________________ परमाणु 541 - अभिधानराजेन्द्रः - भाग 5 परमाहम्मिय गङ्गाया महानद्याः प्रतिस्त्रोतः,'हव्व' शीघ्रभागच्छेत्, पूर्वाऽऽद्यभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाऽऽद्यभिमुखः स आगच्छेत् तन्मध्येनेति भावः / (विणिहायमित्यादि) विनिघातः-तत्नोतसि प्रतिस्खलनं, तमापद्येत प्राप्नुयात्। शेषं पूर्ववत् / (से णं भंते ! उदगावत्तमित्यादि) उदकाऽऽवर्तोदकबिन्दोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः / स च तत्रोदकसंपर्कात् कुत्थ्येद्वापूतिभावं यायात्पर्यापद्येत वा जलरूपतया परिणमेदित्यर्थः / शेषं तथैव / पूर्वोक्तमेवार्थ संक्षेपतः प्राह- "सत्थेण गाहा।' गतार्था, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्त कोऽपि छेत्तुं भेत्तुमारभते इत्येतत्किलशब्देन सूचयति, (सिद्ध त्ति) ज्ञानसिद्धाः केवलिनो न तु सिद्धाः सिद्धिगताः, तेषां वदनस्यासम्भवादिति। अनु० जी०। ज्यो०। प्रव० / स्था० / 'कारणमेव तदन्त्य, सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसवर्णगन्धो, द्विस्पर्शः कार्यलिङ्गश्च / / 1 / / '' स्था० 1 ठा०। जी०। भ० / उत्त० / विशे० / (परमाणूनां चलनम् 'चरमंत' शब्दे तृतीयभागे 1140 पृष्ठ गतम्) गमनसामर्थ्य परमाणोस्तथास्वभावत्वाद् मन्तव्यमिति। भ०१६श०८ उ० आचा०। परमाणूनां प्रत्यक्षविषयत्वम्-नच चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात्, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावें खल्वेकपरमाणुव्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात् / न च तदन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात, तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव राजातीयेतरासाधारण तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमे च सजातीयेतरभेदानुपपत्तेः सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशाऽऽदिनियमेनोत्पत्तेः, न च स्वप्रबुद्ध्या व्यभिचारः, तस्या अध्यनेकविधिनिमित्तबलेनैव भावात् / आह च भाष्यकार:- "अणुभूय दिट्ट चिंतिय, सुय पयइवियार देवयाऽणूया। सुमिणस्स निमित्ताई. पुन्नं पावं च नामावो ||1 // ॥६१२शा आव०१ अ०। उत्त०। आ० क०। (मानुषत्वदौर्लभ्ये परमाणुदृष्टान्तो 'माणुसत्त' शब्दे द्रष्टव्यः) परमाणुपोग्गल पुं० (परमाणुपुद्गल) परमाश्च तेऽणवश्च परमाणयः निर्विभागद्रव्यरूपास्तेचते पुद्गलाश्च परमाणुपुद्गलाः। स्कन्धत्वमावमनापन्नेषु केवलेषु परमाणुषु, प्रज्ञा० 1 पद। स्था०। भ०। सूत्रका कइविहे णं मंते ! परमाणुपोग्गले पण्णत्ते ? गोयमा ! चउविहे परमाणुपोग्गले पण्णत्ते / तं जहा-दव्वपरमाणू खेत्तपरमाणू कालपरमाणू भावपरमाणू 4 / दव्वपरमाणू णं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते / तं जहा-अच्छे , अभेजे, अडज्झे, अगेज्झे / खेत्तपरमाणू णं भंते ! कइविहे पण्णत्ते ? गोयमा! चउविहे पण्णत्ते / तं जहा-अणड्डे, अमज्झे, अपएसे, अविभागे। कालपरमाणू पुच्छा? गोयमा ! चउव्विहे पण्णत्ते / तं जहा-अवण्णे, अगंधे, अरसे, अफासे / भावपरमाणू णं भंते ! कइविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते / तं जहा-वण्णमंते, गंधमंते, रसमंते, फासमंते।। (कइ इत्यादि) तत्र द्रव्यरूपः परमाणुर्द्रव्यपरमाणुरेकोऽणुर्वर्णाऽदिभावानामविवक्षणाद् द्रव्यत्वस्यैव च विवक्षणादिति / एवं क्षेत्रपरमाणुराकाशप्रदेशः कालपरमाणुःसमयः, भावपरमाणुः परमाणुरेव, वर्णाऽऽदिभावाना प्राधान्यविवक्षणात्सर्वजघन्यकालत्वाऽऽदिर्वा (चउव्विहे त्ति) एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभाव। (अच्छेज्ज ति) छेद्यः शस्त्राऽऽदिना लताऽऽदिवत्, तन्निषेधादच्छेद्यः। (अभेज ति) भेद्यः सूच्यादिना चर्मवत्तन्निषेधादभेद्यः / (अडज्झे ति) अदाह्योऽनिना सूक्ष्मत्वात्, अत एवाग्राह्यो हस्ताऽऽदिना / (अणद्धे ति) समसड़ ख्याऽवयवाभावात् (अमझे त्ति) विषमसंख्याऽवयवाभावात् (अपएसे त्ति) निरंशोऽवयवाभावात् / (अविभाइमे त्ति) अविभागेन निर्वृत्तो अविभागिमः, एकरूप इत्यर्थः / विभाजयितुमशक्यो वेति। भ० 20 श० 5 उ०1 ('चलमाणे चलिए'' इति 'कम्म' शब्दे चिन्तितम्। 'अण्णउत्थिय' शब्दे प्रथमभागे 450 पृष्ठे तद्विप्रतिपत्तिरुक्ता) परमाणु वग्गणा स्त्री० (परमाणुवर्गणा) असंख्यातानामनन्तानां च परमाणूना समुदाये, क०प्र०१ प्रक० 1 पं० सं०। परमाणुसंजोग पुं० (परमाणुसंयोग) परमाणूनामितरेतरसंयोगे, उत्त०१ अ०। ('संजोग' शब्देऽस्य व्याख्या दर्शयिष्यते) परमार पु०(परमार) क्षत्रियजातिविशेषे, "महारेरस्य नेतारः, परमारनरेश्वराः। पुरी चन्द्रावती तेषा, राजधानी निधिः श्रियाम्॥१॥' ती०७ कल्प। परमाराम पुं० (परमाऽऽराम) आरामयतीत्यारामः, परमश्वासावारामश्च परमाऽऽरामः। ज्ञाततत्त्वस्य जनस्य हासविलासापाङ्ग निरीक्षणाऽऽदिभिर्वियोकैहिके स्त्रीजने, ब्रह्याऽऽनन्दे च। आचा०१श्रु०४ अ०५ उ०। परमाहम्मिय पुं० (परमाधार्मिक) परमाश्च ते अधामिकाश्चसं - विखष्टपरिणामत्वात् परमाधार्मिकाः। असुरविशेषेषु, ये तिसृषु पृथिवीषु नारकान कदर्थयन्ति। स०१५ सम० भ०। तेसिंवा जमकाइयाणं देवाणं सक्कस्स जमस्स इमे देवा अहावच्चा अभिण्णाया होत्था / तं जहा "अंबे 1 अंबरिसे चेव २,सामे 3 सबले त्ति यावरे / रुद्दे 5 वरुद्दे 6 काले य 7, महाकाले त्ति यावरे ||1|| असिपत्ते / धणू 10 कुम्भे ११,बालुया 12 वेयरणीत्ति य 13 खरस्सरे 14 महाघोसे 15, एमे पण्णरसाहियार" अम्ब इत्यादयः पचादशाऽसुरनिकायान्तर्वर्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्वा विमुञ्चत्यसावम्ब इत्यभिधीयते 1 / (एमे पण्णरसाहिय त्ति) एवमुक्तन्यायेन एतेयमापत्यदेवाः पञ्चदश आख्याता इति। भ०३श०७ उ० प्रव०। उत्त० आव०।