________________ परभव 535 - अभिधानराजेन्द्रः - भाग 5 परभव तत्प्रमाणतः प्रामाण्याऽभ्युपगमविषयः, अथाऽप्रमाणतः? य दि | प्रमाणतः,तदा भवतोऽपि प्रमाणविषयस्तत्स्यात्। न हि प्रमाणतोऽभ्युपगमः कस्यचिद्भवति, कस्यचिन्नेति युक्तम् / अथाऽप्रमाणतोऽनुमानाऽऽदिकं प्रमाणतयाऽभ्युपगम्यते परेण, तदाऽप्रमाणेन न लेन पर्यनुयोगो युक्तः / अप्रमाणस्य परलोक साधनवत्तत्साधकप्रमाणपर्यनुयोगेऽप्यसामर्थ्यात् / अथ तेन प्रमाणलक्षणाऽपरिज्ञानात्तत्प्रामाण्यमभ्युपगतमिति तत्सिद्धेनैव तेन परलोकाऽऽदिसाधनाभिमतप्रमाणपर्यनुयोगः क्रियते। नन्वज्ञानात्तत्परस्य प्रमाणत्वेनाऽभिमतं; न चाऽज्ञानादन्यथात्वेनाऽभिमन्यमानं वस्तु तत्साध्यामर्थक्रिया निर्वर्त्तयति / अन्यथा विषत्वेनाऽर्मन्यमानं महौषधाऽऽदिकमपि तान्मारयितुकामेन दीयमानं स्वकार्यकरणक्षम स्यात्। अथ नाऽस्माभिः परलोकप्रसाधकप्रमाणपर्यनुयोगोऽनुमानाऽऽदिना स्वतन्त्रप्रसिद्धप्रामाण्येन, पराभ्युपगमावगतप्रामाण्येन वा क्रियते, किं तर्हि यदि परलोकाऽऽदिकोऽतीन्द्रियोऽर्थः परेणाभ्युपगम्यते, तदा तत्प्रतिपादकं प्रमाणं वक्तव्यम् / प्रमाणनिबन्धना हि प्रमेयव्यवस्थितः / तस्य च प्रमाणस्य तल्लक्षणाऽऽद्यसम्भवेन तद्विषयाभिमतस्याप्यभाव इति; एवं विचारणालक्षणःपर्यनुयोगः क्रियते इति न स्वतन्त्राऽनुमानोपन्यासपक्षधर्म्यसिद्ध्यादिलक्षणदोषाऽवकाशो बृहस्पतिमताऽनुसारिणाम्। नन्वेवमप्यनया भङ्ग्या भवता परलोकाऽऽद्यतीन्द्रियार्थप्रसाधकप्रमाणपर्यनुयोगे प्रसङ्गसाधनाऽऽख्यमनुमानं, तद्विपर्ययस्वरूपं च स्ववाचैव प्रतिपादितं भवति / तथाहिप्रमाणनिबन्धना प्रमेयव्यवस्थितिरिति एवं वदता प्रमेयव्यवस्था प्रमाणनिमित्तैव प्रतिपादिता भवति एतच प्रसङ्गसाधनम् / तच व्याप्यव्यापकभावे सिद्धे यत्र व्याप्याऽभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः प्रदर्श्यते इत्येवंलक्षणम् / तेन प्रमे यव्यवस्था प्रमाणप्रवृत्त्या व्याप्ता प्रमाणतो भवता प्रदर्शनीया। अन्यथा प्रमाणप्रवृत्तिमन्तरेणापि प्रमेयव्यवस्था स्यात् / ततश्च कथं परलोकाऽऽदिसाधकप्रमाणपर्यनुयोगेऽपि परलोकव्यवस्था न भवेत् ? व्याप्यव्यापकभावग्राहकप्रमाणाऽयुपगमे च कथं कार्यहेतोः स्वभावहेतोर्वा परलोकाऽऽदिप्रसाधकत्वेन प्रवर्त्तमानस्य प्रतिक्षेपः ? व्याप्तिप्रसाधकप्रमाणसद्भावेऽनुमानप्रवृत्तेरनायाससिद्धत्वात् / प्रमाणाभावे तन्निबन्धनायाः प्रमेयव्यवस्थाया अप्यभाव इति प्रसङ्ग विपर्ययः। स च घ्यापकाऽभावे व्याप्यस्याऽप्यभाव इति एवम्भूतव्यापकाऽनुपलब्धिसमुद्भूताऽनुमानस्वरूपम्। एतदपि प्रसङ्गविपर्ययरूपमनुमानं प्रमाणतो व्याप्यव्यापकसिद्धौ प्रवर्तत इति व्याप्तिप्रसाधकस्य प्रमाणस्य तत्प्रसादलभ्यस्य चाऽनुमानस्य प्रामाण्ये स्ववाचैव भवता दत्तः स्वहस्त इति नानुमानाऽऽदिप्रामाण्यप्रतिपादनेऽस्माभिः प्रयस्यते। अतो यदुक्तम् - "सर्वत्र पर्यनुयोगपराण्येव सूत्राणि बृहस्पतेः" इति। तदभिधेयशून्यमिव लक्ष्यते। उक्तन्यायात्। यत्तूक्तम्-प्रत्यक्ष सन्निहि तविषयत्वेन चक्षुरादिप्रभवं परलोकाऽऽदिग्राहकत्वेन न प्रवर्तते / तत्र सिद्धसाधनम् / यच्चोक्तम्-नाप्यतीन्द्रियं योगिप्रत्यक्षं, परलोकवत्तस्याऽसिद्धेरिति। तद्विस्मरणशीलस्य भवतो। वचनम्। अतीन्द्रियार्थप्रवृत्तिप्रवणस्य योगिप्रत्यक्षस्या नन्तरमेव प्रतिपादितत्वात्। यत् पुनरिदमुच्यतेनाऽपि प्रत्यक्षपूर्वकमनुमानं तदभावे प्रवर्तते। तदसङ्गतम्। प्रत्यक्षेण हि संबन्धग्रहणपूर्व परोक्षे पावकाऽऽदौ यथाऽनुमानं प्रवर्तमानमुपलभ्यते, स एव न्यायः परलोकसाधनेऽप्यनुमानस्य किमित्यदृष्टो, दृष्टो वा? तथाहि-यत्कार्यं तत्कार्यान्तरोद्भुत, यथा पटाऽऽदिलक्षणं कार्य, कार्य चेदं जन्म इति भवत्यतो हेतोः परलोकसिद्धिः / तथाहि- "नित्यं सत्त्वमसत्त्वं वा, हे तोरन्याऽनपेक्षणात् / अपेक्षातो हि भावाना, कादाचित्कवसम्भवः॥१॥" इति न तावत्कार्यत्वमिहजन्मनोन सिद्धम् / अकार्यत्वे हेतुनिरपेक्षस्य नित्यं सत्त्वाऽसत्त्वप्रसङ्गात् / अथ स्वभावत एव कादाचित्कत्वं पदार्थानां भविष्यति / न हि कार्यस्य कारणभावपूर्वकत्वं प्रत्यक्षत उपलब्ध, येन तदऽभावान्निवर्तेत, प्रत्यक्षतः कार्यकारणभावस्यैवाऽसिद्धेः / यद्येवं बाह्येनाप्यर्थेन सह कार्यकारणभावस्याऽसिद्धेः, स्वसंवेदनमात्रत्वे सत्यद्वैत, विचारतस्तस्याऽप्यभावे सर्व:शून्यत्वमिति सकलव्यवहारोच्छेदप्रसक्तिः / तस्माद्यथा प्रत्यक्षेण बाह्यार्थप्रतिबद्धत्वमात्मनः प्रतीयते, अन्यथेहलोकस्याप्यप्रसिद्धेः, प्रत्यक्षतस्तज्जन्यस्वभावत्वानवगमेतस्य तदग्राहकत्वाऽसंभवात्, तथा चेहलोकसाधनार्थमङ्गीकर्तव्य प्रत्यक्षं स्वार्थेनाऽऽत्मनः प्रतिबन्धसाधकम्, तथा परलोकसाधनार्थमपि तदेव साधनमिति सिद्धः परलोकोऽनुमानतः। यथा च बाह्यार्थप्रतिबद्धत्वं प्रत्यक्षस्य कादाचित्कत्वेन साध्यते, धूमस्यापि वह्निप्रतिबद्धत्वम्:तथेहजन्मनोऽपि कादाचित्कत्वेन जन्माऽन्तरप्रतिबद्धत्वमपि / ततोऽनलबाह्यार्थवत्परलोकेऽपि सिद्धमनुमानम् / अथेहजन्माऽऽदिभूतमातापितृसामग्रीमात्रादप्युत्पत्तेः कादाचित्कत्वंयुक्तमेवेहजन्मनः / नन्वेवं प्रदेशसमनन्तरप्रत्ययमात्रसामग्रीविशेषादेव धूमप्रत्यक्षसंवेदनयोः कादाचित्कत्वमिति न सिद्ध्यति वह्नियाह्यार्थप्रतीतिरिति सकलव्यवहाराऽभावः / अथाऽऽकारविशेषादेवानन्यथात्वसंभविनोऽनलबाह्यार्थसिद्धिः, तर्हि इहजन्मनोऽपि प्रज्ञामेधाऽऽद्याकारविशेषत एव मातापितृव्यतिरिक्तनिजजन्मान्तरसिद्धिः / तथा-यथाऽऽकारविशेष एवाऽयं तैमिरिकाऽऽदिज्ञानव्यावृत्तः प्रत्यक्षस्य बाह्यार्थमन्तरेण न भवतीति निश्चीयते, अन्यथा बाह्या सिद्धेबर्बोद्धाऽभिमतसंवेदनाऽद्वैतमेवेति पुनरपि व्यवहाराऽभावः तथेहजन्माऽऽदिभूतप्रज्ञाविशेषाऽऽदिजन्मविशेषाऽऽकारो निजजन्मान्तरप्रतिबद्ध इति निश्चीयतामनुमानतः / अथ प्रत्यक्षमेव सविकल्पक परमार्थतः प्रतिपत्तुः "ततः परं पुनर्वस्तुधर्मः'' इत्यादि मीमांसकाऽऽदिप्रसिद्ध साधकं बहिबाह्यार्थपूर्वकत्वस्य धृमजाग्रत्पुरोवृत्तिस्तम्भाऽऽदिप्रत्ययस्याऽत्राभ्युपगमे, परलोकवादिनः स्वपक्षमनायाससिद्धमेव मन्यन्ते। "न हि दृष्टऽनुपपन्नम्' इति न्यायात्। यथैव हि निश्चयरूपा मातृपितृजन्मप्रतिबद्धत्वसिद्धिः, तथैवेहजन्मसंस्कारव्यावृत्ताऽऽदिजन्मप्रज्ञाऽऽद्याकारविशेषान्निजजन्मान्तरप्रतिबद्धत्वसिद्धिरपि प्रत्यक्षनिश्चिता स्यादिति नपरलोकक्षतिः। न च निश्चयप्रत्ययोऽनभ्यासदशायामनुमानतामतिक्रामति, "पूर्वरूपसाधर्म्यात्तत्तथाप्रसाधितां नाऽनुमेयतामतिपतति'' इतिन्यायात्, अन्वयव्यतिरेकपक्षधर्मताऽनुसरणस्याऽनभ्यासदशायामुपलब्धेः / अभ्या सदशायां च पक्षधर्मत्वाऽऽद्यनुसरणस्याऽन्यत्राप्यसंवेदनात्, सिद्धमनुमानप्रतीतत्वं परलोकस्य। अथेतरेतराऽऽश्र यदोषादनुमानं नास्त्येवैवंविधे विषय इत्युच्येत। नन्वेवं सति सर्वभेदाभावतो व्यवहारोच्छेद इति तदुच्छेदमनभ्युपगच्छता व्यवहारार्थिनाऽवश्यमनुमानमभ्युपगन्तव्यम् / एतेन प्रत्यक्ष