________________ परभव 536 - अभिधानराजेन्द्रः - भाग 5 परभव पूर्वकत्वाभावेऽप्यनुमानस्य प्रामाण्यं प्रतिपादितम्। न चानुमानपूर्वकत्वेऽपीतरेतराऽऽश्रयदोषानुषङ्गः। तस्यैवेतरेतराऽऽश्रयदोषस्य व्यवहारप्रवृत्तितो निराकरणात् / यदप्युक्तम् - अनुमानपूर्वकत्वेऽनवस्थाप्रसङ्गान्नानुमानप्रवृत्तिरिति / तदप्यसङ्गतम् / एवं हि सति प्रत्यक्षगृहीतेप्यर्थे विप्रतिपत्तिविषये नानुमानप्रवृत्तिमन्तरेण तन्निरास इति बाहोऽर्थे प्रत्यक्षस्याव्यापारात्पुनरप्यद्वैताऽऽपत्तेः, शून्यताऽऽपत्तेर्वा व्यवहारोच्छेद इति व्यवहारबलात्सैवानवस्था परिहियत इत्यभ्युपगमवादेन चैतदुक्तम्। अन्यथा बाह्यार्थव्यवस्थापनाय प्रत्यक्ष प्रवर्त्तते, तथा प्रदर्शितहेतोयाप्तिप्रसाधनाथ केषाश्चिन्मतेन निर्विकल्पकम्, अन्येषां तु सविकल्पकं चक्षुरादिकरणव्यापारजन्यम्, अपरेषां मानस, केषाश्चि-यावृत्तिग्रहणोपयोगि ज्ञानम्, अन्येषां प्रत्यक्षानुपलम्भबलोद्भूतालिङ्ग जोहाऽऽख्य परोक्ष प्रमाणं तत्र च्याप्रियत इति कथमनुमानेन प्रतिबन्धग्रहणेऽनवस्थेतरेतराऽऽश्रयदोषप्रसक्तिः परलोकवादिनः प्रति भवता प्रेर्यंत ? यदप्युक्तम्- सर्वमप्यनुमानमस्मान्प्रति प्रमाणत्वेनासिद्धमित्यादि / तदप्यसङ्गतम् / यतः कि-मनुमानमात्रस्याप्रामाण्यं भवता प्रतिपादयितुमभिप्रेतम्, अनुमानमप्रमाणमित्यादिग्रन्थेन; अथतान्त्रिकलक्षणक्षेपो - ऽतीन्द्रियार्थानुमानप्रतिक्षेपो वा ? न तावदनुमानमात्रप्रतिषेधो युक्तः / लोकव्यवहारोच्छेदप्रसङ्गात् / यतःप्रतियन्ति कोविदाः कस्यचिदर्थस्य दर्शने नियमतः किञ्चिदर्थान्तरं, न तु सर्वस्मात्सर्वस्यावगमः / उक्त चान्येन-"स्वगृहान्निर्गतो भूयो, न तदाऽऽगन्तुमर्हति।" अतः किञ्चिद दृष्टा कस्यचिदवगमे निमित्तं कल्पनीयम्। तच नियतसाहचर्यमविनाभावशब्दवाच्यं नैयायिकाऽऽदिभिः परिकल्पितम्। तदवगमश्च प्रत्यक्षानुपलम्भसहायमानसप्रत्यक्षतः प्रतीयते / सामान्यद्वारेण प्रतिबन्धावगमादेशाऽऽदिव्यभिचारो न बाधकः / नाऽपि व्यक्त्यानन्त्यम् / उभयत्रापि सामान्यस्यैकत्वात् / सामान्याऽऽकृष्टाशेषव्यक्तिप्रतिभानं च मानसे प्रत्यक्षे; यथा शतसंख्याऽवच्छेदेन शतमिति प्रत्यये विशेषणाऽऽकृष्टानां पूर्वगृहीतानां शतसंख्याविषयपदार्थानाम्। तथाहि-एते शतमिति प्रत्ययो भवत्येव / सामान्यस्य च सत्त्वमनुगताऽबाधितप्रत्ययविषयत्वेन व्यवस्थापितं, तदेवं नियतसाहचर्यमर्थमर्थान्तरं प्रतिपादयदुपलब्ध सत्प्रतिपादयति / उपलम्भाश्चावश्यं क्वचिस्थितस्य, संव पक्षधर्मता। ततः सम्बन्धानुस्मृतौ ततः साध्यावगमः / यस्तु प्रतिबन्धं नोपेति, तस्याऽपि कथं न सर्वस्मात्सर्वप्रतिपत्तिः / अभ्युपगमे चाऽप्रतिपन्नेऽपि संबन्धे प्रतिपत्तिप्रसङ्गः। प्रमातृसंस्कारकारकाणां पूर्वदर्शनानामभावादित्यनुत्तरम् / संबन्धाप्रतिपत्तौ प्रमातृसंस्कारानुपपत्तेः / दर्शनजः संस्कारोऽप्यनभिव्यक्तः सत्तामात्रेण न प्रतिपत्त्युपयोगी। न च स्मृतिमन्तरेण तत्सद्भावोऽपि।न चानुभवप्रध्वंसनिबन्धना स्मृतिः / कृचिद्विषये संस्कारमन्तरेण तदनुपपत्तेः / प्रध्वंसस्य च निर्हेतुकतासंभवात्। यत्राप्यभ्यस्ते विषये वस्त्वन्तरदर्शनादव्यवधानेन वरत्वन्तरप्रतिपत्तिः, तत्राऽपि प्राक्तन क्रमाऽऽश्रयणेन वस्त्वन्तरावगमः। इयांस्तु विशेषःएकत्रानभ्यस्तत्वादन्तराले स्मृतिसंवेदनम; अन्यत्राऽभ्यासाद्विद्यमानाया अप्यसंवित्तिः / के चित्तु योगिप्रत्यक्षं संबन्धग्राहकमाहुः / व्याप्तेः / सकलाऽऽक्षेपेणावगमात्। तथा च यत्र यत्रेति देशकालविक्षिप्ताना व्यक्तीनामनवभासेऽनुफ्पत्तिः / अत एकत्र क्षणे योगित्वं प्रतिवन्धग्राहिणः, एतत्पूर्वस्मादविशिष्ट, तल्लोके अर्थान्तरदर्शनात्। अर्थान्तरसुदृढप्रतीती तार्किकाणां निमित्तचिन्तायां पक्षधर्मत्वाऽऽद्यभिधानम्, अतो न तान्त्रिकलक्षणप्रतिक्षेपोऽपि / उत्पन्नप्रतीतीनामस्तु प्रामाण्यम् / उत्पाद्यप्रतीतीनां तु अतीन्द्रियादृष्टपरलोकसर्वज्ञाऽऽद्यनुमानानां प्रतिक्षेप इति चेत् / तदसत्। यद्यनवगतसंबन्धान् प्रतिपत्रीनधिकृत्यैतदुच्यते, तदा धूमाऽऽदिष्वपि तुल्यम् / अथ गृहीताविनाभावानामप्यतीन्द्रियपरलोकाऽऽदिप्रतिभासानुत्पत्तेरेवमुच्यते / तदसत् / ये हि कार्यविशेषस्य तद्विशेषेण गृहीताविनाभावास्ते तस्मात्परलोकाऽऽद्यवगच्छन्त्येव। अतो न ज्ञायते केन विशेषेणातीन्द्रियार्थानुमानप्रतिक्षेपः / साहचर्याविशेषेऽपि व्याप्यगता नियतता प्रयोजिका, न व्यापकगता। अतः समव्याप्तिकानामपि व्याप्यमुखेनैव प्रतिपत्तिः नियतताऽवगमे चार्थान्तरप्रतिपत्तौ न बाधा; न प्रतिबन्धः / एकस्य रूपभेदानुपपत्तेः, ततो न विशेषविरुद्धसम्भवः, नाऽपि विर द्धाव्यभिचारिण इति। यदुक्तम्- विरुद्धाऽनुमानविरोधयोः सर्वत्र सम्भवात्, कृचिच्च विरुद्धाव्यभिचारिण इति। एतदप्यपास्तम्। अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात्। अवस्थादेशकालाऽऽदिभेदादित्यादेश्व पूर्वनीत्याऽनुमानप्रमाणत्वेऽनुपपत्तिः। परोक्षस्यार्थस्य सामान्याऽऽकारेणाऽन्यतः प्रतिपत्तो लोकप्रतीतायां बौद्धस्तु कार्यकारणभावाऽऽदिलक्षणः प्रतिबन्धस्तन्निमित्तत्वेन कल्पितः। तदुक्तम्"कार्यकारणभावाद्वा, स्वभावाद्वा नियामकात्। अविनाभावनियमो, दर्शनान्न न दर्शनात्।।१।।'' इत्यादि। तथा"अवश्यंभावनियमः,कः परस्यान्यथा परैः। अर्थान्तरनिमित्तौ वा, धम्मो वाससि रागवत्।।१।।'' इति च। तथाहि-वचित्पर्वताऽऽदिदेशे धूम उपलभ्यमानो यद्यग्निमन्तरेणैव स्यात्तदा पावकधर्मानुवृत्तितस्तस्य तत्कार्यत्वं यन्निश्चितं विशिष्टप्रत्यक्षाऽनुपलम्भाभ्यां तदेव न स्यादित्यहेतोस्तस्याऽसत्त्वात् क्वचिदप्युपलम्भो न स्यात्. सर्वदा सर्वत्र सर्वाऽऽकारेण वोपलम्भः स्यात्। अहेतोः सर्वदा सत्त्वात् / स्वभावश्च यदि भावव्यतिरेकेण स्यात्. ततो भावस्य निःस्वभावत्वाऽऽपत्तेः स्वभावस्याप्यभावाऽऽपत्तिः। तत्प्रतिबन्धसाधक च प्रमाण कार्यहतो विशिष्ट प्रत्यक्षानुपलम्भशब्दवाच्य प्रत्यक्षमेव, सर्वज्ञसाधकहेतुप्रतिबन्धनिश्चयप्रस्तावे प्रदर्शितम् / स्वभायहेतोस्तु कस्यचिद्विपर्यये बाधकं प्रमाण व्यापकानुपलब्धिस्वरूपं, कस्यचित्तु विशिष्ट प्रत्यक्षमभ्युपगतम्। सर्वथा सामान्यद्वारेण व्यक्तीनामतद्रूपपरावृत्तव्यक्तिरूपेण वा तासां प्रतिबन्धोऽभ्युपगन्तव्यः / अन्यथा प्रतिबद्धादन्यतोऽन्यप्रतिपत्तावतिप्रसङ्गात्। प्रतिबन्धप्रसाधकं च प्रमाणमवश्यमभ्युपगमनीयम् / अन्यथाऽगृहीतप्रतिबन्धत्वादन्यतोऽन्यप्रतिपत्तावपि प्रसङ्गस्तदवस्थ एव यत्र / गृहीतप्रतिबन्धोऽसावर्थ उपलभ्यमानः साध्यसिद्धिं विदधाति, तद्धर्मता तस्य पक्षधर्मत्वस्वरूपा; तदग्राहक च प्रमाण प्रत्यक्षमनुमानं वा ? तदुक्तं धर्मकीर्तिना- “पक्षधर्मतानिश्चयः प्रत्यक्षतोऽनुमानतो वा'' अतो लोकप्रसिद्धतान्त्रिकलक्षणलक्षि