________________ पमायट्ठाण 488 - अभिधानराजेन्द्रः - भाग 5 पमायद्वाण ब्दस्यैवकारार्थत्वाद् "यथैव'' येनैव प्रकारेण 'पतङ्गः' शलभः, आलोक:-अतिस्निग्धदीपशिखाऽऽदिदर्शन, तस्मिन् लोलो लम्पट आलोकलोलः समुपेति 'मृत्युं' प्राणत्याग, तस्यापि गृद्धाऽऽलोकलोलत्वं राग एवेति भावः। जे यावि दोसं समुवेइ निचं, तंसि क्खणे से उ उवेइ दुक्खं / दुद्दतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से // 25 // 'यश्व' इति यस्तु, अपीति च तस्मिन्नित्यनेन योक्ष्यते। 'दोष' द्वेष (समुवेइ त्ति) वचनव्यत्ययात् 'समुपैति' समुपगच्छति, रूपेष्विति प्रक्रमः / 'नित्य' सदा, न तु कदाचित्, स किमित्याह-तस्मिन्नपि 'क्षणे' प्रस्तावे यस्मिन् द्वेष उत्पन्नः 'से' इति सः 'तुः पूरणे उपैति 'दुःखं' / शारीराऽऽदि, द्विष्टो हि किमिदमनिष्ट मया दृष्टमिति मनसा व्याकुलीभवति, परितप्यते च देहेन, न तु यथारागमुपगच्छंस्तत्काले मनोज्ञविषयावलोकनजनितं सुखमभिमन्यते, उत्तरकालमेव तु दुःखमिति। पठन्ति च- "समुति सव्वं ति।" स्पष्टम्। यदि वा रूपदर्शनाद् द्वेषमुपगच्छन् दुःखमुपैति ततस्तथाविधरूपदोषेणैवास्य दुःखावाप्तिरिति प्राप्तमित्याशङ्कयाऽऽह-दुष्ट दमनं दुर्दान्तं, तच्च प्रक्रमाच्चक्षु षस्तदेव दोषो दुर्दान्तदोषस्तेन, 'स्वकेन' आत्मीयेन 'जन्तुः' प्राणी, न किञ्चित्' स्वल्पमपि, रूप प्रक्रमादमनोज्ञम्, अपराध्यति दुष्यति (से) तस्य, यदि हि रूपमेवापराध्येन्न कस्यचिद् द्वेषाभावः स्यात्, तथा च मुक्त्याभावाऽऽदयो दोषा इति भावः। इत्थं रागद्वेषयोयो रप्यनर्थहेतुत्वमुक्तमिदानीं तु द्वेषस्यापि रागहेतुकत्वात्स एव महानर्थमूलमिति दर्शयंस्तस्य विशेषतः परिहर्त्तव्यता ख्यापयितुमाह एगंतरत्तो रूइरंसि रूवे, अतालिसे से कुणई पओसं। दुक्खस्स संपीलमुवेइ बाले, न लिप्पते तेण मुणी विरागे॥२६।। 'एकान्तरक्तो' यो न कथञ्चिद्विराग याति, 'रूचिरे' मनोरमे रूपे, किमित्याह-(अतालिसे त्ति) मागधदेशीभाषया 'अतादृशे' अन्यादृशे। तथाच तल्लक्षणं-'रशयोर्लसौ' मागधिकायां (से इति) स करोति प्रदोषं' द्वेष, सुन्दरीनन्द इव सुरसुन्दरीरागतः सुन्दर्या तथा च दुःखस्य संपीड' संघातं,यद्वा-समिति भृशं, पीडा दुःखकृता बाधा संपीडा, तामुपैति 'बालः' अज्ञः। उक्तेवार्थ व्यतिरेकमुखेनाऽऽह-न लिप्यत इव लिप्यते, श्लिष्यत इत्यर्थः, तेन' द्वेषकृतदुःखेन, मुनिः 'विरागः' रागविरहितः, तस्यैव तन्मूलत्वादिति भावः। सम्प्रति रागस्यैव पापकर्मोषचयलक्षणमहानर्थहेतुता ख्यापयितुं हिंसाऽऽद्याश्रवनिमित्तता पुनरिहेव तद्द्वा रेण दुःखजनकत्वं च सूत्रषट्केनाऽऽहरूवाणुआसाऽणुगए यजीवे, चराचरे हिंसइऽणेगरूवे। चित्तेहि ते परियावेइ बाले, पीलेइ अत्तट्ठगुरु किलिटे ||27|| रूपप्रस्तावान्मनोज्ञमनुगच्छति रूपानुगा, सा चासावाशाच रूपानुगाऽऽशा, रूपविषयोऽभिलाष इति योऽर्थः, तदनुगतश्च जीवः / पठन्ति च 'रूवाणुवायाणुगए य जीवे" इति / तत्र रूपाणांमनोज्ञानामुपायैःउपार्जनहेतुभिरनुगतो युक्त उपायानुगतः, स च प्राणी जीवान् 'चराचरान्' उसस्थावरान् 'हिनस्ति' विनाशयति 'अनेक रूपान्' जात्यादिभेदतोऽनेकविधान, काश्चित्तु 'चित्रैः' अनेकप्रकारैः, स्वकायपरकायशस्त्राऽऽदिभिरूपायैरिति गम्यते। सुव्यत्ययायथासभवं चित्तेषु या। तानितिचराचरजीवान, परीति सर्वतस्तापयति दुःखयति परितापयति,बाल इव बालः-विवेकविकलतयाऽपरांश्च पीडयति, एकदेशदुःखोत्पादनेनाऽऽत्मार्थ गुरूः स्वप्रयोजननिष्ठः 'क्लिष्टः' रागबाधितः। अन्यच्चरूवाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनिओगे। वए विओगे य कहं सुहं से, संभोगकाले य अतित्तलाभे? // 28 // रूपानुपातो-रूपविषयोऽनुपातः अनुगमनमनुरागइति यावत्। तस्मिंश्व सति 'परिग्रहेण' मूर्छाऽऽत्मकेन हेतुना, 'उत्पादने' उपार्जने, रक्षणं च-अपायविनिवारणं, सन्नियोगश्च स्वपरप्रयोजनेषु सम्यग् व्यापारण, रक्षणसन्नियोग, तस्मिन् (वए त्ति) व्यये विनाशे 'वियोगे' विरहे सतोऽप्यनेककारणजनिते, सर्वत्र रूपस्येति प्रक्रमः। व सुखं? न कृचिद्, किंतु सर्वत्र दु खमेवेति भावः। (से इति) तस्य जन्तोः / इयमत्र भावनारूपमूञ्छितो हि रूपवत्करितुरङ्गमकलत्राऽऽदीनामुत्पादनरक्षणार्थ तेषु तेषु क्लेशहेतुषूपायेषु जन्तुः प्रवर्त्तते, तथा नियोज्याऽपि तथाविधप्रयोजनोत्पत्तौ रूपवत्कलत्राऽऽदि तदपायशङ्कया पुनःपुनः परितप्यत एवेति सिद्धमेवास्योत्पादनरक्षणसंनियोगेषु दुःखम् / एवं व्ययवियोगयोरपि भावनीयम् / अन्ये तु पठन्ति- 'रूवाणुरागेण परिगहेणं' इति / तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन, शेषं प्राग्वत् / स्यादेतत् मा भूद्रत्पादनाऽऽदिषु रूपस्य सुखं, सम्भोगकाले तु भवष्यितीत्याशयाऽऽह-'सम्भोगकाले च' उपभोगप्रस्तावेच (अतित्तलाभेत्ति) तर्पणं तृप्तं, तृप्तिरिति यावत् / तस्य लाभः प्राप्तिस्तृप्तलाभो नतथाऽतृप्तलाभः / किमुक्तं भवति?-बहुधाऽपि रूपदर्शने रागिणां न तृप्तिरस्ति यतोऽन्यैरप्युक्तम्- "न जातु कामः कामानामुपभोगेन शाम्यति / हविषा कृष्णवत्मय, भूय एवाभिवर्द्धते / 1 // " तथा "यथाऽभ्यासं विवर्द्धन्ते, विषयाः कौशलानि च। इन्द्रियाणम्।" इति। तस्मिन् सति व सुखमिति सम्बन्धः। उत्तरोत्तरेच्छया हि परितप्यत एव जन्तुरिति / पठन्ति च(अतित्तिलाभे त्ति) तृप्तिप्राप्त्यभावे। आह-एवं परिग्रहाद् दुःखमनुभवतस्तद्भीरूतया ततो निवृत्तिर्दोषान्तरानारम्भणं वा किमस्य सम्भवतीत्य, शङ्कयाऽऽह रूवे अतित्ते अपरिग्गहम्मि, सत्तोवसत्तो न उवेइ तुढेि / /