________________ पमायट्ठाण 464 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण (न) नैव 'कामभोगाः' उक्तरूपाः, 'समता' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति, हेतुत्वेनेति, गम्यते / तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत् / न चाऽपि 'भोगाः' भुज्यमानतया सामान्येन शब्दाऽऽदयः 'विकृति' क्रोधाऽऽदिरूपाम्, इहापि हेतुत्वे-नोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात्। कोऽनयोस्तर्हि हेतुः ?इत्याहयः 'तत्प्रद्वेषी च' तेषु विषयेषु प्रद्वेषवान् ‘परिग्रही च' परिग्रहबुद्धिमान्, तेष्वेव रागीत्युक्तं भवति, स तेषु विषयेषु, मोहात्' रागद्वेषाऽऽत्भकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम्। उक्त हि पूर्व - सतारेव रागद्वेषयोरूदीरकत्वेन शब्दाऽऽदयो हेतवः इति। आह"समो य जो तेसु स वीयरागो" इत्यनेनैव गतार्थमेतत्, सत्य, तस्यैव त्वयं प्रपञ्चः। उक्तं हि-'त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चोच्यते।' इति सूत्रार्थः। किंस्वरूपा पुनरसौ विकृतिर्या रागद्वेषवशादुपैतीत्याहकोहं च माणं च तहेव मायं, लोभं दुगंछं अरई रइंच। हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे // 102 / / आवजई एवमणेग रूवे, एवंविहे कामगुणेसु सत्तो। अन्ने य एयप्पभवे विसेसे, कारूण्णदीणे हिरिमे वइस्सो // 103 / / क्रोधं च मानं च तथैव मायां लोभ-चतुष्टयमप्युक्तरूपं, 'जुगुप्सा' विचिकित्साम्, 'अरतिम्' अस्वास्थ्य, रतिं च विषयाऽऽसक्तिरूपा, 'हासं च' वक्त्रविकाशलक्षणं, "भयं' साध्वसं,शोकपुंस्त्रीवेदमिति समाहारनिर्देशः / ततः शोकप्रियविप्रयोज मनोदुःखाऽऽत्मकं. पुंवेदंस्त्रीविषयाभिलाषं, स्त्रीवेद-पुरूषाभिष्वङ्ग, (नपुंसवेयं ति) नपुंसकवेदम्उभयाभिलाष, 'विविधांश्च नानाविधान 'भावान्' हर्षविषादाऽऽदीनभिप्रायान् 'आपद्यते' प्राप्नोति, "एवम्' अमुना रागद्वेषवत्तालक्षणेन प्रकारेण 'अनेकरूपान्' बहुभेदाननन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन च 'एवंविधान्' उक्तप्रकारान्, विकारनिति गम्यते, कामगुणेषु' शब्दाऽऽदिषु 'सक्तः' अभिष्वङ्गवान्, उपलक्षणत्वाद् द्विष्टश्च, अन्याश्व 'एतत्प्रभवान' क्रोधाऽऽदिजनितान् विशेषान् परितापदुर्गतिपाताऽऽदीन, कीदृशः सन्? इत्याह-कारूण्याऽऽस्पदीभूतोदीनः कारूण्यदीनो, मध्यपदलोपीसमासः / अत्यन्तदीन इत्यर्थः / (हिरिमे त्ति) 'हीवान्' लज्जवान कोपाऽऽद्यापन्नो हि प्रीतिविनाशाऽऽदिकमिहैवानुभवन् परत्र च तद्विपाकमर्तिकटुकं विभावयन् प्राप्नोति, दैन्य लज्जां च भजते, तथा (वइस्स त्ति) आर्षत्वात् 'द्वेष्यः तत्तद्दोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति सूत्रद्वयार्थः / यतश्चैवं रागद्वेषावेव दुःखमूलमतः प्रकारान्तरेणाऽपि तयोरूद्धरणोपायाभिधानार्थं तद्विपर्यये दोषदर्शनार्थ चेदमाह कप्पन इच्छिज्ज सहायलिच्छू, पच्छाणुतावे य तवप्पभावं। एवं विकारे अमियप्पयारे, आवजई इंदियचोरवस्से।।१०।। कल्पते-स्वाध्यायाऽऽदिक्रियासु समर्थो भवतीति कल्पोयोग्यस्तम्, अपेर्गम्यमानत्वात्कल्पमपि, किं पुनरकल्पम्? शिष्याऽऽदीति गम्यते, 'नेच्छेत' नाभिलषेत् (सहायलिच्छु ति) विन्दोरलाक्षणिकत्वात् 'सहायं लिप्सुः' ममाऽसौ शरीरसंबाधनाऽऽदि साहाय्यं करिष्यतीत्यभिलाषुकःसन्, तथा पश्चादिति-प्रस्तावाद् व्रतस्य तपसो वाऽङ्गीकारादुत्तरकालमनुतापः-कि मेतावन्मया कष्टमङ्गीकृतमिति चित्तबाधाऽऽत्मको यस्य सतथाविधः चशब्दादन्यादृशश्च सम्भूतयतिवद् भवान्तरे भोगस्पृहयालुः, तपः प्रभावं, प्रक्रमान्नेच्छेद्, यथा न शक्यमङ्गीकृतं त्यक्त, परं यद्यस्य व्रतस्य तपसो वा फलमस्ति तत् एतस्मादिहैवामर्षांषध्यादिलब्धिरस्तु, तदन्यादृशापेक्षया तु भवान्तरे शक्र चक्रिविभूत्यादि भूयादिति किमेवं निषिध्यते ? इत्याह- 'एवम्' अमुना प्रकारेण, 'विकारान्' दोषान्, 'अमितप्रकारान्' अपरिमितभेदान् 'आपद्यते प्राप्रोति, इन्द्रियाणि चौरा इव धर्मसर्व स्वापहरणाद् इन्द्रिय-चौराः, तदश्यः-तदायत्तः। उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाववाञ्छारूपेण स्पर्शनाऽऽदीन्द्रियवश्यता अवश्यसंभाविनी, ततश्चोत्तरोत्तरविशेषानभिलषतः संयम प्रति चित्तविप्लुत्यवधावनाऽऽदिदोषा अपि सम्भवन्त्येवेति / एवं च बुवतोऽयमाशयः-तदनुग्रहबुद्ध्या कल्पं, पुष्टाऽऽलम्बनेन च तपःप्रभाव च वाञ्छतोऽपि न दोषः / अथवाकल्पमुक्तरूपं नेच्छेत्सहायलिप्सुं यदि कथञ्चनामी मम धर्मसहाया भवन्तीत्येवमभिलाषुकमपि, आस्तामन्यमिति भावः, जिनकल्पिकापेक्ष चैतत्, एतेन च रागस्य हेतुद्वयपरिहरणमुद्धरणोपाय उक्तः, उपलक्षणं चैतदीदृशामन्येषामपि रागहेतूनां च परिहारस्य,ततः सिद्धं द्वयोरप्युद्धरणोपायानां तद्विपर्यये च दोषाणामभिसन्धानमिति सूत्रार्थः / / अनन्तरं रागद्वेषोद्धरणोपायविपर्यये यो दोष उक्तस्तमेव दोषान्तरहेतुताऽभिधा नद्वारेण समर्थयितुमाहतओ से जायंति पओअणाई, निमजिउं मोहमहन्नवंसि। सुहेसिणो दुक्खविणोयणट्ठा, तप्पच्चया उज्जमए अरागी॥१०॥ 'ततः' इति विकाराऽऽपत्तेरनन्तरं (से) तस्य 'जायन्ते' उत्पद्यन्ते 'प्रयोजनानि' विषयसेवनप्राणिहिंसाऽऽदीनि, 'निमज्जित' इत्यन्तर्भावितण्यर्थत्वान्निमजयितुभिव निमज्जयितुं, प्रक्रमात्तमेव जन्तुं, मोहो महार्णव इवातिदुस्तरतया मोहमहार्णवस्तस्मिन् / किमुक्तं भवति ?थर्मोहमहार्णवनिमग्रइव जन्तुः क्रियते, सह्युत्पन्नविकारतया मूढएवाऽऽसीत्, विषयाऽऽसेवनाऽऽदिभिश्च प्रयोजनैः सुतरां मुह्यतीति। कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते? इत्याह-'सुखैषिणः' सुखाभिलषणशीलस्य 'दुःखविनोदार्थ दुःखपरिहारार्थं, पाठान्तरतोदुःखविमोचनार्थ