविनाशित्वस्यासिद्धार्शन्तिके विज्ञाने तन्न सिद्ध्यतीति परस्याऽभिप्राय इति ॥१६६२सा अत्रोत्तरमाहरूवरसगंधफासा, संखा संठाणदव्वसत्तीओ। कुंभो त्तिजओ ताओ, पसूइविच्छित्तिधुवधम्मा।।१६६३।।