________________ परभव 531 - अभिधानराजेन्द्रः -- भाग 5 परभव लदेहपूर्वकम, यत्पूर्वकं चेदं बालशरीरं तदस्मात् शरीरादर्थान्तरम्, तदत्ययेऽपीहत्यशरीरोपादानात, यस्य च तच्छरीरं स भवान्तरयायी शरीरादान्तरभूतो देहवानस्त्यात्मा, न पुनः शरीरमेवाऽऽत्मेति सिद्धमिति / / 1663 / / अनुमानान्तरमाहअण्णसुहदुक्खपुव्वं, सुहाइ बालस्स संपइसुहं व। अणुभूइमयत्तणओ, अणुभूइमओ य जीवो त्ति / / 1664 / / अन्यसुखपूर्वकमिदमाद्यं बालसुखम्, अनुभवाऽऽत्मकत्वात्, साम्प्रतसुखवत, यत्सुखपूर्वकचेदमाद्यं सुखम्, तच्छरीरादन्यदेव, तदत्ययेऽपीहत्यसुखकारणत्वात्। गुणश्चायम्, स च गुणिनमन्तरेण न संभवति, अतो यस्तस्याऽऽश्रयभूतो गुणी स देहादर्थान्तरम्, इति सुखानुभूतिमयो जीव इति सिद्धम / एवं दुःख-राग-द्वेष-भय-शोकाऽऽदयोऽयायोजनीया इति / / 1664 // अथ प्राग् जीवकर्मसिद्धावुक्तान्यप्यनुमानान्यत्राऽपि जीव सिद्धिप्रस्तावाद् मन्दस्मृत्यनुग्रहार्थं पुनरप्याहसंताणोऽणाई उ, परोप्परं हेउ-हेउभावाओ। देहस्स य कम्मस्स य, गोयम ! बीयंऽकुराणं व 111665 / / यदि नाम देह-कर्मणोरनादिः सन्तानः, तर्हि जीवसिद्धौ किमायातम् ? इत्याहतो कम्म-सरीराणं, कत्तारं करण-कज्जभावाओ। पडिवज्ज तदन्भहि, दंड-घडाणं कुलालं व / / 1666 / / अत्थि सरीरविहाया, पइनिययागारओ घटस्सेव। अक्खाणं च करणओ, दंडाईणं कुलालो व्व / / 1667 / / अत्थिंदियविसयाणं,आयाणाऽऽदेयभावओऽवस्सं। कम्मार इवादाया, लोए संडास-लोहाणं // 1668 / / भोत्ता देहाईणं, भोज्जत्तणओ नरो व्व भत्तस्स। संघायाइत्तणओ, अस्थि य अत्थी घरस्सेव॥१६६६।। जो कत्ताइ स जीवो, सज्झविरुद्धो त्ति ते मई होज्जा। मुत्ताइपसंगाओ, तं नो संसारिणो दोसो।।१६७०।। आसां व्याख्या पूर्ववदेवेति।।१६६६।१।१६६७।। / / 1668 / / / / 1666 / / // 1670 / अथ सुगतमतानुसारी कश्चिदाह-ननु सर्वपदार्थानां क्षणनश्वरत्वाज्जीवस्याऽपि क्षणिकतया शरीरेण सहैव विनष्टत्वाद् वस्तुतः शरीरात्तस्यानन्तरतैव, इति किं तद्व्यतिरिक्तत्वसाधनप्रयासेन ? इत्यत्राऽऽहजाइस्सरो न विगओ, सरणाओ बालजाइसरणो व्व। जह वा सदेसवत्तं, नरो सरंतो विदेसम्मि।।१६७१।। इह यो जातिस्मरो जीवः स प्रारभविकशरीरविगमेऽपि सति न विगत | इति प्रतिज्ञा / (सरणाउ त्ति) स्मरणादिति हेतुः / यथा-बालजातौ बालजन्मनि वृत्तं स्मरतीति बालजातिस्मरणो वृद्ध इति दृष्टान्तः / यथा वा-स्वदेशे मालवकमध्यदेशाऽऽदौ वृत्तं विदेशेऽपि गतो नरः स्मरन् न विगतः / इन्दमुक्त भवति-योऽन्यदेशकालाऽऽद्यनुभूतमर्थ स्मरति सोऽविनष्टा दृष्टः, यथा बालकालानुभूतानामर्थानामनुस्मर्त्ता वृद्धाऽऽद्यवस्थायां देवदत्तः / यस्तु विनष्टो नासो किश्चिदनुस्मरति, यथा जन्मानन्तरमेवोपरतः / न च पूर्वपूर्वक्षणानुभूतमाहितसंस्कारा उत्तरोत्तरक्षणाः स्मरन्तीति वक्तव्यम्, पूर्वपूर्वक्षणानां निरन्वयविनाशेन सर्वथा विनष्टत्वात्, उत्तरोत्तरक्षणानां सर्वथाऽन्यत्वात् / न चान्यानुभूतमन्योऽनुस्मरति, देवदत्तानुभूतस्य यज्ञदत्तानुस्मरणप्रसङ्गादिति / 1671 / अथ पराभिप्रायमाशय प्रतिविधातुमाहअह मन्नसि खणिओ वि हु, सुमरइ विन्नाणसंतइगुणाओ। तह वि सरीरादण्णो, सिद्धो विण्णाणसंताणो / / 1672 / / अथैवं मन्यसे त्वम्-क्षणिकोऽपि क्षणभङ्गुरोऽपि जीवःपूर्ववृत्तान्तं स्मरत्येव / कुतः? इत्याह-विज्ञानानां विज्ञानक्षणानां सन्ततिः सन्तानस्तस्या गुणस्तत्सामर्थ्यरूपस्तस्मादिति, क्षणसन्तानस्यावस्थितत्वात् क्षणनश्वरोऽपि स्मरतीत्यर्थः / अत्रोत्तर-माह-ननु तथाऽप्येवमपि सति ज्ञानलक्षणसन्तानस्यागेतनशरीरसंक्रान्तेर्भवान्तरसद्भावः। सिद्ध्यति, सर्वशरीरेभ्यश्च विज्ञानसन्तानस्येत्थमन्तरता साधिता भवति, अविच्छिन्नविज्ञानसन्तानाऽऽत्मकश्चैवं शरीरादर्थान्तरभूत आत्मा सिद्धो भवतीति / तदेवं परभवमङ्गीकृत्याविनष्ट स्मरणमावेदितम् / / 1672 / / विशे! अदृष्टपूर्वकपरलोकसिद्धिः / तथाहि-नास्तिकस्तावन्नादृष्टमिष्टवान्। सप्रष्टव्यः-किमाश्रयस्य परलोकिनोऽभावात्, अप्रत्यक्षत्वात्, विचाराऽक्षमत्वात्, साधकाभावाद्वाऽदृष्टाभावो भवेत् ? न तावत्प्रथमात्, परलोकिनः प्राक् प्रसाधितत्वात्। नाप्यप्रत्यक्षत्वात्, यतस्तवाऽप्रत्यक्ष तत्, सर्वप्रमातृणां वा? प्रथमपक्षे त्वत्पितामहाऽऽदेरप्यभावो भवेचिराsतीतत्वेन तस्य तवाप्रत्यक्षत्वात्, तदभावे भवतोऽप्यभावो भवेदित्यही नवीना वादवैदग्धी। द्वितीयकल्पोऽप्यल्पीयान्, सर्वप्रमातृप्रत्यक्षमदृष्टनिष्टकनिष्णातं न भवतीति वादिना प्रत्येतुमशक्तेः, प्रतिवादिना तु तदाऽऽकलनकुशलः केवली कक्षीकृत एव / विचाराक्षमत्वमप्यक्षम, कर्कशतर्कस्तय॑माणस्य तस्य घटनात् / ननु कथं घटते ? तथाहितदनिमित्तं, सनिमित्तं वा भवेत् ? न तावदनिमित्तं, सदा सत्त्वासत्त्वयोः प्रसङ्गात्। "नित्य सत्त्वमसत्त्वं वा, हेतोरन्यानपेक्षणात्।" यदि पुनः सनिमित्तं, तदाऽपि तन्निमित्तमदृष्टान्तरमेव, रागद्वेषाऽऽदिकषायकालुष्यं, हिंसाऽऽदिक्रिया वा? प्रथमे पक्षेऽनवस्थाव्यवस्था। द्वितीये तु न कदाऽपि कस्यापि कर्माऽभावो भवेत् / तद्धेतोः रागद्वेषाऽऽदिकषायकालुष्यस्य सर्वसंसारिणां भावात्। तृतीयपक्षोऽप्यसूपपादः, पाप-पुण्यहेतुत्व-संमत-योर्हिसाऽर्हत्पूजाऽऽदि-क्रिययोर्व्यभिचारदर्शनात्-कृपणपशुपरम्पराप्राणप्रहाणकारिणां कपट-घटना-पटीयसां पितृमातृमित्रपुत्राऽऽदिद्रोहिणामपि केषाञ्चिच्चपलचारुचामर श्वेताऽऽपपत्रपात्रपार्थिव श्रीदर्शनात्। जिनपति-पद पङ्कज-पूजा-परायणानां निखिलप्राणिपरम्पराऽपारकरुणाऽकू पाराणामपि के षाशिदने कोपद्रवदारिद्र्यमुद्राऽऽक्रान्तत्वाऽऽलोकनादिति / अत्र ब्रूमः-पक्षत्रयमप्येतकक्षीक्रियत एव / प्राच्याऽदृष्टान्तरवशगो हि प्राणी रागद्वेषाऽऽदिना प्राणव्यपरोपणाऽऽदि कुर्वाणः कर्मणा बध्यते / न च प्रथमपक्षेऽनवस्था दौस्थ्याय, मूलक्षयकरत्याभावात्, वीजाड्कुराऽऽदिस