________________ परभव 533 - अमिधानराजेन्द्रः - भाग 5 परभव द्भावाऽऽवेदकमनुमानं स्वविषयाऽभिमतेनार्थेनाऽऽत्मोत्पादकलिङ्गसंबन्धग्राहकं, तदेतरेतराऽऽश्रयत्वदोषः / अथाऽनुमानान्तराद् गृहीतप्रतिबन्धाल्लिङ्गादुपजायमानं तद्विषयं तदभ्युपगम्यते, तदाऽनवस्था; तथा सर्वमप्यनुमानमस्मान्प्रत्यसिद्धम् / तथाहि-बृहस्पतिसूत्रम् - "अनुमानमप्रमाणमिति। अनेन प्रतिज्ञाप्रतिपादनं कृतम्। अनिश्चिताऽर्थप्रतिपादकत्वाद, असिद्धप्रमाणाऽभासवदिति हेतुदृष्टान्तावभ्यूह्यौ। विषयविचारेण वाऽनुमानप्रामाण्यमयुक्तम्।धर्मधर्म्युभयस्वतन्त्रसाधने सिद्धसाध्यता यतः / अतो विशेषणविशेष्यभावः साध्यः प्रमेयविशेषविषयां प्रमां कुर्वत्प्रमाणं प्रमाणतामश्नुते। इतरेतराऽवच्छिन्नश्च समुदायोऽत्र प्रमेयः तदपेक्षया च पक्षधर्मत्वाऽऽदीनामन्यतमस्याऽपि रूपस्याऽप्रसिद्धिः / न हि समुदायधर्माता हेतोः / नापि समुदायेनान्वयो व्यतिरेको वा, धम्मिमात्राऽपेक्षया पक्षधर्मत्वे साध्यधर्माऽपेक्षया चव्याप्तौ गौणतेति / उक्तं च- "प्रमाणस्याऽगौणत्वादनुमानादर्थनिश्चयो दुर्लभः।" इति, धर्मिधर्मताग्रहणेऽपि न गौणतापरिहारः प्रतीयमानापेक्षया गौणमुख्यव्यवहारस्य चिन्त्यत्वात्, समुदायश्च प्रतीयते / एकदेशाऽऽश्रयणेनापि त्रैरूप्यमयुक्तम्। व्याप्त्यसिद्धेः। न हि सत्तामात्रेणाऽविनाभावा गमकः अपि त्ववगतः / अन्यथाऽतिप्रसङ्गात् / स च सकलसपक्षविपक्षाऽप्रत्यक्षीकरणे दुर्विज्ञानोऽसर्वविदा। न चात्र भूयोदर्शन शरणम् / सहस्रशोऽपि दृष्टसाहचर्यस्य व्यभिचारात् / अतएव दर्शनादर्शनमापे। तदुक्तम्-''गोमानित्येव म]न, भाव्यमश्ववताऽपि किम् ?" इति। देशकालाऽवस्थाभेदेन च भावानां नानात्वावगमादनाश्वासः। तदुक्तम्- "अवस्थादेशकालानां, भेदा भिन्नासु शक्तिषु। भावानामनुमानेन, प्रतीतिरतिदुर्लभा / / 1 / " इत्यादि। आह चअविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात्। यच सामान्यस्य तद्विषयस्याऽभावात् स्वार्थपरार्थभेदासम्भवात्, विरुद्धानुमानविरोधयोः सर्वत्र संभवात्; क्वचिच्च विरुद्धाव्यभिचारिण इत्यादि दूषणजालम् / तदनुदघोषणीयमेव / यतोऽनिश्चितार्थप्रतिपादकत्वादनुमानमप्रमाणनित्यनुमानाऽप्रमाणताप्रतिपादने कृते शेषदूषणजालस्य मृतमारणकल्पत्वात् / ततोऽनुमानस्याप्रमाणत्वादतीन्द्रियपरलोकसद्भावप्रतिपादने कुतस्तस्य प्रवृत्तिः ? अथेदमेव जन्म पूर्वजन्मान्तरमन्तरेण न युक्तमिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत्किमियम पत्तिः, अथाऽनुमानं वा ? न तावदापत्तिः, तल्लक्षणाऽभावात् / "दृष्टः श्रुतो वाऽर्थोस्न्यथा नोपपद्यते / " इति हि तस्या लक्षणं विचक्षणरिष्यते न तु जन्मान्तरमन्तरेण नोपपत्तिमदिदं जन्मेति सिद्धम्। माता-पितृसामग्रीमात्रकेण तस्योपपत्तेः तन्मात्रहेतुकत्वे चाऽन्यपरिकल्पनायामतिप्रसङ्गात्। अथ प्रज्ञामेधाऽऽदयो जन्माऽऽदावभ्यासपूर्वका दृष्टाः कथमतत्पूर्वका भवेयुः, न वह्निपूर्वको धूमः तत्पूर्वकतामन्तरेण कदाचिदपि भवन्नुपलब्धः / तदप्यसत् / अविनाभावसंबन्धस्य देशकालव्याप्तिलक्षणस्य प्रत्यक्षेण प्रतिपत्तुमशक्तेः। सन्निहितमात्रप्रतिपत्तिनिमित्तं हि प्रत्यक्षमुपलभ्यते; न हि सकलदेशकालयोर्विना वह्निमसंभव एव धूमस्येति प्रत्यक्षतः प्रतीतिर्युक्ता, अतो न धूमोऽपि वह्निपूर्वकः सर्वत्र प्रत्यक्षाऽनुपलम्भाभ्यां सिद्ध इति कुतस्तेन दृष्टान्तेन जन्मान्तरस्वरूपपरलोकसाधनम् / तस्मात्के चित्प्रज्ञामेधाऽऽदयस्तथाभूताभ्यासपूर्वकाः, केचिन्मातापितृशरीरपूर्वका इति / न च प्रज्ञाऽऽदयः शरीरतो व्यतिरिच्यमानस्वभावाः संवेदन विषयतामुपयान्ति / शरीरशतदन्वयव्यतिरेकानुवृत्तिमदेव दृष्टामिति कथमन्यथा व्यवस्थामर्हति ? अथ पूर्वोपात्तादृष्टमन्तरेण कथं माता-पितृविलक्षण शरीरम, नत्वेतेनैव व्यभिचारो दृश्यते। न हि सर्वदाकारणाऽनुरूपमेव कार्यम्। तेन विलक्षणादपि मातापितृशरीराद्यदि प्रज्ञामेधाऽऽदिभिर्विलक्षणं तदपत्यस्य शरीरमुपजायेत, कदाचित्तदाकारानुकारि तत्कथं वाऽत्र विरोधः / यथा कश्चिच्छालूकादेव शालूकः, कश्चिद्रोमयात्; तथा कश्चिदुपदेशाद्विकल्पः, कश्चित्तदाकारपदार्थदर्शनात् / अथ दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवेत्, तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेति एतदपि प्रष्टव्यम् / तस्मात्कार्यकारणभावमात्र-मेव तत्। तत्र च नियमाभावादविज्ञानादपि मातापितृशरीराद्विज्ञानमुपजायताम्। अथवायथा विकल्पाद्व्यवहितादपि विकल्प उपजायते, तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः / यथा चैकमातापितृशरीरादनेकापत्योत्पत्तिस्तथैकस्मादेव ब्रह्मणः प्रजोत्पत्तिरिति न जात्यन्तरपरिग्रहः कस्यचिदिति नपरलोकसिद्धिः / न हि मातापितृसंबन्धमात्रमेव परलोकः / तथेष्टावभ्युपगमविरोधात्। अथानाद्यनन्त आत्माऽस्ति, तमाऽश्रित्य परलोकः साध्यते। न ह्येकानुभवितव्यतिरेकेणाऽनुसंधानं सम्भवति। भिन्नाऽनुभवितर्यनुसन्धानादृष्टः / तदयुक्तम् / ''परलोकिनोऽभावात्, परलोकाऽभावः' इति वचनात् / न ह्यनाद्यनन्त आत्मा प्रत्यक्षप्रमाणप्रसिद्धः अनुमानेन चेतरेतराऽऽश्रयदोषप्रसङ्गः। सिद्धे आत्मन्येकरूपेणाऽनुसंधानविकल्पस्याऽविनाभूतत्वे आत्मसिद्धिः, तत्सिद्धेश्चाऽनुसंधानस्य तदविनाभूतत्वसिद्धिरितीतरेतराऽऽश्रयसद्रावान्नकस्यापि सिद्धिः न चाऽसिद्धमसिद्धेन साध्यते। किञ्च-दर्शनाऽनुसंधानयोः पूर्वाऽपरभाविनोः कार्यकारणभावःप्रत्यक्षसिद्धस्तत्कुतोऽनुसंधानस्मरणादात्मसिद्धिः। अपि च शरीरान्तर्गतस्य ज्ञानस्याऽमूर्त्तत्वेन कथं जन्मान्तरशरीरसंचारः / अथान्तराभवशरीरसन्तत्या संचरणमुच्यते, तदपि परलोकान्न विशिष्यते / सञ्चारश्वन दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगमभेतन्न परलोकसिद्धिः / अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसंबन्धाऽसिद्धेयर्थमेवाऽनुमानेन परलोकास्तित्वसाधनम् / अथाऽऽगमात्प्रतिनियतकर्मफलसंबन्धसिद्धिः / तथा सति परलोकास्तित्वमप्यागमादेव सिद्धमिति किमनुमानप्रयासेन ? न चाऽऽगमादपि परलोकसिद्धिः / तस्य प्रामाण्यासिद्धेः / न चाऽप्रमाणसिद्धं परलोकाऽऽदिकमभ्युपगन्तुं यक्तुम् / तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् / तन्न परलोसाधकप्रमाणप्रतिपादनमकृत्वा भवशब्दव्युत्पत्तिरर्थसंस्पर्शिन्यभिधातुं युक्ता डित्थाऽऽदि शब्दव्युत्पत्तितुल्या तु यदि क्रियेत, तदा नाऽस्माभिरपि तत्प्रतिपादकप्रमाणपर्यनुयोगे मनः प्रणिधीयत इति पूर्वपक्षः। अत्रोच्यते-यदुक्तं पर्यनुयोगमात्रमस्माभिः क्रियत इति। तत्र वक्तव्यम्पर्यनुयोगोऽपि क्रियमाणः किं प्रमाणतः क्रियते, उताऽप्रमाणतः? यदि प्रमाणतः तदंयुक्तम्। यतस्तत्कार्यपि प्रमाणं किं प्रत्यक्षं, उतानुमानाऽऽदि ?