________________ पयडत्थ 504 - अभिधानराजेन्द्रः - भाग 5 पयत्थ पयडत्थ त्रि० (प्रकटार्थ) स्फुटाभिधेये पञ्चा०१८ विव०। पयडहरिभद्दसूरिवय न० (प्रकटहरिभद्रसूरिवचन) प्रकटार्थहरिभद्राभिधानाऽऽचार्यभणने, जी०१३ प्रति०। पयडि स्त्री० (प्रकृति) भेदे, विशे०। पं०सं० / यथा कर्मणः ज्ञानाऽऽवरणीयाऽऽदयः, तेषां मतिज्ञानाऽऽवरणाऽऽदयश्च प्रज्ञा० 23 पद। आ० म० / कर्मणां ज्ञानाऽऽवरकत्वाऽऽदिलक्षणे स्वभावे, पं०सं०५ द्वार। पयडिणिक्खेव पुं० (प्रकृतिनिक्षेप) मूलप्रकृत्यादिरूपे कर्मणि, उत्त० 33 अ०। पयडिभेय पुं० (प्रकृतिभेद) ज्ञानाऽऽवरणाऽऽदीनां भेदेषु, कर्म०५ कर्म०। पयड्डअ त्रि० (प्रकर्षक) प्रवर्तक, प्रश्न०१ आश्र० द्वार। पयण न० (पचन) पाके, प्रभ०१ आश्र० द्वार। आहाराऽऽदिपाके, उत्त० 12 अ० / आहारनिष्पादने, उत्त० 12 अ० / भक्तस्येव शरीरस्य वचनरूपे दण्डे, प्रश्न०१ आश्र० द्वार। अधिकरणे ल्युट् / कडिलकाऽऽकृतिभाण्डे, सूत्र०१ श्रु०५ अ०१ उ०। पयणसाला स्त्री० (पचनशाला) पाकस्थाने, यत्र पाकस्थाने वर्षासु भाजनानि पच्यन्ते बृ० 2 उ०। पयणु त्रि० (प्रतनु) अल्पे, पं० चू०२ कल्प। अतिमन्दीभूते, "पयणुकोहमाणमायामोहा'' प्रतनवः अतिमन्दीभूता क्रोधमानमायालोभा येषां ते तथा। ज०२ वक्षः। ''पयणुएमससोणिए'' भ० 3 श० 4 उ० / पयत त्रि० (प्रयत) प्रकृष्टसंयमयुक्ते, स्था० 4 ठा० 3 उ०। प्रयत्नवति प्रमादरहिते, ज्ञा०१ श्रु०१ अ०। भ०। पयत्त पुं० (प्रयत्न) प्रयतनं प्रयत्नः, सर्वेष्वपि विहितानुष्ठानेष्वप्रमादे, विशे० / आदरे, जी०१ प्रति० / पाइ० ना० / समुद्यमे, पञ्चा० 16 विव०। ताल्यादिव्यापारविषये यत्ने, विशे० / सम्यक्त्वव्रतग्रहणोत्तरकाल तदनुस्मरणाऽऽदौ अन्त०१ श्रु०८ वर्ग 1 अ०। * प्रात्त त्रि० प्रगृहीते, "पयत्तेणं पाहिएणं कल्लाणेण।' अन्त०१श्रु०८ वर्ग 1 अ०। * प्रदत्त त्रि० गुरुभिरनुज्ञाते, अणु०३ वर्ग 1 अ०। पयत्तकड त्रि० (प्रयत्नकृत) प्रयत्नपूर्वके निष्पादिते, "सावज्जकडे त्ति वा पयत्तकडे त्ति वा भद्दयं भद्दए त्ति वा ऊसढ ऊसढे ति वा रासेयं रसिए त्ति वा माणुण्ण मणुण्णे ति वा तहप्पगारं भासं असाजवंजाव भासेजा।" आचा०२ श्रु०१चू० 4 अ०२ उ०। पयत्तपक्क त्रि० (प्रयत्नपक्व) यत्नपूर्वकपक्के, "पयत्तपक्कं तिय एक्कगालवे, पयत्तछिन्नं ति य छिन्नमालवे / " (42 गाथा) दश०७ अ०। पयत्थ पुं० (पदार्थ) 6 त० / पदबोध्येऽर्थे विशे०। भावे, "भावो वत्थु पयत्थो।" पाइ० ना०१५५ गाथा। फ्ययन परबोहहिओ वऽत्थो, किरियाकारगविहाणओ वच्चो। पज्जायवयणओ विय, तह भूयत्थाभिहाणेणं // 1004 / / पच्चक्खओऽहवा सो-ऽणुमाणओ लेसओ च सुत्तस्स। बच्चो व जहासंभव-मागमओ हेउओ चेव / / 1005|| तृतीयं तु व्याख्यानाङ्गं पदार्थः / स च कारकवाच्याऽऽदिभेदाच्चतुर्विधः / तत्र कारकेणाच्यत इति कारकवाच्यः, कारकविषय इत्यर्थः / यथा- 'पवतीति पाचकः' इत्यादि। समासेनोच्यतेसमासवाच्यः, 'राज्ञः पुरुषो राजपुरुषः' इत्यादि / तद्धितेनोच्यते तद्धितवाच्यः, वसुदेवस्यापत्यं वासुदेव इत्यादि / निरुक्तेनोच्यते निरुक्तवाच्यः-भ्रमति च रोति च भ्रमरः' इत्यादि। तदेव पदार्थस्य चातुर्विध्यमुक्तम्।।१००३।। अथ प्रकारान्तरेण त्रिविधोऽप्येष सम्भवतीति दर्शयति-(परबोहेत्यादि) वा इत्यथवा, परेषां श्रोतृणां बोधः परबोधः तत्र कर्तव्ये हितो योऽर्थः पदार्थः, स त्रिविधोऽपि वाच्यः / तद्यथा-क्रियाकारकविधानतः पर्यायवचनतः भूतार्थाऽभिधानेन च। तत्र क्रियाकारकभेदेन यथा घट' चेष्टायाम्, घटतेऽसाविति घटः। पर्यायवचनैर्यथाघटः, कुटः, कुम्भः, कलश इत्यादि। भूतः सद्भूतो यथावस्थितोऽर्थस्तदभिधानतस्तत्प्ररूपणेन च पदार्थो वाच्या तद्यथा यऊर्द्धकुण्डलोष्ट आयतवृत्तग्रीवः पृथ्बुध्नोदरः स घट उच्यत इत्यादि। अथवा-पद र्थः सूत्रस्यार्थस्विविधो वाच्यः / तद्यथा-प्रत्यक्षतः, अनुमानतः, लेशतश्च / अत्र प्रत्यक्षेणैव यादृशं पुस्तकाऽऽदिलिखितमुपलभ्यते, गुरुमुखादा यादृशं श्रूयते, तादृशमेव साक्षाद्यत्र प्ररूप्यते, स प्रत्यक्षत पदार्थ उच्यते / यथा-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति गुरुमुखाऽऽदेः श्रवणाऽऽदिप्रत्यक्षेणोपलभ्य सम्यग्दर्शनाऽऽदीनां मोक्षमार्गत्वं प्ररूपयति / अनुमानं त्विहार्थाऽऽपत्तिरूपं गृह्यते, तस्यामप्यन्यथा नुपपन्नार्थादतीन्द्रियस्य साध्यार्थस्याऽनुमीयमानत्वात् / तत्र प्रत्यक्षोपलब्ध एवार्थोऽयमापत्तिलब्धमर्थ कथयति सो नुमानतः पदार्थ उच्यते, यथा कथयन्ति मिथ्यादर्शनाऽऽदीन् पुनर्मोक्षमार्गो न भवतीत्यर्थादव गम्यत इति। तथालेशतः पदार्थो भवति; तत्र- 'लिश' श्लेषणे, लेशः श्लेषः। श्लिष्टं समस्तमिति यावत्। तन्निद्देशात् पदार्थो गम्यते / यथा- सम्यग्दर्शनज्ञानधारित्राणि इति त्रयाणामपि समस्तानां निर्देशात्समुदितानामेव मोक्षमार्गत्व, नैकैकश इति गम्यते। ततोऽसौ लेशेन श्लेषेण सूवितो लेशतः पदार्थोऽभिधीयते तदेवं प्रकारान्तरेणाऽप्युक्तस्त्रिविधः पदार्थः / अथवा यथासम्भवमागमतो, हेतुतश्च द्विविधः पदार्थो वाच्यः तत्र भव्याऽभव्यनिगोदाऽऽदिप्रतिपादकपदानामागमत आज्ञामात्रेणैवार्थः प्रतिपाद्यते / न हि भव्याऽभव्याऽऽदिभावप्ररूपणे आगमं विहाय प्रायः प्रमाणान्तरं प्रवर्तते / अतो यमागमतः पदार्थ उच्यते! यत्र च हेतुः सम्भवति, तत्र हेतुतः पदार्थोऽभिधीयते। यथा-कायप्रमाण आत्मा, न सर्वगतः, कर्तृत्वात्, कुलालाऽऽदिवत्, इत्यादि / ननु मूर्त आत्मा कर्तृत्वात्कुलालाऽऽदिवत्, इत्येवं मूर्तिमत्त्वमप्यात्मनोऽनेन हेतुना सिद्ध्यतीति चेत् / सत्यम् इष्यते एव संसार्यात्मनो मूर्तरवमपीति न कि शिनः सूयते / इति हेतुतोऽयं पदार्थोऽभिधीयते / तदनेन "आणगिज्झो अत्थो, आणाए चेव सो कहेयव्यो। दिट्ठतिओं दिट्ठता कहणविहिविराहणा इहरा" ||1|| इत्ययमर्थः समर्थितो भवतीति / तदेवमुक्तो विरतरतः पदार्थः / / 1003 / 1004 / 1005 / / विशे० / द्रव्याऽऽदि चतुर्धा।