________________ पमायट्ठाण 463 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण चराचरे हिंसइऽणेगरूवे। चित्तेहिं ते परितावेइ बोले, पीलेइ अत्तट्ठ गुरु किलिट्टे ||2|| भावाणुवाएण परिग्गहेणं, उप्पायणे रक्खणसन्निओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे? ||3|| भावे अतित्ते य परिग्गहे य, सत्तोवसत्तो न उवेइ तुहूिँ। अतुट्ठिदोसेण दुही परस्स, लोभाऽऽविले आययई अदत्तं / / 14 / / तण्हाऽभिभूयस्स अदत्तहारिणो, भावे अतित्तस्स परिगहे य। मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से / / 65|| मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते। एव अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो / / 6 / / भावाणुरत्तस्स नरस्स एवं, कत्तो सुई होज कयाइ किंचि? तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तई जस्स कए ण दुक्खं ! 67|| एमेव भावम्मि गओ पओसं, उवेइ दुक्खोहपरेपराओ पदुट्ठचित्तो य चिणाइ कम्म, जं से पुणो होइ दुहं विवागे // 18 // भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण। न लिप्पई भवमझे वि संतो, जलेण वा पोक्खरिणीपलासं IEl नवरं 'श्रोत्रस्येति' श्रोत्रेन्द्रियस्य, शब्द्यत इति शब्दो-ध्वनिस्त, / 'मनोज्ञ' काकलीगीताऽऽदि, अमनोज्ञ' खरकर्कशाऽऽदि, तथा (हरिणभिय व्व मुद्धे त्ति) मृगः सर्वोऽपि पशुरूच्यते,यदुक्तम्- 'मृगशीर्षे हस्तिजातो, मृगः पशुकुरङ्गयोः।” इति। हरिणस्तु कुरङ्ग एवेति तेन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगः, 'मुग्धः' अन-भिज्ञः सन्, 'शब्दे गौरिगीताऽऽत्मकेऽतृप्तः-तदाकृष्टचित्ततया तत्रातृप्तिमान् / 'ध्राणस्य' इति / घ्राणेन्द्रियस्य, गन्ध्यते घ्रायत इति गन्धस्तं मनोज्ञ' सुरभिम्, 'अमनोज्ञम् असुरभिम्, तथौष-धयो-नागदमन्यादिकास्तासा गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः सन् (सप्पे विलाओ विव त्ति) इवशब्दस्य भिन्नक्रमत्वात्सर्प इव बिलान्निष्क्रामन्, स ह्यत्यन्तमियतया तद्वन्धं सोढुमशक्नुवन् विलान्निष्क्रामति 3 / 'जिह्वायाः जिलन्द्रियस्य, रस्यते आस्वद्यत इति रसस्तं 'मनोज्ञ' मधुराऽऽदि, 'अमनोज्ञ' कटुकाऽऽदि, तथा बडिश प्रान्तन्यस्ताऽऽमिषो लोहकीलकस्तेन विभिन्नकार्याविदारितशरीरो बडिशविभिन्नकायः, 'मत्स्यः' मीनो यथाऽऽमिषस्य मांसाऽऽदेकोंगः अभ्यवहारस्तत्र गृद्ध आमिषभोगगृद्धः / काय इह स्पर्शनेन्द्रियं, सर्वशरीरगतत्वख्यापनार्थ वाऽस्यैवमुक्तं, तस्य, स्पृश्यत इति स्पर्शस्तं 'मनोज्ञ मृदुप्रभृति, 'अमनोज्ञ' कर्कशाऽऽदि, शीतं शीतस्पर्शवजल-पानीयं, तत्रावसन्नः अवमनः शीतजलावसन्नो, ग्राहे:-जलवरविशेषैर्गृहीतः-कोडीकृतो ग्राहगृहीतो महीष इवारण्ये, वसती हि कदाचित्केनचिदुन्मोच्येतापीत्यरण्यग्रहणम् 5 / 'मनसः चेतसो भावः अभिप्रायः स चेह स्मृतिगोचरस्तं, 'ग्रहण' ग्राह्य वदन्तीन्द्रि याविषयत्वात्तस्या 'मनोज्ञ' मनोज्ञरूपाऽऽदिविषयम् 'अमनोज्ञ तद्विपरीतविषयम्। एवमुत्तरग्रन्थोऽपि भावविषयरूपाऽऽद्यपेक्षया व्याख्येयः। यद्वा स्वप्नकामदशाऽऽदिषु भावोपस्थापितोरूपाऽऽदिरपि भाव उक्तः,स मनसो ग्राह्यः, स्पप्रकामदशाऽऽदिषु हिमनस एव केवलस्य व्यापार इति। 'कामगुणेषु मनोज्ञरूपाऽऽदिषु 'गृद्धः' आसक्तः (करेणुमग्गावहिए व णागे इति) इवार्थस्य चस्य भिन्नक्रमत्वात् करेण्वा करिण्या, मार्गेणनिजपथेनापहृतः- आकृष्टः करेणुमार्गापहृतः, 'नाग इव' हस्तीव / स हि मदान्धोऽप्यदूरवर्तिनी करेणुमुपदर्थ्य तद्रूपाऽऽदिमोहितस्तन्मार्गानुगामितया च गृह्यते, संग्रामाऽऽदिषु च प्रवेश्यते, तथा च विनाशमानोतीति दृष्टान्तत्वेनोक्तः। आह-एवं चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्याऽत्र दृष्टान्तत्वेनाभिधानम् ? उच्यते, एवमेतत् मनः प्रधान्यविवक्षया त्वेतन्नेयम्। यदिवा-तथाविधकामदशाया चक्षुरादीन्द्रियव्यापाराभावेऽपि मनसः प्रवृत्तिरिति न दोषः इह चानानुपृव्येपि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यास इत्यष्टसप्तातसूत्रावयवार्थः / उक्तमेवार्थसड्क्षेपत उपसंहारय्याजेनाऽऽहएविंदियत्था य मणस्स अन्था, दुक्खस्स हेउं मणुयस्स रागिणो। ते चेव थोवं पि कयाइ दुक्खं, नवीयरागस्स करिति किंचि||१००|| एवम् उक्तन्यायेन, इन्द्रियाथौः चक्षुरादिविषया रूपाऽऽदयः, चशब्दो भिन्नक्रमः। ततो मनसोऽर्थाश्च-उक्तरूपाः, उपलक्षणत्वादिन्द्रियमनांसि चदुःखस्य (हेउंति) हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च / विपर्यये गुणमाह- "ते चैव' इन्द्रियग्नोऽर्थाः 'स्तोकमपि स्वल्पमपि,कदाचिद् दुःख (न) नैव वीतरागस्य, उपलक्षणत्वाद्वीतद्वेषस्य, कुर्वन्ति 'किञ्चिदिति' शारीरं मानसं चेति सूत्रार्थः।। ननु न कश्चन कामभोगेषु सत्सु वीतरागः संभवति, तत्कथमस्य दुःखाभावः?, उच्यते - न कामभोगा समयं उविंति, न यावि भोगा विगई उविंति। जे तप्पओसीय परिगही य, सो तेसु मोहा विगई उवेइ॥१०१॥