________________ पयत्थ 505 - अभिधानराजेन्द्रः - भाग 5 पयत्थ अधुना पदार्थद्वारमाहहोइ पयत्थो चउहा, सामासिय तद्धिओ य धाउकओ। नेरुत्तिओ चउत्थो, तिण्ह पयाणं पुरिल्लाणं // 330 / / त्रयाणां पूर्वाणां पदानां नामनिपातौपसर्गिकाणां चतुर्विधः पदार्थो भवति / तद्यथा-सामासिकः, तद्धितो, धातुकृतो, नैरुक्तश्च चतुर्थः। तत्र सामासिकः सप्तधादंदे य बहुव्वीही, कम्मधारय दिगू य एमेव। तप्पुरिस अव्वईभा-व एगसेसे य सत्तमए।।३३१।। तत्र द्वन्द्वो यथा-दन्ताश्च ओष्ठौ च दन्तोष्ठम् / बहुव्रीहिर्यथा-''फुल्ला इमम्मि गिरिम्मि कुडयकयंवा सो इमो गिरी फुल्लकुडयकयंबो / '' कर्मधारयः-श्वेतपटः। द्विगुः-त्रीणि मधुराणि त्रिमधुरम् / तत्पुरुषः-वने हस्ती वनहरती। अव्ययीभावः-गङ्गायाः समीपम् उपगङ्गम् / एकशेषो यथा-पुरुषश्च पुरुषश्च पुरुषश्च पुरुषाः / एवं-वृक्षा इत्यादि / उक्तः सामासिकः। संप्रति तद्धित उच्यते, सोऽष्टप्रकारः। उक्तं चकम्मे सिप्पेसिलोगे, संजोगें समीवओ य संजूहे। ईसारियाऽवच्चेण य, तद्धियअत्थो तु अट्ठविहो // 332 / / तत्र कर्मतो यथा-तृणहारकः / शिल्पतो यथा-तन्तुवायः / श्लोकतः श्लाघातो यथा - श्रमणः, संयत इत्यादि। संयोगतो यथा राज्ञः श्वशुरः। समीपे यथा-गिरिसमीपे नगरम् / संव्यूहतो यथा-मलयवतीकार इत्यादि / ऐश्वर्यतो यथा-राजा युवराज इत्यादि। अपत्यतः-तीर्थकस्माता, चक्रवर्ति माता इत्यादि / उक्तस्तद्धितः। सम्प्रति धातुकृत उच्यते-भूसत्तायां परस्मैभाषा इत्यादि। नैरुक्तोमह्या शेते महिष इत्यादि, आद्यानां त्रयाणां पदानामेष पदार्थः सम्प्रत्याख्यातिकपदस्य, मिश्रपदस्य च पदार्थमाहकारगकओ चउत्थे, मिस्सपदे मिस्सओ चउत्थो उ। सामासिओं सत्तविहो, हवइ पयत्थो उ नायव्वो॥३३३।। / चतुर्थे आख्यातिकपदे पदार्थः कारककृतःक्रियाकृतः / मिश्र पदे मिश्रपदार्थः, तत्र यः सामासिकः स पदार्थः सप्तविधो ज्ञातव्यः। स च प्रागेवोपदर्शितः / बृ०१उ०१ प्रक० / अनु०। आ०म०। तथाहिनेयायिकदर्शनेन तावत्प्रमाणप्रमेयसंशय-प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वा-भासछलजातिनिग्रहस्थानानीत्येते षोडश पदार्था अभिहिताः / सूत्रः 1 श्रु० 12 अ०। आ०म० (कथं पुनश्चतुश्चत्वारिंशं शतं पृच्छानां भवति इति प्रश्ने, 'तेरासिय' शब्दे चतुर्थभागे 2365 पृष्टे पदार्थनिरूपणपरा "भूजल." (2460) इत्यादिगाथा उक्ताः) तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवायाऽऽख्याः षडेव पदार्थाः, न्यूनाधिकप्रतिपदार्थादेकप्रमाणाभावे परस्परवक्तव्यस्वरूपषट् - पदार्थव्यवस्थापकप्रमाणविषयत्वात् / उभयाभिमतघटाऽऽदिषट्पदार्थवत्। (द्रव्यस्वरूपम् 'दव्व' शब्दे चतुर्थभागे 2466 पृष्ठे उक्तम् गुणस्वरूपं 'गुण' शब्दे तृतीयभागे 606 पृष्ठे विवृतम्) न चैवं उत्क्षेपणाऽऽदीनि पञ्चकर्माणि, परापरभेदभिन्नं द्विविधं सामान्यम् अनुगतज्ञानकारणं, नित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तव्यावृत्त बुद्धिहेतवः, अयुतसिद्धानां कार्याऽऽधारभूतानामिहेतिप्रत्ययहेतुर्यः सबन्धः समवायो व्यापकश्च / अत्र च पदार्थषट्के द्रव्याणि गुणाश्च केचिन्नित्या एव, कर्मनित्यमेव, सामान्यविशेषसमवायास्तुनित्या एवेति पदार्थव्यवस्था। ततश्चैतच्छास्त्रंतथापि मिथ्यात्वम्, तत्प्रदर्शितपदार्थषट्कस्य प्रमाणबाधितत्वात्। यतश्चतुसंख्य पृथिव्यादि द्रव्यं परमाणु रूपं यन्नित्यमुपवर्णितम् तदसंगतम् / एकान्ताक्षणिकत्वे क्रमयोगपद्यभावार्थक्रियाविरोधात्। तल्लक्षणं सत्त्वं ततो व्यावर्त्तते, ततश्चासत्त्वमेव तस्य। यदि च स्थलकार्यद्रव्यकारणभूतानामणूना तज्जनकैकस्वभावता तदा तत्कार्याणां सकृदेव सर्वेषामुत्पत्तिप्रसक्तिः , अविकलकारणत्वात्। तथा च प्रयोग:-येऽविकलकारणास्ते सकृदेवोत्पद्यन्ते, यथा समानोत्पादा बहवोऽड्कुराः, अविकलकारणाश्च परमाणुकार्यत्वेनाभिमता भावा इति स्वभावहेतुः / अविकलकारणस्याप्यनुत्पादे सर्वदा अनुत्पत्तिप्रसक्तिः, विशेषाभावादिति पर्याय बाधकं प्रमाणं स्यात्। एतत् समवाय्यसमवायिनिमित्तभेदात त्रिविध कारणम्। यत्र हि कार्य समवैति तत् समवायिकारणं, यथा व्यणुकस्याणुद्वयम्, यच कार्यकार्थसमवेत कार्य कारणैकार्थसमवेतं वा कार्यमुत्पादयति तदसमवायिकारणं, यथा पटावयविद्रव्याऽऽरम्भे तन्तुसंयोगः, पटसमये तद्पाऽऽद्यारम्भे पटोत्पादक तन्तुरूपाऽऽदि च। शेषं तूत्पादकं निमित्तकारणं, यथाऽदृष्टा55काशादि / तत्र संयोगाऽऽदेरपेक्षणीयस्यासन्निधेरविकलकारणत्वमसिद्धम्। असदेतत् संयोगाऽऽदिनाऽनाधेयातिशयत्वान्नित्यतया अणूनां तदपेक्षत्वायोगात् / न च तन्तुकारणाऽऽदीना कार्याणां सकृत्प्रादुर्भाव उपलभ्यतेतरमाद्विपर्ययः। तथा च प्रयोगये कर्मवत्कार्यहेतवस्तेऽनित्याः यथा क्रमवदडकुराऽऽदीनि, वर्तिकावीजावयवस्तथा, परमाणव इति स्वभावहेतुः / यद्यप्यविरुद्धकारणोक्त मणूनां नित्यत्वसाधकं प्रमाण परमाणूत्पादकाऽभिमतकारणं सधर्मोपेतं न भवति, सत्त्वप्रतिपादकप्रमाणाविषयत्वात् शश श्रृङ्गवदिति, तत्र कुविदाऽऽदेग्णूत्पादककारणस्य सत्त्वप्रतिपादकप्रमाणविषयत्वाद्दसिद्धो हेतुः / यथा च पटाऽऽदयः परमाण्वात्मकाः कुविन्दोत्पाद्यान्तथा प्रदर्शयिष्यामः / देशकालस्यभावविप्रकृष्टानां च भावानां सदुपलम्भकप्रमाणातिवृत्तावपि सत्त्वाविरोधात् अनैकान्तिकश्व हेतुः, ततो नाण्वनित्यत्वप्रसाधकाऽनुमानप्रतिज्ञाया अनुमानबाधाः न च यत एव प्रमाणात्परमाणवः प्रसिद्धास्तत एव नित्यत्वधर्मोपेता अपि त इति तद्ग्राहकप्रमाणबाधितत्वात्तदनित्यत्वप्रसाधकानुमान स्यानुत्थानं प्रमाणतोऽप्रसिद्धौ चाणूनामाश्रयासिद्धतया तदिति वाच्यं. सर्वस्य प्रमाणविषयस्यानित्यत्वधर्मोपेतस्यैव तद्विषयत्वात्, अन्यथाभूतस्य तज्जनकत्वेन तद्विषयत्वानुपपत्तेः नाकारण विषय इति प्रसाधितत्वात् / नित्यस्य चाकारणत्वान्न चतुःसंख्यं परमाण्वात्मकं नित्यद्रव्यं सम्भवति, नाऽपि तदारब्धमवयवि द्रव्यं सम्भवति, गुणावयवव्यतिरिक्तस्य तस्यानुपलम्भात् / न हि शुक्ला दिगुणेभ्यस्तन्त्वाद्यवयवेभ्यश्चार्थान्तरभूतपटाऽऽदि द्रव्यं चक्षुरादिज्ञाने अवभासते, न चावयविनो व्यणुकाऽऽदेरनुपलम्भे परमाणूनां विविक्तस्वरूपाणामुपलम्भाविषयत्वात् प्रतिभासाभावप्रसक्तेराश्रयासिद्धतयाऽवयव्यादिनिषेधक प्रसङ्ग साधनप्रयोगाऽनुपपत्तिरिति वक्तव्यम्, परमाणूनामेव विशिष्टाऽऽकारतयोत्पन्नानां प्रतिभासविषयतयाऽऽश्रयासिद्धताऽऽद्यनुपपत्तेन प्रयोगानुपप