SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ परमाहम्मिय 542 - अमिधानराजेन्द्रः - भाग 5 परलोग (अम्बाऽऽदीनां व्याख्या स्वस्वस्थानेषु) तथा परमाधार्मि का भव्या एव, इति प्रघोषः सत्योऽसत्यो वेति ? अत्र असत्य एवेति ज्ञेयम्।। उभयथाऽपि तेषासविरोधात् / न च जन्मान्तरीयकृतदुष्कृतोक्तिपूर्वक ते नारकान् कदर्थयन्तीति अभव्यानां तत्कथं संगच्छते इति वाच्यम, यतस्तेऽपि स्वर्गकामास्तपस्यां कुर्वाणाआगमे श्रूयन्ते इति / ही०३ प्रका० / भ०। सूत्र०। परमाहोहिय पुं० (परमाधोऽवधिक) परमाधोवधिकज्ञानिनि, परमे नियतक्षेत्रविषयावधिज्ञानयुक्ते, भ०। अयं च चरमशरीर एव भवतीत्यत आहपरमाहोहिए णं भंते ! मणूसे, जे भविए तेणं चेव भवग्गहणेणं सिज्झित्तए,जाव अंतं करित्तए / से णूणं भंते ! से खीणभोगी, सेसं जहा छउमत्थस्स / भ०७श०७ उ०! परमिट्टि(ण) पुं० (परमेष्ठिन्) ब्रह्मणि, अर्हत्सिद्धाऽऽचार्योपाध्याय सर्वसाधुषु पञ्चसु, पाइ० ना०२ गाथा। परमेसर पुं० (परमेश्वर) जगदीश्वरे, सर्वस्यापि त्रिजगद्गतस्य वस्तुनः परिभोगाच्च जीवे, विशे०। परमोदारिय न० (परमौदारिक) केवलिशरीरे, द्वा० 30 द्वा०। परमोहि पुं० (परमावधि) परमश्चासाववधिश्च परमावधिः / उत्कृष्टावधौ, "एगपएसोगाढ़, परमोही लहइ कम्मगसरीरं। लहइय अगुरुलहुयं, तेय सरीरे भवपुहुत्तं // 675 // " विशे०। आ०चून परम्मुह त्रि० (पराङ्मुख) निवृत्ते, अष्ट०७ अष्ट०। आ०म० / मार्गपराड् मुखाः संसारभिष्वङ्गिणो जैनमार्गविद्वेषिणः। सूत्र० 1 श्रु० 3 अ० 4 उ०। परयत्त त्रि० (परायत्त) पराधीने, पाइ० ना० 108 गाथा। परलाभ पुं० (परलाभ) परस्माद् द्रव्याऽऽगमे, प्रश्न० 3 आश्र० द्वार। परलिंग न० (परलिङ्ग) असाधुलिङ्गे तचेह द्विधा-गृहलिङ्गं, परतीर्थलिङ्गं च / व्य०४ उ०। जीत० / (परलिङ्गधारणं कृत्वा कालक्षेपं कुर्यात् इत्यादि 'उवसंपया' शब्दे द्वितीयभागे 105 पृष्ठादारभ्योक्तम्) परलोग पु० (परलोक) जन्मान्तरे, दश०६ अ०। पञ्चा० / भ० / प्रश्नः / स्था०। उत्त० / आत्मव्यतिरिक्ते लोके,संथा० / इहास्मि-प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याय यो वर्तते लोकः प्राणिवर्ग:स इहवर्गः स इहलोकः, तद्व्यतिरिक्तस्तु परलोकः / स्था० 10 ठा०। भवान्तरगतो, आ०म० 1 अ० / प्रव०। (अदृष्टसाधनपूर्वक-परलोकसिद्धिः प्रतिपादिता 'इहभव' शब्दे द्वितीयभागे 647 पृष्ठे) इह तत्रानुक्तोऽर्थः प्रदीत। अथ दशमगणधरवक्तव्यता माहते पव्वइए सोउं, मेअज्जो आगच्छई जिणसयासं। वचामिण वंदामी, वंदित्ता पज्जुवासामि ||1946|| मेतार्यनामा दशमो द्विजोपाध्यायः श्रीमजिनसकाशमागच्छति, शेष गतार्थमिति / / 1646 // तत्किमित्याह आभट्ठो य जिणेणं, जाइ-जरा मरणविप्पमुक्केणं / नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसी णं / / 1950|| सव्याख्याना तथैव।।१६५०॥ आभाष्य ततः किमुक्तोऽसौ ? इत्याहकिं मन्ने परलोओ, अत्थि नत्थि त्ति संसओ तुज्झ। वेयपयाण य अत्थं, न याणासी तेसिमो अत्थो :1651 / आयुष्मन् मेतार्य ! त्वमेवं मन्यसे - किं भवान्तरगमनलक्षणः परलोकोऽस्ति, नाऽस्ति वेति? अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते / तानि च "विज्ञानधन एवैतेभ्यो भूतेभ्यः" इत्यादीनि प्रथमगणधरोक्तानि द्रष्टव्यानि। तेषां चार्थ न जानासि इत्यादि तथैवेति ||1651 // यथा च युक्त्या मेतार्यः परलोकनास्तित्वं मन्यते, तां भगवान् व्यक्तीकुर्वन्नाहमण्णसि जइ चेयण्णं, मजंगमउ व्व भूयधम्मो त्ति / तो नत्थि य परलोगो, तन्नासे जेण तन्नासो // 1952 / / सौम्य ! त्वमेवं मन्यसे-यदि तावचैतन्यं पृथिव्यादिभूतधर्मः-- भूतेभ्योऽनन्तरमित्यर्थः, यथा गुडधातक्यादिमद्याङ्गेभ्योऽनन्तरं मदधर्मः, तर्हि नास्त्यवान्तरगमनलक्षणः परलोकः, येन तन्नाशे भूतनाशे तस्याऽपि चैतन्यस्य नाशो ध्वंसो जायते। यो हि यदनान्तरभूतो धर्मः सतद्विनाशे नश्यत्येव, यथा पटाऽऽदिधर्मःशुक्लत्वाऽऽदिः, ततो भूतैरेव सह प्रागेव नष्टस्य चैतन्यस्य कुतो भवान्तरगमन मिति / / 1652 / / अथ भूतेभ्योऽर्थान्तरं चैतन्यं, तथाऽपि न परलोक इत्याहअह वि तदत्थंतरया,नय निचत्तणमओ वि तदवत्थं / अनलस्स वाऽरणीओ,भिन्नस्स विणासधम्मस्स / / 1653 / / अथाऽपि तदर्थान्तरता भूतेभ्योऽर्थान्तरता चैतन्यस्याऽभ्युपगम्यते, नन्वतोऽपि तदवस्थं भवान्तरगामित्वाभावलक्षणं दूषणं, चशब्दो यस्मादर्थे, यतोऽर्थान्तरभूतस्याऽपिचैतन्यस्य न नित्यत्वम्। कथम्भूतस्योत्पत्तिमत्त्वेन विनाशधर्मकस्य। कस्य यथा अनित्यत्वम् ? इत्याहअनलस्य। कथंभूतस्य ?-भिन्नस्य। कस्य?-अरणीतोऽरणेः / इदमुक्तम्भवति-भूतेभ्योऽर्थान्तरत्वेऽप्यनित्यं चैतन्यम्, उत्पत्तिधर्मकत्वाद, अरणिकाष्ठोत्पन्नतद्-भिन्नानलवदिति, यचानित्यं तत्किमपि कालं स्थित्वाऽनलवदत्रापि ध्वंसते, इति न तस्य भवान्तरयायित्वम्, अत इत्थमपि न परलोकसिद्धिरिति / / 1653 / / अथ प्रतिपिण्ड भिन्नानि भूतधर्मरूपाणि बहूनि चैतन्यानि नेष्यन्ते, किं त्वेक एव समस्तवैतन्याऽऽश्रयः सर्वत्रिभुवनगतो निष्क्रियश्चाऽऽत्माऽभ्युपगम्यते / यत उक्तम्- “एक एव हि भूताऽऽत्मा, भूते भूते व्यवस्थितः / एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्॥१॥" ननु तथाऽपि न परलोकसिद्धिरिति दर्शयन्नाहअह एगो सव्वगओ, निकिरिओ तह विनत्थि परलोओ। संसरणाभावाओ, वोमस्स व सव्वपिंडेसु / / 1658|| अथैकः सर्वगतो निष्क्रियश्चाऽऽत्माऽभ्युपगम्यते, ननु तथाऽपि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy