________________ पमायट्ठाण 465 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण वा, सुखैषितायां हि दुःखपरिहाराय विषयसेवनाऽऽदिप्रयोजनसम्भव इति भावः / कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीन एव स्याद् ? अत्रोच्यते- 'तत्प्रत्यय्' उक्त रूपप्रयोजननिमित्तं, पाठान्तरतः-तत्प्रत्ययादुद्यच्छति, चशब्द स्यैवकारार्थत्वादुद्यच्छत्येव, कोऽर्थः 1 तत्प्रवृत्तावुत्सहत एव, 'रागी' रागवान्, उपलक्षणत्वाद् द्वेषी च सन्, रागद्वेषयोरेव सकलानर्थ-परम्पराकारणत्वादिति सूत्रार्थः / / किमिति रागद्वेषक्त एव सकलाऽप्यनर्थ परम्परोच्यते ? इत्याशक्याऽऽहविरज्जमाणस्स य इंदियत्था, सद्दाइया तावइयप्पगारा। न तस्स सव्वे विमणुन्नयं वा, निव्वत्तयंती अमणुनय वा / / 106|| विरज्यमानस्येति, उपलक्षणत्वाद् द्विषतश्च, 'चः' पुनरर्थे , ततो विरज्यमानस्य द्विषतश्च पुनः, इन्द्रियार्थाः' शब्दाऽऽदिकाः। पाठान्तरतो / वर्णाऽऽदिका वा। तावन्त इति यावन्तो लोके प्रतीताः प्रकाराः खरमधुराऽऽदिभेदा येषां ते तावत्प्रकाराः, बहुप्रभेदा इत्यर्थः / न 'तस्य' इति मनुजस्य 'सर्वेऽपि समस्ता अपि, मनोज्ञता वा 'निर्वयस्ति' जनयन्त्यमनोझतां वा निर्वर्त्तयन्ति। किन्तु रागद्वेषवत् एव स्वरूपेण हि रूपाऽऽदयो न मनाज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः, किंतु रक्तरप्रतिपत्रध्यवसायबज्ञात् / उच्यते चान्यैरपि-''परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ / कुणपं कामिनी भक्ष्यामिति तिस्त्रो विकल्पनाः॥१॥ ततो वीतरागस्य तन्निर्वर्तनहेत्वभावात् कथममी मनोज्ञतामनोज्ञतां वा निर्वतयेयुः ? इति पूर्व सति मनोज्ञत्वेऽमनोज्ञत्वे च समस्य रूपाऽऽदीनाकिञ्चित्करत्वमुक्तम्, इह तु मनोज्ञत्वामनोज्ञत्वे अपितादृशस्य न भवत एवेत्युच्यत इतिपूर्वस्माद्विशेष इति सूत्रगर्भाथः। तदेवं यदा 'जे जे उपाया पंडिवज्जियव्वा'' इति प्रतिज्ञा तदा रागद्वेषयोर्मोहस्य च परस्पराऽऽयतनत्वेऽपि रागद्वेषयोरतिदुष्टत्वात्साक्षात् मोहस्य च तदायतनत्वात्तद्वारेणोद्धरणोपादान् प्रतिपत्तव्यान्निरूप्य, यदा तु"जे जे अवाया परिवज्जिया" इति पाठः तदा रसनिषेवणाऽऽदीनपायानुक्तन्यायतोऽभिधायोपसंहरन्नाह एवं ससंकप्पविकप्पणासु, संजायई समयमुवट्ठियस्स। अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ||107 / / 'एवम्' उक्तप्रकारेण, स्वस्य-आत्मनः, सङ्कल्पाः-प्रक्रमाद्रागद्वेषमोहरूपाध्यवसायाः, तेषां विकल्पनाः-सकलदोषमूलत्वाऽऽदिपरिभावनाः स्वसङ्कल्पविकल्पनाः तासूपस्थितस्य-उद्यतस्येति सम्बन्धः। किमित्याह 'संजायते' समुत्पद्यते, (समयं ति) आर्षत्वात् 'समता' माध्यस्थ्यम, अर्थान्-इन्द्रियार्थान्, रूपाऽऽदीश्वस्य भिन्नक्रमत्वात्, सङ्कल्पयतश्च यथा नैनवेऽपायहेतवः, किंतुरागाऽऽदय एवेत्युक्तनीत्या चिन्तयतः, यदि वा-समता-परस्परमध्यवसायतुल्यता, सा | चाऽनिवृत्तिबादरसम्परायगुणस्थान एव, एतत्प्रतिपत्तृणां हि बहूनामप्येकरूप एवाध्यवसाय इत्यनयैतदुपलक्ष्यते। तथा-'अर्थान् जीवाऽऽदीन 'सङ्कल्प-यतश्च' शुभध्यानविषयतयाऽध्यवस्यतः 'ततः' इति समतायाः (से) तस्य जन्तोः (साधोः) प्रहीयते' प्रकर्षण हानि याति, काऽसौ? 'कामगुणेषु' रूपाऽऽदिषु 'तृष्णा' अभिलाषो, लोभ इति बावत्। समतायां हि द्विविधायामपि प्राप्तायामुत्तरोत्तरगुणस्थानावाप्त्या क्षीयत एव लोभ इति। अथवा- 'एवम्' उक्तप्रकारेण, 'समकम्' एककालम्, 'उपस्थितस्य' उद्यतस्य, रागाऽऽद्युद्धरणोपायेष्विति प्रकमः। यदि वा- 'समयम्' एतदभिधायकम्, सिद्धान्तं प्रति इति शेषः। 'उपस्थितस्य तदुक्तार्थानुष्ठानोद्यतस्येत्यर्थः / किमित्याह-स्वसङ्कल्पानाम् आत्मसम्बन्धिनां रागाद्यध्यवसायानां, विकल्पनाविशेषेण छेदन स्वसङ्कल्पविकल्पना, दृश्यते हि छेदवाच्यपि कल्पशब्दः। यथोक्तम्-''सामर्थ्यवर्णनायां च, छेदने करणे तथा। औपम्ये चाऽधिवासे च, कल्पशब्दं विदुर्बुद्धाः / / 1 / / " (आसु ति) 'आशु' शीघ्रं संजायते भवति / पठन्ति- "ससंकप्पावकप्पणासो''त्ति / तथा "अत्थे असंकप्पयतो" ति। तत्र च स्वस्य.. आत्मनः संकल्पः अध्यवसायस्तस्य विकल्पारागाऽऽदयो भेदास्तेषां नाशः अभावः स्वसङ्कल्पविकल्पनाशः, तथा च को गुणः? इत्याह'अर्थान्' रूपाऽऽदीन् सङ्कल्पयतः रागाऽऽदिविषयतयाऽनध्यवस्यतः 'ततः' इति स्वसङ्कल्पवि-कल्पनातः स्वसंकल्पविकल्पनाशाद्धा (से) तस्य प्रहीयते कामगुणेषु तृष्णेति सूत्रार्थः। ततः स कीदृशः सन् किं विधत्ते ? इत्याहसो वीयरागो कयसव्वकियो, स्ववेइ नाणाऽऽवरणं खणेणं / तद्देव जं दंसणमावरेइ, जं चेतरायं पकरेइ कम्मं // 108|| 'सेः' इति हेतुतृष्णो 'वीतरागः' वितरागद्वेषो भवति,तृष्णा हि लोभः, तत्क्षये च क्षीणकषायगुणस्य नावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतर्वकृत्यः, प्राप्तप्रायत्वादनेन मुक्तेः। 'क्षपयति' क्षयं नयति 'ज्ञाना5ऽवरणं' वक्ष्यमाणस्वरूपं 'क्षणेन' समयेन, तथैव यद् 'दर्शन' चक्षुर्दर्शनाऽऽदि आवृणोति' स्थगयति. दर्शनाऽऽवरणमित्यर्थः, यच 'अन्तराय' दानाऽऽदिलब्धिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकमित्युक्तं भवति, स हि क्षपितमोहनीय-स्तीर्णमहासागर इव श्रमोपेतो विक्षम्यान्तर्मुहूर्त तद् द्विचरमसमये निद्राप्रचले देवगत्यादिनामप्रकृतीश्च क्षपयति, चरमसमये च ज्ञानाऽऽवरणादित्रयमिति सूत्रार्थः / ननु तत्क्षयाच कं गुणववाप्नोति ? इत्याहसव्वं तओ जाणइ पासई य, अमोहणो होइ निरंतराए। अणासवे झाणसमाहिजुत्तो, आउक्खए मुक्खगुवेइ सुद्धे / / 106 / / 'सर्व' निरवशेष, 'ततः' ज्ञानाऽऽवरणाऽऽदिक्षयात् 'जानाति' विशेषरू पतयाऽवगच्छति, पश्यति च सामान्यरूपतया, 'चः' समुच्चयार्थः, तत एतेन भेदविषयत्वात् समुचयस्य