________________ पमेज्जरयणमंजूसा 468 - अभिधानराजेन्द्रः - भाग 5 पमेज्जरयणमंजूसा स्तानुयोगार्पितसिद्धिकं संजायत इति कल्पितार्थकल्पनकल्पद्रुमाणयुगप्रधानसमानसंप्रतिविजयमानगच्छनायकपरमगुरूश्रीहीरहविचयसूरीश्वरनिदेशेन कोशाध्यक्षाऽऽज्ञया प्रेष्येणेव उन्मुद्रणमिव मया तदनुयोगः प्रारभ्यते / स च चतुर्द्धधर्मकथानुयोग उत्तराध्ययनाऽऽदिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि, सम्मत्यादिकश्च, चरणकरणानुयागश्चाऽऽचाराङ्गाऽऽदिकः / प्रस्तुतशास्त्रस्य क्षेत्रप्ररूपणाऽऽत्मकत्वात्, तस्याश्च गणितसाध्यत्वाद् गणितानुयोगेsन्तर्भावः। नन्वेवं चरणकरणाऽऽत्मकाऽऽवाराऽऽदिशास्त्राणामिव नाऽस्य मुक्त्यङ्गता / साक्षात् मोक्षमार्गभूतरत्नत्रयानुपदेशकत्वात्, इति चेन्न। साक्षादुपदेशकत्वाभावेऽपि तदुपकारितया शेषाणामपि त्रयाणामनुयोगानां मुक्त्यङ्गत्वाविरोधात्। तथा चोक्तम्"चरणपडिवत्तिहेऊ, धम्मकहा काले दिक्खाणदीया। दविए दसणसोही, दंसणसुद्धस्स चरणं तु॥१॥" अत्र व्याख्या-अत्रवृत्तावतिदेशोक्तसंमत्युक्त्यन्थयोर्दुर्गमपद-व्याख्याने अपरिसमाप्तिरत्र व्याख्या इति संकेतो बोध्यः / चरणप्रतिपत्तिहेतुर्धर्मकथाऽनुयोगः, काले गणितानुयोगे दीक्षाऽऽदीनि व्रत्तानि, कोऽर्थः?शुद्धगणितसिद्ध प्रशस्ते काले गृहीतानि प्रशस्तफलानि स्युः, कालश्च ज्योतिश्चराधीनः, स च जम्बूद्वीपाऽऽदिक्षेत्राधीनव्यवस्थाः, तेनायं कालापरपर्यायो गणितानुयोग इति। द्रव्ये द्रव्यानुयोगशुद्ध दर्शनशुद्धिभवति / कोऽर्थः ?-धर्मास्तिकायाऽऽदिद्रव्याणां द्रव्यानुयोगतः सिद्धौ सत्यां तदास्तिक्ये प्रतिपन्ने दर्शनशुद्धिर्भवतीति, दर्शनशुद्धस्य चरणानुयोगो भवति। इह यद्यपि श्रीमलयगिरिपादानां व परकृताऽऽक्षेपपरिहारप्रभविष्णु वचनरचनाचातुर्थ क्व च तथाविधसंप्रदायसाचिव्यं, क्व च तत्तन्निबन्धबन्धुरतानैपुण्यं, क्व कुश ग्रसमः प्रतिभाविभवश्व, क्व च मे तत्तत्पूर्वपक्षोन्तरप्रक्षरचनास्वकुशलत्वं, क्व च तादृक्संप्रदायराहित्य, क्व चाऽकठोरग्रन्थग्रगन्थनकर्मण्यकर्मठत्वं, क्व च मुशलागमतित्वमिति महति हेतिसंहतिविभेदे राभसिकी प्रवृत्तिरिव महती वृत्तिः करटिकठिनकुम्भकुण्ठनजहठग्रह इत्युपहासपात्रतामात्रफलतया चन्द्राऽऽकर्षकमगेन्द्रानुयायिता शृगालस्येव ममानौचितीमञ्चति, तथाऽपि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणेव महता प्रत्यनेन प्रायस्तत्तत्प्राचीनजीवाभिगमाऽऽदिवृत्तिषु दृष्ट नामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्वाख्यानरूपमेवेदं व्याख्यान विधीयत इति नानौचितीले शोऽयाति सर्व सुस्थम् / इति शास्त्रप्रस्तावना, तस्य चानुयोगस्य फलाऽऽदिद्वारप्ररूपणतः प्रवृत्तिर्भवति / यत उक्तम् "तस्स फलजोगमंगल-समुदायत्था तहेव दाराई / तब्भेयनिरूतक्कमपओयणाइं च वच्चाई / / 1 // " इति / तत्र प्रेक्षावतां प्रवृत्तये तस्यानुयोगस्य फलमवश्यं वाच्यम्। अन्यथाऽस्य निष्फलत्वमा-कलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामर्दन इव नाऽत्र प्रवत्तेरनिति / तच द्विधा-कर्तु, श्रोतुश्च / एकैकमपि द्विधा-अनन्तरं, परम्परं च। तत्र कतुरनन्तरं द्वीपसमुद्राऽऽदिसंस्थान-परिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया यथासंभवं संस्मरणात् स्वाऽऽत्मनः सुखेनैव विचयाभिधानधर्मध्यानसमवाप्तिर्मन्दमेधसामनुग्रहश्च, श्रोतुः पुनर्जम्बूद्वीपवर्तिपदार्थपरिज्ञानम्, परम्परं तुद्वयोरपि मुक्त्यवाप्तिः। यदाह"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम्। करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् // 1 // " तथा"सम्यग भावपरिज्ञाना-द्विरक्ता भवतो जना:। क्रियाऽऽसक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् / / 1 / / " तथा योगः संबन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तःप्रवर्त्तन्त इति / सद्विधा-उपयोपेयभावलक्षणो, गुरुपर्वक्रमलक्षणश्च / तत्राऽऽद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायोऽर्थावगमाऽऽदि चोपेयम् / स च फलाभिधानादेवाऽभिहितः। अन्यश्च केवलश्रद्धाऽनुसारिणः प्रति, स चैवमर्थतो भगवता बर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरूपता, सूत्रतो गणधरैदशाङ्गयामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशयश्रुतधारिभिः षष्ठादगादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता। अमुमेव च संबन्धमनुविचिन्त्य सूत्रकृ दुपोद्धातमाधास्यति / अथवा शास्त्रकर्तुः प्रामाण्ये शास्त्राप्रामाण्यमिलि आद्यसंबन्धस्यैव प्रामाण्यग्रहार्थमपरसंबन्धनिरूपणम्। न हि विदितपरमतत्त्वाः सत्त्वानुग्रहैकप्रवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भाषन्ते, भगवत्ताभङ्गादिति / अथवा-योगोऽवसरः, ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसरः?, इत्युच्यते, उपाङ्गस्याङ्गार्थानुवादकतयाङ्गस्य सामीप्येन वर्त्तनाद्य एवैतदीयाङ्गस्याऽवसरः स एवाऽस्यापीति तत्राऽवसरसूचिका इमा गाथा:"तिवरिसपरियायस्स उ, आयारपकप्पनाममज्झयणं / चउवरिसस्स य सम्मं, सूअगडं नाम अंग ति॥१॥ दस कप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव। ठाणं समवाओ विय, अंगेते अट्ठयासस्स।।२।। दसवासस्स विवाहो, एगारसवासगस्स य इमे उ। खुड्डियविमाणमाई, अज्झयणा पंच नायव्या / / 3 / / वारसवासस्स तहा,अरूणोवायाइपंच अज्झयणा / तेरसवासस्स तहा, उट्ठाणसुयाइया चउरो॥४॥ चउदसवासस्स तहा, आसीविसभावणं जिणा विति। पण्णरसवासगस्स य, दिट्ठीविसभावणं पुणो तह य॥५॥ सोलसवासाईसुय, एगुत्तरवुट्टिएसुजहसंखं। चारणभावणमह सुवि-णभावणा तेअगनिसग्गा / / 6 / / एगूणवीसगरस उ, दिट्ठीवाओ दुवालसं अंग। सपुण्णवीसवरिसो, अणुवाई सव्वसुत्तस्स // 7 // '' इति। अत्र पञ्चवस्तुकसूत्रे दशवर्षपर्यायस्य साधोः भगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्ग तया ज्ञाताधर्मकथाङ्ग स्य प्रदाने तदनन्तरमवसरः, कारणविशेषे गुर्वाज्ञावशाद गपि, ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसर इति संभाव्यते, योगविधानसामाचामिपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वादिति / तथेदमुपाङ्गमपि प्रायः सकलजम्बूद्वीपवर्तिपदा नुशासनाच्छास्त्रं, तस्य च सम्यगज्ञानद्वारा परमपदप्रापकत्वेन श्रेयोभूतता, अतो मा भूदव विघ्र इति तदपोहाय मङ्गलमुपदर्शनीयम्। यतः- "बहुविग्घाई सेयाइँ तेण कयमंगलोवयारेहिं / घेत्तव्वो सो सुमहा-निहि व्व जह वा महाविज्जा / / 1 / / '' इति / तच त्रिविधमादिमध्यावसानभेदात् / तत्राऽऽदिमङ्गलम्-"णमो अरिहंताणं" इत्यविघ्नतया शास्त्रस्य परिसमाप्त्यर्थम् / मध्यमङ्गलम् - "जया णं एक्कमेक्के चक्कवट्टिविजए भगवंतो तित्थगरा समुप्पज्जंति।'' इति तस्यैव स्थैर्यायः, अस्य च द्वितीयाधिकाराऽऽदिसूत्रस्य त्रिभुवनोत्सवभूतजिनजन्मकल्याणकसूत्रकत्वेन परममगलत्वात् / अ