SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ परभव 532 - अभिधानराजेन्द्रः - भाग 5 परभव न्तानवत् तत्सन्तानस्याऽनादित्वेनेष्टत्वात्। द्वितीयेऽपि यदि कस्यापि काऽभावो न भवेम्मा भूत्सिद्ध तावददृष्टम् / मुक्तिवादे तदभावोऽपि प्रसाधयिष्यते / तृतीये तु या हिंसावतोऽपि समृद्धिः, अर्हत्पूजावतोऽपि दारिद्र्याऽऽप्तिः, सा क्रमेण प्रागुपात्तस्य पापाऽनुबन्धिनः पुण्यस्य, पुण्यानुबन्धिनः पापस्य च फलम् / तत्कियोपात्तं तु कर्म जन्मान्तरे फलिष्यतीति नात्र नियतकार्यकारणभावव्यभिचारः। साधकाभावादपि नादृष्टाभावः, प्राकृ प्रसाधितप्रामाण्ययोरागमाऽनुमानयोस्तत्प्रसाधकयोर्भावात्। तथा च शुभः पुण्यस्याऽशुभः पापस्येत्यागमः। अनुमानं तु-तुल्यसाधनाना कार्ये विशेषः सहेतुकः, कार्यत्वात, कुम्भवत् / 'दृष्टश्च साध्वी-सुतयोwमयोस्तुल्यजन्मनोः। विशेषो वीर्यविज्ञानवैराग्याऽऽरोग्यसंपदाम् / / 1 / / " न चाऽयं विशेषो विशिष्टमदृष्टकारणमन्तरेण। यदूचुर्जिनभद्रगणिक्षमाश्रमणमिश्राः- "जो तुल्बसाहणाणं, फले विसेसो न सो विणा हेउ / कज्जत्तणओ गोयम !, घडुव्व हेऊ य से कम / / 1 / / " अथ यथैकप्रदेशसम्भवानामपि वदरीकण्टकानां कौटिल्याऽऽजधाऽऽदिविशेषः, यथा वैकसरसीसम्भूतानामपि पङ्कजानां नीलधवल-पाटल-पीत-शतपत्र-सहरत्रपत्राऽऽदिर्भेदः, तथा शरीरिणामपि स्वभावादेवाऽयं विशेषो भविष्यति / तदशस्यम् / कण्टकपङ्कजानाऽऽदीमपि प्राणित्वेन परेषां प्रसिद्धेस्तदृष्टान्ताऽवष्टम्भस्य दुष्टत्वात्, आहारक्षतरोह दोहदाऽऽदीनां वनस्पतीनामपि प्राणित्वेन तैः प्रसाधनात्। अथ गगनपरिसरे मकरकरितुरङ्गकुरङ्गभृङ्गाराऽङ्गाराऽऽद्याकाराननेकप्रकारान् विभ्रत्यभ्राणि, नचतान्यपि चेतनानि वः संमतानि। तद्वत्तनुभाजोऽपि राजरङ्काऽऽदयः सन्त्विति चेत् / तदसत् / तेषामपि जगददृष्टवशादेव देवपदवीपरिसरे विचरतां विवित्राऽऽकारस्वीकारात्। कश्चार्य स्वभावो यद्वशाज्जगद्वैचित्र्यमुच्यते ? किं भिर्हेतुकत्वं, स्वाऽऽत्महेतुकत्वं, वस्तुधर्मो, वस्तुविशेषो वा ? आद्ये पक्षे सदा सत्त्वस्याऽसत्त्वस्य वा प्रसङ्गः / द्वितीये-आत्माऽऽश्रयत्वं दोषः; अविद्यमानो हि भावाऽऽत्माकथं हेतुः स्यात् ? विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात्? वस्तुधर्मोऽपि दृश्यः कश्चिददृश्यो वा? दृश्यस्तावदनुपलम्भवाधितः / अदृश्यस्तु कथं सत्त्वेन वक्तुं शक्यः ? अनुमानात्तु तन्निर्णयेऽदृष्टानुमानमेव श्रेयः। वस्तुविशेषश्चेत् स्वभावो भूताऽतिरिक्तो, भूतस्वरूपो वा?. प्रथमे मूर्तोऽमूर्तो वा ? मूर्तोऽपि दृश्योऽदृश्यो वा? दृश्यस्तावत् दृश्याऽनुपलम्भवाधितः। अदृश्यस्त्वदृष्टमेव स्वभावभाषया वभाषे। अमूर्तः पुनः परः परलोकिनः को नामास्तु? न चादृष्टविघटितस्य तस्य परलोकस्वीकारः, इत्यतोऽप्यदृष्ट स्पष्ट निष्टक्यते। भूतस्वरूपस्तु स्वभावो नरेन्द्रदरिद्रताऽऽदिवैसदृश्यभाजोर्यमलजातयोरुत्पादकस्तुल्य एव विलोक्यते, इति कौतस्कुतस्तयोर्विशेषः स्यात् ? तद्दर्शनात्तत्राऽदृष्टभूतविशेषाऽनुमानेन नामान्तरतिरोहितमदृष्टमेवाऽनुमितिसिद्धं दृष्टम्, इतोऽपि बालशरीरं शरीरान्तरपूर्वकमिन्द्रियाऽऽदिमत्त्वात्तरुणशरीरवत्। न च प्राचीनभवातीततनुपूर्वकमेवेदं, तस्य तद्भवाऽवसान एव पटु पवनप्रेरितातितीव्रचिताज्वलनज्वालाकलापप्लुष्टतया भरमसादावादपान्तरालगतावभावेनतत्पूर्वकत्वाऽनुपपत्तेः। न चाशरीरिणो नियत गर्भ-देश-स्थान-प्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्। स्वभावस्य तु नियामकत्वं प्रागेव व्यपास्तम्। ततो यच्छरीरपूर्वक बालशरीरं तत्कर्ममयमिति / पौगलिकं चेदमदृष्टमेष्टव्यम्, आत्मनः पारतन्त्र्यमिति तत्त्वान्निगडाऽऽदिवत्। क्रोधाऽऽदिनाव्यभिचार इति चेन्न, तस्याऽऽत्मपरिणामरूपस्य पारतन्त्र्यस्वभावत्वात्, तन्निमित्तभूतस्य तु कर्मणः पौगलिकत्वात् / एवं सीधुस्वादनोद्भवचित्तवैकल्यमपि पारतन्त्र्यमेव, तद्धेतुस्तु सीधु पौद्गलिकमेवेति नैतेनाऽपि व्यभिचारः। ततो यद्यौगैरात्मविशेषगुणलक्षणं, कापिलैः प्रकृतिविकारस्वरूपं, सौगतैर्वासनास्वभाव, ब्रह्मवादिभिरविद्यास्वरूपं, चाऽदृष्टमवादि / तदपास्तम् / विशेषतः पुनरमीषां निषेधो विस्तराय स्वादिति न कृतः / रत्ना०७ परि०॥ विस्तरतश्चैतत्सम्मतिग्रन्थे प्रतिपादितम्अत्र बृहस्पतिमताऽनुसारिणः स्वभावसं सिद्धज्ञानाऽऽदिधर्मकलापाध्यासितस्य स्थाणोरभावप्रतिपादनं जैनेन कुर्वताऽस्माक साहाय्यमनुष्ठितमिति मन्वानाः प्राहुः / युक्तमुक्तं यत् स्वभावसंसिद्धज्ञानाऽऽदिसंपत्समन्वितस्येश्वरस्थाभावः / नारकतिर्यगनराऽमररूपपरिणतिस्वभावतया उत्पद्यन्ते प्राणिनोऽस्मिन्नित्येतचायुक्तमभिहितम् / परलोकसद्भावे प्रमाणाभावात् / तथाहि-परलोकसद्धावाऽऽवेदकं प्रमाण प्रत्यक्षम्, अनुमानम्, आगमो वा जैनेनाभ्युपगमनीयः / अन्यस्य प्रमाणत्वेन तेनाऽनिष्टेः। न चात्रैतद्वक्तव्यम् / भवतोऽपि किं तत्प्रतिक्षेपक प्रमाणम्, यतो नाऽस्माभिस्तत्प्रतिक्षेपकप्रमाणात्तद्वादः प्रतिपाद्यते, किंतु परोपन्यस्तप्रमाणपर्यनुयोगमात्रमेव क्रियते। अत एव 'सर्वत्र पर्यनुयोगपसण्येव सूत्राणि बृहस्पतेः' इति चार्वाकरभिहितम्।स च परोपन्यस्तप्रमाणपर्यनुयोगः, तदभ्युपगमस्य प्रश्नाऽऽदिद्वारेण विचारणा, न पुनः स्वसिद्धप्रमाणोपन्यासः। येनातीन्द्रियार्थप्रतिक्षेपकत्वेन प्रवर्त्तमान प्रमाणमाश्रयासिद्धत्वाऽऽदिदोषदुष्टत्वेन कथं प्रवर्तत इत्यस्मान्प्रति भवताऽपि पर्यनुयोगः क्रियते / अत एव परलोकप्रसाधकप्रमाणाऽभ्युपगमं परेण ग्राहयित्वा तदभ्युपगमस्याऽनेन प्रकारेण विचारः क्रियते / तत्र न तावत्परले कप्रतिपादकत्वेन चक्षुरादिकरणव्यापारसमासादिताऽऽत्मलाभं सन्निहितप्रतिनियतरूपाऽऽदिविषयत्वात्प्रत्यक्ष प्रवर्तते। नाप्यतीन्द्रियं योगिप्रत्यक्षं तत्र प्रवर्तत इति वक्तुं शक्यम्। परलोकाऽऽदिवत्तस्याप्यसिद्धेः / नाप्यनुमानं प्रत्यक्षपूर्वकं तत्र प्रवृत्तिमासादयति। प्रत्यक्षाप्रवृत्तौ तत्पूर्वकस्याऽनुमानस्यपि तत्राप्रवृत्तेः / अथ यद्यपि प्रत्यक्षाऽवगतप्रतिबन्धलिङ्ग प्रभवमनुमान न तत्र प्रवर्तत, तथाऽपि सामान्यतो दृष्ट तत्र प्रवर्तिष्यते। तदपि न युक्तम् / यतस्तदपि सामान्यतो दृष्टमवगतप्रतिबन्धलिङ्गाद्भवम्, आहोस्विद् अनवगप्रतिबन्धलिङ्गसमुत्थम्। यद्यनवगतप्रतिबन्धलिङ्गोद्भवमिति पक्षः। सनयुक्तः। तथाभूतलिङ्गप्रभवस्य स्वविषयव्यभिचारिणश्वदर्शनानन्तरोद्भूतराज्यालाप्तिविकल्पस्येवाप्रमाणत्वात् / अथ प्रतिपन्नसंबन्धलिङ्गप्रभवं तत्तत्र प्रवर्त्तत इति पक्षः। सोऽपि नयुक्तः / प्रतिबन्धावगमस्यैव तत्र लिङ्गस्यासंभवात् / तथाहि प्रत्यक्षस्य तत्र लिङ्गसंबन्धावगमनिमित्तस्याभावेऽनुमान लिङ्गसंबन्धग्राहकमभ्युपगन्तव्यम्। तत्र यदि तदेव पर लोकस
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy