________________ पर 511 - अमिधानराजेन्द्रः - भाग 5 परंतंतकर क्षेत्रे क्षेत्रविषयेऽपि परद्वारे चिन्त्यमाने एवमेव तत्क्षेत्रपरान्यक्षेत्रपरभेदेन एकप्रदेशावगाढाऽऽदयोऽसंख्येयप्रदेशावगाढ यावद् द्रष्टव्याः। तद्यथाएकप्रदेशावगाढःपरमाणुः स्कन्धो वा एकप्रदेशावगाढः स्यात् तत्क्षेत्रपरः / द्वित्रिप्रदेशावगाढादयः पुनः स्थान्यक्षेत्रपराः / तथाहि-प्रवेशावगाढस्य स्कन्धस्य तत्क्षेत्रपरस्तस्या एकःत्र्यादिप्रवेशावगाढास्तु तस्यान्यक्षेत्रपरः। एवं विस्तरेण सर्वायगाहना द्रष्टव्या। कालेऽप्येकसमयाऽऽदिस्थितयः पुद्गला यावदसंख्येयसमयस्थितयस्तावत् कालपरान्यकालपरभेदाद्वक्तत्याः तत्रैकसमयस्थितिकाना पुद्गलानाम् एकसमयस्थितिकास्तत्कालपराः, द्वित्र्यादिसमयस्थितिकाः पुनरन्यकालपराः / एवं यावदसख्येयोत्सर्पिण्यवसर्पिणीगतानां संख्येयसमयस्थितिकानां पुद्गलानां तावत्संख्याकसमयस्थितिका एव तत्कालपराः, शेषास्तु एकसमयस्थितिकाऽऽदयः सर्वेऽप्यन्यकालपरा अवसातव्याः। अथाऽऽदेशपरंव्याचष्टेभोअणपेसणमादी-सु एगखेत्तट्ठियं तु जं पच्छा। आदिसइ भुज कुणसु य, आएसपरो हवइ एसो // 356|| भोजनं प्रतीतं, प्रेषणं व्यापारणं, तदादिषु कारणेषु यं कञ्चन पुरुषमेकस्मिन् क्षेत्र स्थितमपि पश्चात्पर्यन्ते आदिशति, यथात्वं भोजनं विधेहि, कुरुवा कृष्यादि कर्म, एव आदेशपरो भवति, आदेश आज्ञपनं, तदाश्रित्य परः पाश्चात्य आदेशपर इतिव्युत्पत्तेः। अथ क्रमपरमाहदव्वाइकमो चउहा, दव्वे परमाणुमाइ जाऽणतं। एगुत्तरवुड्डीए, वड्डीयाणं परं होई॥३८७।। क्रमः परिपाटिरित्येकोऽर्थः। तमाश्रित्य परः क्रमपरः, स तु चतुर्थ्या द्रव्यक्षेत्रकालभावभेदात्। तत्र द्रव्यतः परमाणुमादौ कृत्वा अनन्तप्रादेशिकस्कन्धं यावदकोत्तरप्रदेशवृद्ध्या वर्द्धितानां पुद्गलद्रव्याणां यो यदपेक्षया परः तस्माद्रव्यपरात्क्रमपरो भवति। तद्यथा-परमाणुपुद्गलात् द्विप्रदेशकस्कन्धो,द्विप्रदेशिकस्कन्धात् त्रिप्रदेशिकस्कन्धः, एवं यावदसंख्येयप्रदेशिकस्कन्धो द्रव्यक्रमपरः, क्षेत्रक्रमपरोऽप्येवमेव, नवरमेकप्रदेशाऽवगाढात द्विप्रदेशावगाढः द्विप्रदेशावगाढात्, त्रिप्रदेशावगाढः। एवं यावत् संख्येयप्रदेशावगाढादसंख्येयप्रदेशावगाढः क्षेत्रक्रमपरः / कालक्रमपरस्त्वेवम्-एकसमयस्थितिकात् द्विसमयस्थितिको, द्विसमयस्थितिकात् त्रिसमयस्थितिकः, एवं यावत् संख्येयसमयस्थितिकादसंख्येयसमयस्थितिकंः कालक्रमपरः / भावक्रमपरः पुनरेवमएकगुणकालाद् द्विगुणकालको, द्विगुणकालकाद् त्रिगुणकालकः, एवं यावत्संख्येयगुणकालादनन्तगुणकालको भावक्रमपरः। एवं काललोहितहारिद्रशुक्लरूपेषु शेषेष्वपि चतुषु वर्णेषु, सुरभिदुरभिलक्षणे च गन्धद्रये, तिक्तकटुकषायाम्लमधुराऽऽत्मकेरसपञ्चके, गुरुलघुमृदुकठिनस्रिग्धरूक्षशीतोष्णलक्षणे च स्पर्शाऽष्टके यथाक्रमं भावपरता भावनीया। अथ बहुपरं भावयतिजीवा 1 पोग्गल 2 समया 3, दव्व 4 पएसा य 5 पज्जवा चेव 6 / थोवाऽणंता 1-2 णंता 3, विसेसमहिया 4 दुवेऽणंता 5-6 // 38 // इह पूर्वार्द्धपश्चाद्धपदानां यथाक्रम योजना कार्या / तद्यथा- जीवाः सांसारिकमुक्तभेदभिन्नाः, ते सर्वस्तोकाः, जीवेभ्यः पुद्गला अनन्तगुणाः, पुद्गलेभ्यः समया अनन्तगुणाः, समयेभ्यो द्रव्याणि विशेषाधिकानि, द्रव्येभ्यः प्रदेशा अनन्तगुणाः प्रदेशेभ्यः पर्याया अनन्तगुणाः। उक्तं च व्याख्याप्रज्ञप्तौएएसि णं भंते ! जीवाणं पोग्गलाणं अद्धासमयाणं सव्वदव्वाणं सव्वपएसाणं सव्वपज्जवाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा? गोयमा ! सव्वत्थोवा पोग्गला अणंतगुणा अद्धासमया अणतगुणा सव्वदव्वा विसेसाहिया सव्वपएसा अणतगुणा सव्वपज्जवा अणतगुणा / " अत्रामीषामित्थमल्पबहुत्वे हेतुभावना भगवतीटीकायां वृद्धरुपदर्शितास्ते, अतस्तदर्थिना सैवावलोकनीया। अथ प्रधानपरमाहदव्वे सचित्तमादी, सचित्तदुपएसु होइ तित्थयरो। सीहो चउप्पएसुं, अपयपहाणा बहुविहा उ॥३८६।। प्रधान एव परः प्रधानपरः, स च द्रव्यतो भावतश्च / तत्र द्रव्ये द्रव्यतविधासचित्ताऽऽदिः / आदिशब्दान्मिश्रोऽचित्तश्च / तत्र सचित्तप्रधानस्त्रिधाद्विपदचतुष्पदापदभेदात् / तत्र द्विपदेषु तीर्थकरः प्रधानो भवति, चतुष्पदेषु सिंहः, अपदेषु बहुविधाः सुदर्शनाभिधानजम्बूवृक्षप्रभृतयः, पनसाऽऽदयोऽप्रधानाः। प्रधानपरोऽनेकधा। तद्यथा-धातुषु सुवर्ण , वस्त्रेषु चीनांशुक, गन्धद्रव्येषु गोशीर्षचन्दनमित्यादि / मिश्रप्रधानपराणि तु सुवर्णकटकाऽऽद्यलंकृतविग्रहाणि तीर्थकराऽऽदि द्रव्याण्येव द्रष्टव्यानि भावप्रधानपरमाहवण्णरसगंधफासे-सु उत्तमा जे उ भूदगवणेसु / मणिखीरोदगमादी, पुप्फफलादीय रुक्खेसु // 360 // (वण्णरसगंधफासेसु त्ति) तृतीयाऽर्थे सप्तमी। वर्णेन रसेन गन्धेन स्पर्शन वा ये भूदकवनेषु पृथिवीकायाप्कायवनस्पतिकायेपूत्तमास्ते भावप्रधानपराः। तानेव पश्चार्द्धनोदाहरति-(मणिखीरोदग इत्यादि) पृथिवीकायेषु पद्मरागवज्रवैडूर्याऽऽदिमणयः प्रधानाः, अप्कायेषु क्षीरोदकाऽऽदिपानीयानि, वृक्षेषु पुष्पफलाऽऽदीनि। गतः प्रधानपरः / बृ०१ उ०३ प्रक०। आचा०। *भ्रम् धा०। भ्रमणे, "भ्रमेः टिरिटिल्ल-दण्दुल्ल-ढण्ढल्ल चक्कम्ममम्मड-भमड-भमाड-तलअण्ट-झण्ट-झम्प-भुम-गुम-फुम फुस-दुम-दुस-परी-पराः" ||8|4|161 // इति सूत्रेण भ्रमधातोः 'पर' आदेशः। परइ।' भ्रमति। प्रा०४ पाद। परइधा० (देशी) भ्रमतीत्यर्थे, दे०ना०६ वर्ग 4 गाथा। परउत्थिय पुं० (परयूथिक) शाक्यपरिव्राजकाऽऽदौ, बृ० 1302 प्रक० / परओवेइ(ण) पुं० (परतोवेदिन) गणधराऽऽदिके स्वतोवेदितीर्थकृदुप देशेन ज्ञातरि, सूत्र०१ श्रु०१२ अ०। परंतकर पुं० (परान्तकर) परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरः / मोचके, स्था० 4 ठा०२ उ०। परंतंतकर पुं० (परतन्त्रकर) परतन्त्रः सन्कार्याणि करोतीति परतन्त्रकरः / भिक्षी, स हि आचार्याऽऽदितन्त्र एव कार्याणि करोति / स्था०४ ठा०२ उ०॥