________________ परपरिवायप्पिय 526 - अभिधानराजेन्द्रः - भाग 5 परपासंडपसंसा परपरिवायप्पिय त्रि० (परपरिवादप्रिय) इष्टान्यदूषणाभिधाने, प्रश्न०२ आश्रद्वार। परपासंड पुं० (परपाखण्ड) सर्वज्ञप्रणीतपाखण्डव्यतिरिक्त, आव० ६अ०। परपाखण्डानां -सर्वज्ञप्रणीतपाखण्डव्यतिरिक्तानाम् (आव०) ओघतरचीणि शतानि त्रिषष्ट्यधिकानि भवन्ति / यत उक्तम्'असिइसय किरियाण, अकिरियवाईण होइ चुलसीति। अण्णाणिएँ सत्तट्ठी, वेणइयाणं च वत्तीसं / / 1 / / " इयमपि गाथा विनेयजनानुग्रहार्थ ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते -(असिइसयं किरियाणं ति) अशीत्युत्तरं शतं क्रियावादिना, तत्र न कर्तारं विना क्रिया सम्भवति, तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्वते क्रियावादिनः। ते पुनरात्माऽऽद्यस्तित्वप्रतिपत्तिलक्षणा अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञयाः-जीवाजीवाऽऽश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाऽऽख्यान् नव पदार्थान् विरच्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वराऽऽत्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः / पुनश्चेत्थं विकल्पाः कर्त्तव्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः। विकल्पार्थश्वायम्-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्व कालतः कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः ''पुरुष एवेदं सर्वम्' इत्यादि, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः ।परत इत्यनेनाऽपि पञ्चैव लभ्यन्ते / नित्यत्वाऽपरित्यागेन चैते दश विकल्पाः। एवमनित्यत्वेनाऽपि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवाऽऽदिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति / (अकिरियाणं च भवति चुलसीति त्ति) अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति / न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रियावादिनः। तथा चाऽऽहुरेके- "क्षणिकाः सर्वसंस्काराः, अस्थिताना कुतः क्रिया ? भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते // 1 // " इत्यादि। एते चाऽऽत्माऽऽदिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः, एतेषां हि, पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्तः, कालाऽऽदीनांतु पश्चानां षष्ठी यदृच्छान्यस्यते, पश्चाद्विकल्पभेदाभिलापः, नास्ति जीवः स्वतः कालत इत्येको विकल्पः / एवमीश्वराऽऽदिभिरति यदृच्छावसानैः सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश। एवमजीवाऽऽदिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति / (अण्णाणिऍसत्तट्टि त्ति) अज्ञानिकानां सप्तषष्टिर्भ दा इति / तत्र कुत्सितं ज्ञानमज्ञानं, तदेषामस्तीति अज्ञानिकाः। नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं, ततश्चाज्ञाना इति स्यात् / नैष दोषः, ज्ञानान्तरमेवाज्ञान, मिथ्यादर्शनसहचारित्वात्. ततश्च जातिशब्दत्वात् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति। अथवा-अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिकाः-असंचिन्त्य कृतवैफल्याऽऽदिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टितिव्याः। तत्रजीवाऽऽदिनवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वमसत्त्वं, सदसत्त्वम्, अवाच्यत्वं, सदवाच्यत्वम्, असदवाच्यत्वंसदसदवाच्यत्वमिति चैकैकस्य जीवाऽऽदेः सप्त सप्त विकल्पाः, एतेनव सप्तकाः त्रिषष्टिः, उत्प-त्तेस्तु चत्वार एवाऽऽद्या विकल्पाः / तद्यथा सत्त्वमसत्त्वं, सदसत्वम, अवाच्यत्वं चेति त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किम् ? एवमसदादयोऽपि वाच्याः / उत्पत्तिरपि किं सतोऽसतः, सदसतोऽवाच्यस्येति को जानातिति ? एतन्न कश्चिदपीत्यभिप्रायः। (वेण-इयाणं च बत्तीस त्ति) वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः-सुरनृपतियतिज्ञातिस्थविराधाममातृपितृणां प्रत्येक कायेन वचसा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुराऽऽदिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि / न चैतत् स्वमनीषिकाव्याख्यानम्। यस्मादन्यैरप्युक्तम् "आस्तिकमतमात्माऽऽद्याः, नित्यानित्यात्मका नव पदार्थाः / कालनियतिस्वभावे-श्वराऽऽत्मकृतकाः स्वपरसंस्थाः।।१।। कालयदृच्छानियती-श्वरस्वभावात्मऽऽनश्चतुरशीतिः। नास्तिकवादिगणमतं, न सन्ति भावाः स्वपरसंस्थाः / / 2 / / अज्ञानिकवादिमतं, नव जीवाऽऽदीन् सदादिसप्तविधान्। भावोत्पत्तिं सदसद्-द्वैतावाच्या च को वेत्ति? ||3|| वैनयिकमत विनयश्चेतोवाक्कायदानतः कार्यः। सुरनृपतियतिज्ञाति-स्थविराधममातृपितृषु सदा / / 4||" इत्यलं प्रसङ्गेन। आव०६ अ०। परपासंडपडिमा स्त्री० (परपाखण्डप्रतिमा) परपाखण्डलिङ्गे, व्य०१ उ०। (परपाखण्डप्रतिमाकरणम् ‘उवसंपया' शब्दे द्वितीयभागे 1005 पृष्ठे गतम्) परपासंडपसंसा स्त्री०(परपाखण्डप्रशंसा) परपाखण्डानां सर्वज्ञप्रणीतपाखण्डव्यतिरिक्तानां प्रशंसा, प्रशंसनं प्रशंसा, स्तुतिरित्यर्थः / आव०६ अ० / परदर्शनिनां गुणोत्कीर्तने, उत्त० 2 अ०। परपासंडपसंसा, सक्काइणमिह वन्नवाओ उ॥(८८) परपाखण्डानां सर्वज्ञप्रणीतव्यतिरिक्तानां प्रशंसेति समासः। प्रशंसनं प्रशंसा, स्तुतिरित्यर्थः / तथा चाऽऽह-शाक्याऽऽदीनामिह वर्णवादस्तु। शाक्या रक्तभिक्षवः,आदिशब्दात्परिव्राजकाऽऽदिपरिग्रहः / वर्णवादः प्रशंसोच्यते- पुण्यभाज एते, सुलब्धमेभिर्मानुषं जन्म, दयालव एत इत्यादि। (88 श्रा०) अत्र चोदाहरणम्- "पाडलिपुत्ते चाणक्को, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति, चाणकं पलोएति, ण य पसंसति, ण देति, तेण चाणक्कमज्जा ओ