________________ परभव 537 - अभिधानराजेन्द्रः - भाग 5 परभव तानुमानयोर्मेशभावादतीन्द्रियपरलोकाऽऽद्यर्थसाधकत्वमपि तस्यैदेति तत्प्रामाण्याऽनभ्युपगमे इहलोकस्यापि अभ्युपगमाभावप्रसङ्गः / न च किमत्र निर्विकल्पक मानसं योगिप्रत्यक्षमूहो वा प्रतिबन्धनिश्चायकं, प्रतिबन्धोऽपि नियतसाहचर्यलक्षणः, कार्यकारणभावाऽऽदिर्वति चिन्ताऽवोपयोगिनी / धूमादग्रिप्रति-पत्तिवत्प्रज्ञामेधाऽऽदिविज्ञानकार्यविशेषान्निजजन्मान्तरविज्ञानस्वभावपरलोकप्रतिपत्तिसिद्धेः / अतोऽनुमानाऽप्रामाण्यप्रतिपादनाय पूर्वपक्षवादिना यधुक्तिजालमुपन्यस्तं, तन्निरस्तं द्रष्टव्यम् / प्रतिपदमुच्चार्य न दूष्यते, ग्रन्थगौरवभयात् / यदप्युक्तम्- परलोके, प्रत्यक्षस्याप्रवृत्तेराऽऽपत्तिरेवेयमिहजन्मान्यथाऽनुपपत्त्या परलोकसद्भाव इति। तदपिन सम्यक् / पूर्वानुसारेण सर्वस्य नियतप्रत्ययस्य प्रवृत्तेरनुमानत्वप्रतिपादनात्। अविनाभावसम्बन्धस्य ग्रहीतुमशक्यत्वान्नात्रानुमानमिति चेत्, नन्वेवं तदेवाद्वैत शून्यत्वं वा कस्य केन दोषाऽभिधानम् / तस्मात्संव्यवहारकारिणा प्रत्यक्षेणोहेन वा प्रतिबन्धसिद्धिरिति कथं नानुमानात्परलोकसिद्धिः? यदप्युक्तम्मातापितृसामग्रीमात्रेणेहजन्मसम्भवान्न तज्जन्मव्यतिरिक्तभूतपरलोकसाधनं युक्तमिति। तदपि प्रतिविहितमेव / समनन्तरप्रत्यक्षस्य भावात्। स्वप्राऽऽदिप्रत्ययवन्न प्रत्यक्षा बाह्यार्थसिद्धिरपीति बौद्धाभिमतपक्षसिद्धिप्रसङ्गः / अतस्तत्त्वात्। यदपि प्रतिपादितम्-सन्निहितमात्रविषयत्वात् प्रत्यक्षस्य देशकालव्याप्त्या प्रतिबन्धग्रहणाऽसामर्थ्य - मिति। तदपि न किञ्चित्। एवं सति अतिसन्निहित विषयत्वेन प्रत्यक्षस्य स्वरूपमात्र एव प्रवृत्तिप्रसङ्ग इति तदेव बौद्धाऽऽद्यभिमतं स्वसंवेदनमात्रं सर्वव्यवहारोच्छेदकारि प्रसत्कमिति प्रतिपादितत्वात्। तस्माल्लोकव्यवहारप्रवर्तनक्षमसविकल्पक प्रत्यक्षबलादूहाऽऽख्यप्रमाणादा देशकाल यथोक्त लक्षणस्य व्याप्त्य हेतोः प्रतिबन्धग्रहणे प्रवृत्तिरनुमानस्येतिन व्याहतिः प्रकृतस्येति / एतदपि निरस्तम् / केचित्प्रज्ञाऽऽदय इति इत्यादि / न च प्रज्ञामेघाऽऽदयः शरीरस्वभावार्तंगता इत्यादि चोद्य युक्तम् तदन्तर्गतत्वेऽपि परिहारसम्भवादन्वयव्यतिरेकाभ्यां तेषां मातापित्रोः पितृशरीरजन्यत्वस्यपितृशरीरं तर्हि हेतुभेदान्नभेदो मातापितृशरीरादपत्यप्रज्ञाऽऽदीनाम्। अयमपरो बृहस्पतिमतानुसारिण एव दोषोऽस्तु, यः कार्यभेदेऽपि कारणभेदं नेच्छति। अस्माकं तु हर्षविषादाऽऽद्यमेकविरुद्धधर्माऽऽक्रान्तस्य विज्ञानस्यान्तर्मुखाऽऽकारतया वेद्यस्य रूपरसगन्धस्पर्शाऽऽदियुगपगाविबालकुमारयौवनवृद्धावस्थाऽऽधनेकक्रमभाविविरुद्धधर्माध्यासिततच्छरीराऽऽदे बर्बाह्येन्द्रियप्रभवविज्ञानसमधिगम्याद्भेदः / सिद्ध एव / विरुद्धधर्माध्यासः, कारणभेदश्व पदार्थाना भेदकः / स च जलाऽनलयोरिवशरीरविज्ञानयोर्विद्यत एवेति कथं न तयोर्भेदः? तद्भेदादप्यभेदे ब्रह्माद्वैतवादाऽऽपत्तेस्तदवस्थ एव पृथिव्यादितत्त्वचतुष्टयाभावाऽऽपत्त्या व्यवहारोच्छेदः / अथवा मातापितृपूर्वजन्मैकसामग्राजन्यमेतत्कार्यम् / एतत् न दोषो व्यतिरिक्तपक्षऽपि विज्ञानशरीरयोः / पूर्वमप्युक्तं विलक्षणादप्यन्वयव्यतिरेकाभ्यां मातापितृशरीराद्विज्ञानमुपजायता; न हि कारणाऽऽकारमेव सकलं कार्यमिति / तदप्यसत् / यतो न हि कारणविलक्षणं कार्यं न भवतीत्युच्यते, अपि तु तदन्वयव्यतिरेकाऽनुविधानात् तत्कार्यत्वम्। तथाहि-यद् यद् | विकारान्वयव्यतिरेकानति तत् तत् कार्यमिति व्यवस्थाप्यते / यथाऽगुरु राणादाह्यदाहकपावकगतसुरभिगन्धाऽऽद्यन्वयव्यतिरेकानुविधायी धूमस्तत्कार्यतया व्यवस्थितः। एकसन्तत्यनुपतितशास्त्रसंस्काराऽऽदिसंस्कृतप्राक्तनविज्ञानधर्मान्वयव्यतिरेकाऽनुविधायि च प्रज्ञामेधाऽऽद्युत्तरविज्ञानमिति कथं नतत्कार्यमभ्युपगम्यते ? तदनभ्युपगमे धूमाऽऽदेरपि प्रसिद्धवयादिकार्यस्य तत्कार्यत्वाप्रसिद्धिरिति पुनरपि सकलव्यवहारोच्छेदः। "तस्माद्यस्यैव संस्कार, नियमेनाऽनुवर्तते / तन्नान्तरीयकं चित्त-मत-श्चित्तसमाश्रितम्"।।१।। प्रतिपादितश्च प्रमाणतः प्रतिनियतः कार्यकारणभावः सर्वज्ञसाधने "कुसमयविसासण "इति पदव्याख्यां कुर्वद्भिर्न पुनरिहोच्यते / योऽपि शालूकदृष्टान्तेन व्यभिचारः। यथा गोमयादपि शालूकः, कश्चित्समानजातीयादपि शालूकादेव; तथा केचित्प्रज्ञामेधाऽदयस्तदभ्यासात; कोचत्तु रसायनोपयोगात्, अपरे मातापितृशुक्रशोणितविशेषादेवेति। सोऽपि न सम्यका तत्राऽपि समानजातीयपूर्वाऽभ्याससम्भवात् / अन्यथा समानेऽपि रसायनाऽऽधुपयोग यमलकयोः कस्यचित् क्वाऽपि प्रज्ञामेधाऽऽदिकमिति प्रतिनियमो न स्यात् / रसायनाऽऽधुपयोगस्य साधाहरणत्वादिति। न च प्रज्ञाऽऽदीनां जन्माऽऽदौ, रसायनाभ्यासे च विशेषः / शालूक गोमयजन्यस्य तु शालूकाऽऽदेस्तदन्यस्माद्विशेषो दृश्यते, कृचिजातिस्मरणं च दर्शनमिति न युक्ता दृष्टकारणादेव मातापितृशरीरात्प्रज्ञामेधाऽऽदिकार्यविशेषोत्पत्तिः। न च गोमयशालूकाऽऽदेर्व्यभिचारविषयत्वेन प्रतिपादितस्यात्यन्तवैलक्षण्यम्। रूपरसगन्धस्पर्शवत्पुरलपरिणामत्वेन द्वयोरपि अवैलक्षण्यात्। विज्ञानशरीरयोश्वान्तर्बहिर्मुखाऽऽकारविज्ञानग्राह्यतया स्वपरसंवेद्यतया स्वसंवेदनबाह्यकरणाऽऽदिजन्यप्रत्ययाऽनुभूयमानतया च परस्पराऽननुयाय्येनकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यस्य प्रतिपादितत्वात्, नोपादानोपादेयभावो युक्तः शरीरवृद्ध्यादेश्चैतन्यवृद्धयादिलक्षण उपादानोपादेयभावधर्मोपलम्भः प्रतिपद्यते / असौ महाकायस्यापि मातङ्गाज गराऽऽदेश्चैतन्याल्पत्वेन व्यभिचारीति न तद्गावसाधकः / यस्तु शरीरविकाराच्चैतन्यविकारोपलम्भलक्षणस्तद्धर्मभावः प्रतिपाद्यतेऽसावपि सात्त्विकसत्त्वानामन्यगतचित्तानांवा छेदाऽऽदिलक्षणशरीरविकारसद्भावेऽपि तचित्तविकारानुपलब्धरसिद्धः। दृश्यते च सहकारिविशेषादपि जलभूम्यादिलक्षणाद्वीजोपादनस्याड्कुराऽऽदेर्विशेष इति सहकारिकारणत्वेऽपि शरीराऽऽदेर्विशिटाऽऽहाराऽऽधुपयोगाऽऽदौ, यौवनावस्थायां वा शारवाऽऽदिसंस्कारोपात्तविशेषपूर्वज्ञानोपादानस्य विज्ञानस्य विवृद्धिलक्षणो विशेषो नाऽसंभवी / यदप्युक्तम्- अनादिमातापितृपरम्परायां तथाभूतस्यापि बोधस्य व्यवहितमातापितृगतस्य सद्भावात्ततो वासनाप्रबोधेन युक्त एव प्रज्ञामेधाऽऽदिविशेषस्यसंभव इति / तदप्ययुक्तम् / अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसभवात्। ततश्चक्षुरादिकरणजनितस्य स्वरूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत्क्रमेण चोत्पत्तौ मयैवोपलब्धमेतदिति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि स्यात्। न च मातापितृज्ञानोपलब्धेः तदपत्याऽऽदेः कस्यचित्प्रत्यभिज्ञानमुपलभ्यते। अनेनैकस्माद्ब्रहाणः प्रजोत्पतिः प्रत्युक्ता। एकप्रभवत्वे हि सर्वप्राणिना परस्परं प्रत्यभिज्ञाप्रसङ्गः / एकसन्तानोद्भूतदर्शनस्पर्शनप्रत्यययो