________________ पमेज्जरयणमंजूसा 466 - अभिधानराजेन्द्रः - भाग 5 पमेज्जरयणमंजूसा न्त्यमगल तु 'समणे भगवं महावीरे मिहिलाए णगरीए।' इत्यादिनिगमनसूत्रे श्रीमहावीरनामग्रहणमिति / तस्यैव शिष्यप्रशिष्याssदिपरम्परया अव्यवच्छेदार्थम, नन्विदं सम्यग्ज्ञानरूपत्वेन निर्जररार्थत्वात्, अथवा- "जो जं पसत्थमत्थं, पुच्छइतस्सऽत्थसंपत्ती।" इति निमित्तशास्त्रे द्वीपसमुद्राभिधानग्रहणस्य परममङ्गलत्वेन निवेदनादस्य द्वीपप्ररूपणाऽऽत्मकत्वात् स्वयमेव सर्वाऽऽत्मना मङ्गलं, कि मङ्गलान्तरोपन्यासेन?अनवस्थाप्रसङ्गात्, मैवम् / मङ्गलतया हि परिगृहीतं शास्त्र मङ्गलमिति व्यवह्रियते, फलदं च भवति साधुवत्, अन्यथोपहासनमस्कराऽऽदेरपि मङ्गलत्वं स्यात् / न हि लोकेऽपि स्वरूपसतां दधिर्वाऽऽदीनां द्रव्यमङ्गलत्वं, किं तु मङ्गलाभिप्रायेण प्रयुक्तानाम् / अन्यथा तद्विषकदर्शनस्पर्शवाऽऽदीनां निर्मूलकताऽऽपातात्। इहाऽस्य शास्त्रस्य फलाऽऽदि निरूपित, तदनुयोगस्य द्रष्टव्यम्, तयोःकश्चिद् मेदा-दिति।।३।। अर्थदानी समुदायार्थश्चिन्त्यतेतत्र समुदायः सामान्यतः शास्वसंग्रहणा पिण्डस्तद्रूपोऽर्थो वक्तव्यः / किमुक्तं भवति?- अवयवविभागनिरपेक्षतया शास्त्रगतप्रमेयं प्रकटनीयं, तच्च वर्द्धमानाऽऽदिवसयार्थनामतो भवति, तत्रैव समुदायार्थपरिसमाप्तौः, न तु पलाशाssदिवदयथार्थनामतः, डित्थाऽऽदिवदर्थशून्यनामतश्च, प्रस्तुते च जम्बूद्वीपप्रज्ञप्तिरिति नासः कः शब्दार्थः? इत्युच्यते-जम्ब्वा सुदर्शनापरनाम्त्याऽनादृतदेवाऽऽवासभूतयोपलक्षितो द्वीपो जम्बूद्वीपः (जं०) (अतोऽग्रे 'जंबूद्वी-पण्णत्ति' शब्द चतुर्थभागे 1376 पृष्ठे उक्तम् ) अथवा जम्बूद्वीप प्रान्ति पूरयन्ति स्वस्थित्येति जम्बूद्वीपप्राः जगतीवर्षवर्षधराऽऽद्याः, तेषां ज्ञप्तिर्थस्याः सकाशात् सा जम्बूद्वीप्रज्ञाप्तिरिति सान्वर्थशास्त्रनामप्रतिपादनेन जम्बूद्वीपप्रज्ञप्तयाः पिण्डार्थो दर्शितः; अत एवभिधेयशून्यतामाकलयन्तः शान्ता अत्र प्रवृत्तौ मा मन्दायन्तामित्यभिधेयसु चाऽपि कृ तैव / नामनिक्षेपचिन्ता तु द्वितीयानुयोगयोजनायां करिष्यत इति समुदायार्थः / / 4 / / जं०१वक्ष० / इति साऽतिशयधर्मदेशनारससमुल्लाससविस्मयमानऐदंयुगीननराधिपतिचक्रवर्तिसमान श्री अकब्बरसुरत्राणप्रदतषाण्मासिकसर्वत्रजाताऽनयप्रदानशत्रुञ्जया-- ऽऽरिकमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानापमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ रत्नमञ्जूषानाम्त्यां ज्योतिकाऽधिकारवर्णनो नाम सप्तमो वक्षस्कारः समाप्तः तत्समाप्तौ च समाप्तेयं श्रीजम्बूद्वीपप्रज्ञप्त्युपाङ्ग वृत्तिः। "श्रेयःश्रीप्रतिभूप्रभूततपसा यो मोहराजं रिपुं. दध्वंसे सहसाऽऽश्रितो गतमलज्ञानं च यः केवलम्। यो जुष्टश्च सदा त्रिविष्टपसदोवृन्दैस्तथा तथ्यवाक्, यस्तीर्थाऽधिपतिःश्रियं स ददता श्रीवीरदेवः सताम्।।१।। अर्हत्स्विवात्र निखिलेषु गणाधिपेषु, नाभेयदेव इव यो विदितो जगत्याम्। आदेयनाम दधदद्भुतलब्धिधाम्, श्रीगौतमोऽस्तु मम पूरितसिद्धिकामः // 2 // यं पञ्चमं प्रथमतोऽपि रतोपयेमे, श्रीवीर-पट्ट-पट्ट-लक्ष्मि-सरोरुहाक्षी। रूद्राऽङ्कितेषु गणभृत्सु सुधर्मनामा, भूयादयं सुभगतानिधिरिष्टसिध्यै / / 3 / / तस्य प्रभोः स्थविरवृन्दपरम्पराया, तत्तोल्लसत्कुलगणाऽवलिसम्भवायाम् / जातः क्रमाद्बटगणेन्द्रतपस्विसूरेः, श्रीमास्तपागण इति प्रथितः पृथिव्याम्॥४॥ पद्मावतीवचनतोऽभ्युदयं विभाव्य, यत्सूरिसंस्तवनरसप्तशती स्वकीयाम्। सूरिर्जिनप्रभ उपप्रदे (?) प्रथायै, सोऽयं सता तपगणो न कथं प्रशस्यः? / / 5 / / तत्राऽनेके बभूवुः सुविहितगुरवः श्रीजगचन्द्रमुख्याः , दोषायां वा दिवा वा सदसि रहसि वा स्वक्रियास्वेकभाषाः / आदिक्रोडैरिवोर्वी वृजिनभरगता दुःप्रमादावमग्ना, यैरूद्दध्र वितन्दैः स्वपरहिउकृते सत्क्रियासत्क्रियाऽर्हाः / / 6 / / अदुष्यं वैदुष्यचरणगुणवैदुष्यसहित, प्रमादाद्वैमुख्यं प्रवचनविधेः सत्कथकता। गुणोघो यस्येत्थ न खलुखलदुर्वाक्यविषयः, क्रमादासीदस्मिन् परमगुरुरानन्दविमलः / / 7 / / अन्तर्बाह्यमिति द्विधाऽपि कुमतं श्रद्धावता स्वागतं, निःश्रद्धस्तु यथाशयप्रकटितं विध्वस्यतेऽस्य प्रभोः। बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा, ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः संरक्ष्यतेऽधस्तमः।।८।। स्वगच्छे स्वस्मिश्च प्रथयतितरां स्म प्रथमतस्तथा साधोश्चर्या ध्रुवसमय एव प्रस्तुतरसे। यथा सैतत्पट्टाऽधिपतिपुरुषे संयतगणे, क्रमादुर्वी गुर्वी प्रजनितयशस्का तु ववृते (?) IEL तत्पदृ-भूषणमणिः सुगुरूप्तधर्मवीज-प्रवर्द्धन-पटुर्भरतक्षमायाः। सूरीश्वरो विजयदानगुरुर्बभूव, के वादिनो विजयदा न बभूवुरस्य / / 10 / / नालीकनीर-निधि-निर्जर-सिन्धु-सेवा, चक्रुश्चतुर्भुज-चतुर्मुखचन्द्रचूडाः। यस्य प्रताप-परिताप-भृतो न भीता एते जडाऽऽश्रयिण इत्यपवादतोऽपि।।११।। तत्पदं गुरुवर्यहीरविजयो विभ्राजयामासिवान्, जाग्रद्धाग्यनिधिः प्रियाऽऽगमविधिश्चारित्रिणां चाऽवधिः / यं संप्राप्य जगत्त्रयैकसुभग मुक्तो मिथो मत्सरः, श्रीवाग्भ्यामिव दीर्घकालजनितो ज्ञानक्रियाभ्यामपि / / 12 / / सौभाग्यं यस्य नाम्नो नपसदसि गुणिष्वादितायां प्रसिद्धः, सौभाग्यं देशनाया अकबरनृपतिः पादयोः पादुकाऽर्चाः / सौभाग्यं यस्य पाणेरूपपदविजयः सेनसूरीश्वरोऽसौ सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः / / 13 / / इदानीं तत्पट्टे गुरु-विजयसेनो विजयते, कलौ काले मूर्तः सुविहितजनाऽऽचारनिचयः। विरेजे राजन्वान् शशधरगणो येन विभुना, गुणग्रामो यस्माद् भवति विनयेनैव सुभगः।।१४।। खलास्तेजोराशिं चरणगुण-राशिं सुविहिताः, विनेयाश्चिद्राशिं प्रतिवचन-राशिं कुमतिनः। कविः कीर्ते राशिं वर-विनय-राशिं च गुरुवो, विदुः स्थाने जाने शुचिसुकृतराशिं पुनरमुम्॥१५|| गुरोरस्य श्रुत्वा श्रवणमधुरं चारूचरितं,