________________ परभव 534 - अभिधानराजेन्द्रः - भाग 5 परभव यदि प्रत्यक्षम् / तदयुक्तम् / प्रत्यक्षस्याऽविचारकत्वेन पर्यनुयोगस्वरूपविचाररचनाऽचतुरत्वात् / न च प्रत्यक्षस्यापि प्रमाणत्वं युक्तम्। भवदभ्युपगमेन तलक्षणाऽसंभवात् / तदसंभवश्च स्वरूपव्यावस्थापकधर्मस्य लक्षणत्वात् / तत्र प्रत्यक्षस्य प्रामाण्यस्वरूपव्यवस्थापको धर्मोऽविसंवादित्वलक्षणोऽभ्युपगन्तव्यः / तचाऽविसंवादित्वं प्रत्यक्षप्रामाण्येनाऽविनाभूतमभ्युपगम्यम्। अन्यथाभूतात्ततः प्रत्यक्षप्रामाण्याऽसिद्धेः। सिद्धौ वा यतः कुतश्चिद्यत्किञ्चिदनभिमतमपि सिद्धयेदित्यतिप्रसङ्गः। स चाऽविनाभावस्तस्य कुतश्चित्प्रमाणादवगन्तव्यः / अनवगतप्रतिबन्धादर्थान्तरप्रतिपत्तौ नालिकेरद्वीपवासिनोऽप्यनवगतप्रतिबन्धात् धूमात्, धूमध्वजप्रतिपत्तिः स्यात्। अविनाभावावगमश्चाखिलदेशकालव्याप्त्या प्रमाणतोऽभ्युपगमनीयः / अन्यथा यस्यामेव प्रत्यक्षव्यक्ती संवादित्वप्रामाण्ययोरसाववगतस्तस्यामेवाविसंवादित्वात्तत्सिद्धयेत्, न व्यक्त्यन्तरे / तत्र तस्यानवगमात् / न चावगतलक्ष्यलक्षणसंबन्धा व्यक्तिर्देशकालान्तरमनुवर्तते / तस्याः। प्रत्यक्षव्य क्तेस्तदैवध्वंसात्; ध्यक्त्यन्तराननुगमात् / अनुगमे वा व्यक्तिरूपताविरहाऽनुगतस्य सामान्यरूपत्वात् तस्य च भवताऽनभ्युपगमात् / अभ्युपगमे वा न सामान्यलक्षणाऽनुमानविषयाऽभावप्रतिपादनेन लत्प्रतिक्षेपो युक्तः। स च प्रमाणतः प्रत्यक्षे लक्ष्यलक्षणयोाप्त्याऽविनाभावावगमो यदि प्रत्यक्षादभ्युपगम्यते। तदयुक्तम्। प्रत्यक्षस्य सन्निहितस्वविषयप्रतिभासमात्र एव भवता व्यापाराऽभ्युपगमात् / अथैकत्र व्यक्तौ प्रत्यक्षेण तयोरविसंवादित्वप्रामाण्ययोरविनाभावाऽवगमादन्यत्राऽप्येवंभूत प्रत्यक्ष प्रमाणमिति प्रत्यक्षेणाऽपि लक्ष्यलक्षणयोर्याप्त्या प्रतिबन्धाऽवगमः, तन्यित्राऽप्येवंभूतं ज्ञानलक्षणं कार्यमेवभूतज्ञानकार्यप्रभवमिति तेनैव कथं न सर्वोपसंहारण कार्यलक्षणहेतोः स्वसाध्याऽविनाभावाऽवगमः? येनाऽनुमानमप्रमाणमविनाभावसम्बन्धस्य व्याप्त्या ग्रहीतुमशक्यत्वादिति दूषणमुनमानवादिन प्रति भवता सज्यमानं शोभते / किश्वअविसंवादित्वलक्षणो धर्मः प्रत्यक्षप्रामाण्यलक्ष्यव्यवस्थापकः प्रत्यक्षप्रतिबद्धत्वेन निश्चयः / अन्यथा तत्रैव ततः प्रामाण्यलक्षणलक्ष्यव्यवस्था न स्यात् / असंबद्धस्य केनचित्सह प्रत्यासत्तिविप्रकर्षाऽभावात्, तदन्यत्राऽपिततस्तदव्यवस्थाप्रसङ्गः। तथाऽभ्युपगमे च यथा संवादित्वलक्षणो धर्मो लक्ष्यानवगमेऽपि प्रत्यक्षधर्मिसंबन्धित्वेनाऽवगम्यते, तथा धूमोऽपि पर्वतैकदेशे अनलानवगतावपि प्रदेशसंबन्धितयाऽवगम्यत इति कथं समुदाय: साध्यः तदपेक्षया च पक्षधर्मत्वं हेतोरवगन्तव्यम् / न च पक्षधर्मत्वाऽप्रतिपत्तौ साध्यधर्मानलविशिष्टत्प्रदेशप्रतिपत्तिः / प्रतिपत्ती वा पक्षधर्मत्वाऽऽद्यनुसरणं व्यर्थम् / तत्प्रतिपत्तेः प्रागेव तदुत्पत्तेः / समुदायस्य साध्यत्वेनोपचारात्तदेकदेशर्मिधर्मत्वावगमेऽपि पक्षधर्मत्वाऽवगमाददोषे उपचरित पक्षधर्मत्वं हेतोः स्यादित्यनुमानस्य गौणत्वाऽऽपत्तेः प्रमाणस्याऽगौणत्वादनुमानादर्थनिर्णयो दुर्लभ इति चोद्यावसरः / प्रत्यक्षप्रामाण्यलक्षणेऽपि क्रियमाणेऽस्य सर्वस्य समानत्वेन प्रतिपादितत्वात् / यदा चाविसंवादित्वलक्षणप्रत्यक्षप्रामाण्यलक्ष्ययाः सवापसहारण व्यासिरभ्युपगम्यत, अक्सिवादिचलक्षणश्च प्रामाण्यव्यव- स्थापको धर्मस्तत्राङ्गीक्रियते पूर्वोक्तन्यायेन तदा कथमनुमान नाऽभ्युपगम्यते प्रमाणतया? तथाहि-यत्किञ्चिदृष्ट, तस्य यत्राऽविनाभावस्तद्विदस्तस्य तद्गमकं तत्रेत्येतावन्मात्रमेवाऽनुमानस्याऽपिलक्षणम्। तच प्रत्यक्षप्रामाण्यलक्षणमभ्युपगच्छताऽभ्युपगम्यते देवानां प्रियेण / तथा-प्रामाण्यमप्यनुमानस्याभ्युपगतमेव, यतो यदेवाविसंवा-दित्वलक्षणं प्रत्यक्षस्य प्रामाण्यं, अनुमानस्याऽपि तदेव / तदुक्तम्- "अर्थस्याऽसम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता / प्रतिबद्धस्वभावस्य, तद्धेतुत्वे समंद्वयम्।।१।।" इति। अर्थाऽसंभवेऽभावः प्रत्यक्षस्य संवादस्वभावः प्रामाण्यनिमित्तम्। स च साध्याऽर्थाऽभावेऽभाविनो लिङ्गादुपजायमानस्यानुमानस्यापि समान इति कथ न तस्यापि प्रामाण्याऽभ्युपगमः / किञ्चअयं चार्वाकः प्रत्यक्षकप्रमाणवादी यदि परेभ्यः प्रत्यक्षलक्षणमनवबुध्यमानेभ्यस्तत्प्रतिपादयति, तदा तेषां ज्ञानसंबन्धित्वं कुतः प्रमाणादवगच्छति? न तावत्प्रत्यक्षात्। परचेतोवृत्तीनां प्रत्यक्षतो ज्ञातुमशक्यत्वात्; किं तर्हि स्वाऽऽत्मनि ज्ञानपूर्वको व्यापारव्याहारी प्रमाणतो निश्चित्य परेष्वपि तथाभूतात्तद्दर्शनात्तत्संबन्धित्वलक्षणमवबुध्यते, ततस्तेभ्यस्तत्प्रतिपादयति।तथाऽभ्युपगमे चव्यापारव्याहाराऽऽदे लिङ्गस्य ज्ञानसंबन्धित्वलक्षणस्वसाध्याऽव्यभिचारित्वं पक्षधर्मत्वं चाऽभ्युपगतं भवतीति कथमनुमानोत्थापकस्याऽर्थस्य त्रैरूप्यमसिद्धं, येन नाऽस्माभिरनुमानप्रतिक्षेपः क्रियते, किं तु विलक्षण यदनुमानवादिभिर्लिङ्गमभ्युपगतं, तत्र लक्षणभाग्भवतीति प्रतिपाद्यत इति वचः शोभामनुभवति / प्रत्यक्षलक्षणप्रतिपादनार्थ परचेतोवृत्तिपरिज्ञानाऽभ्युपगमे, त्रिलक्षणहेत्वभ्युपगमस्याऽवश्यंभावित्वप्रतिपादनात् / अथ नाऽस्माभिः प्रत्यक्षमपि प्रमाणत्वेनाऽभ्युपगम्यते; येन तल्लक्षणप्रणयनेऽवश्यंभाव्यनुमानप्रामाण्याऽभ्युपगन इत्यस्मान्प्रति भवद्भिः प्रतिपाद्येत। यत्तु प्रत्यक्षमेवैकं प्रमाणमिति वचनं तत्तान्त्रिकलक्षणालक्षितलोकसंव्यवहारिप्रत्यक्षाऽपेक्षया / अत एव लक्षणलक्षितप्रत्यक्षपूर्वकाऽनुमानस्य, अनुमानमप्रमाणमित्यादिग्रन्थसंद-भैणाऽप्रामाण्यप्रतिपादन विधीयते; न पुनर्गोपालाऽऽद्यज्ञलोकव्यवहाररचनाचतुरस्य धूमदर्शनमात्राऽऽविर्भूताऽनलप्रतिपत्तिरूपस्य। नैतचारु / तस्यापि महानसाऽऽदिदृष्टान्तधर्मिप्रवृत्तप्रमाणाऽवगतस्वसाध्यप्रतिबन्धनिश्चितसाध्यधर्मिधर्मधूमबलोद्भूतत्वेन तान्त्रिकलक्षणलक्षितप्रत्यक्षपूर्वकत्वस्य वस्तुतः प्रदर्शितत्वात् / एतत्पक्षधर्मत्वमियं चाऽस्य धूमस्य व्याप्तिरिति साङ्केतिकव्यवहारस्य गोपालाऽऽदिमूर्खलोकाऽसम्भविनोऽकिञ्चित्करत्वात्। प्रत्यक्षस्य चाऽविसंवादित्वं प्रामाण्यलक्षण तद्यथा सम्भवति, तथा परतःप्रामाण्य व्यवस्थापयद्भिः "सिद्ध " इत्येतत्पदव्याख्यायां दर्शितं, न पुनरुच्यते / तत् स्थितमेतन्न प्रत्य-क्षस्य भवदभिप्रायेण प्रामाण्यव्यवस्थापकलक्षणसंभवः। तद्भावेचाऽनमानस्यापि प्रामाण्यप्रसिद्धिरिति न प्रत्यक्ष पर्यनुयोगविधायि / नाप्यनुमानाऽऽदिक पर्यनुयोगकारि। अनुमानाऽऽदेः प्रमाणत्वेनाऽनभ्युपगमात् अथाऽस्माभिर्यद्यप्यनुमानाऽऽदिक न प्रमाणतयाऽभ्युपगम्यते, तथापि परेण तत्प्रमाणतयायुपगतामीले तत्माननपतचाप या विधायिने नमुबाय