________________ पमायट्ठाण 487- अभिधानराजेन्द्रः - भाग 5 पमायद्वाण सुखरूपतया प्रतिभासनं सुखहेतुत्वेनैकान्तिकमेव किम्पाकफ-लानां | मनोरमत्वेन सुखप्रतिभासेऽप्यन्यथाभावादिति। इत्थं बहूत्तरगुणस्थानानुयायित्वेन रागस्य प्राधान्यात्केवलस्यैवोद्धरणोपायमभिधाय सम्प्रति तस्यैव द्वेषसहितस्य तमभिधि- / त्सुर्द मितेन्द्रियत्वं च सिंहावलोकितन्यायाऽऽश्रयणेन व्याचिख्यासुरिदमाह जे इंदियाणं विसया मणुएणा, न तेसु भावं निसिरे कयाइ। न यामणुम्नेसु मणं पि कुज्जा, समाहिकामे समणे तवस्सी // 21 // ये 'इन्द्रियाणां' चक्षुरादीनां 'विषयाः' रूपाऽऽदयः मनोज्ञा' मनोरमाः न 'तेषु विषयेषु' 'भावम्' अभिसन्धिम् अपेर्गम्यमानत्वाद्भावमपि,प्रस्तावादिन्द्रियाणि प्रवर्त्तयित्तुं, किं पुनस्तत्प्रवर्तनमित्य - पिशब्दार्थः, 'निसृजेत्' कुर्यात् कदाचित् कस्मिंश्चित्काले, 'नच' नैव 'अमनोज्ञेषु' अमनोरमेषु 'मनोऽपि' चित्तमपि, अत्रापीन्द्रियाणि प्रवर्त्तयितुम् अपिशब्दार्थश्च प्राग्वत् / 'कुर्यात्' विदध्यात्, अनेन वाक्यद्वयेनापीन्द्रियदम उक्तः, समाधिः चित्तैकाग्य, स च रागद्वेषाभाव एवेति, स एवानेनोपलक्ष्यते, ततस्तत्कामो रागद्वेषोद्धरणाभिलाषी, श्रमणस्तपस्वीति च प्राग्वत् / नन्वेवमुभयोद्धरणहेतुत्वेनेन्द्रियदमस्य किमिति रागोद्धरणहेतुष्वभिधानम् ?, उच्यते हेतुप्रक्रमात् / न चोभयोद्धरणहेतुतयैकोद्धरणहेतुता विरूध्यते, यदि वा-तत्रापि रागस्य, द्वेषोपलक्षणत्वादुभयोद्धरणोपायेनैव विवक्षिता, किंतु तत्र विविक्तशय्यासामान्येनैकान्तशय्या गृह्यते, तदवस्थानस्य च प्रतीतैव तदुद्धरणोपायता, एवं प्रकामभोजिन एव दर्पतोद्वेषसम्भवादवमाशनत्वस्याप्यसौ भावनीयेत्यलं प्रसङ्गे नेति सूत्रार्थः / इत्थं रागद्वेषोद्धरणैषिणो विषयेभ्यो निवर्त्तनमिन्द्रियाणामुपदिष्टम्। अधुना त्वेतेषु तत्प्रवर्तन रागद्वेषानुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि तत्प्रसङ्गतो मनश्चाऽऽश्रित्य दर्शयितुमाह चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो उ जो तेसु स वीयरागो।।२२।। 'चक्षुषः' चक्षुरिन्द्रियस्य, रूप्यत इति रूपं वर्णः, संस्थानं वा, गृह्यतेऽनेनेति ग्रहण, कोऽर्थः-आक्षेपकं, विशिष्टेन हि रूपेण चक्षुराक्षिप्यते / तद् वदन्ति' अभिदधति, तीर्थकृदादय इति गम्यते। ततः किमित्याह-'तद्' इति रूपं, रागः-अभिष्वङ्गस्तद्धेतुः-तदुत्पादक 'तुः' पूरणे, मनोज्ञमाहुः / तथा- 'तद्' इति रूपमेव दोषो द्वेष स्तद्धेतुममनोज्ञमाहुः / ततस्तयोश्चक्षुःप्रवर्तने रागद्वेषसम्भवात्तदुद्धरणाशक्तिलक्षणो दोष इति भावः। आह-एवं न कश्चित् सति रूपे वीतरागः स्यादत आह-अरक्तदिष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः सः, वीतराग' इति। तथाविध-रागभावतो वीतरागस्तदविनाभिवित्वाद् द्वेषस्य, तथैव वीतद्वेषश्च / इदमाकूतम्-यस्यैव रागद्वेषौ स्तस्तस्यैव तदुदीरकत्वेनान-योस्तजनकत्वमुच्यते, न तु यः सम एव, तथा च न तावचक्षुस्तयोः प्रवर्तयेत्, कथञ्चित् प्रवर्त्तने वा समतामेवाऽऽलम्बेतेत्युक्तं भवति। ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्रतैव चिन्ताऽस्तु, रूपे चक्षुर्न प्रवर्त्तयेदित्येवं तु न युक्तैव चक्षुषश्चिन्ता, इत्याशड्क्याऽऽह रूवस्स चक्खू गहणं वयंति, चक्खुस्स रूवं गहणं वयंति // रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुनमाहु / / 23 / / रूपस्यचक्षुः गृह्णातीति ग्रहणं, बहुलवचनात्कत्तरिल्युट्तद्वदन्ति, तथा चक्षुषो रूपं गृह्यत इति प्राग्वल्ल्युटि ग्रहणं ग्राह्यं तद्वदन्ति, अनेन रूपचक्षुषोाह्यग्राहकभाव उक्तः तथा च न ग्राहकं विना ग्राह्यत्वं नाऽपि ग्राह्यं विना ग्राहकत्व मित्यनयोः परस्परमुपकार्योपकारकभाव उक्तो भवति / एतेन त्वनयो रागद्वेषजनने सहकारिभावः ख्याप्यते। तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपि, अत एवाऽऽह-रागस्य हेतु-कारणं, प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञ, मनोज्ञरूपविषयमित्युक्तं भवति / आहुः' बुवते, यत्र तु "हेउ तमण्णुण्णं'' इति पाठः। तत्र (तंति तच्चक्षुर्मनोज्ञं मनोज्ञरूपविषयत्वेन ततो दोषो द्वेषः। उक्त हि- "ईर्ष्या रोषो द्वेषः' इत्यादि। तस्य हेतुममनो ज्ञम् अमनोज्ञरूपम् / पाठान्तरतश्च हेतुं तदमनोज्ञमाहु उभयप्रकमेऽपि चक्षुष एव विशेष्यत्वेनोपदर्शनं रूपस्य पूर्वसूत्रेणैव / एवं च रूपच-क्षुषोः सहितयोरेव रागद्वेषजनक त्वाद् युक्तमुक्तं तायुद्धर्तुकामो रूपे चक्षुर्न प्रवर्तयेत्, यदा तु पाश्चात्यपादवयं पूर्ववत् पठ्यते तदा पूर्वसूत्रे चक्षुषो रूपग्रहणं-ग्राह्यमिति व्याख्येयम्। ततश्चैहापि ग्राह्यग्राहक भाव उक्त तत्र चोक्त एवाभिप्रायः, तथा यदि चक्ष रागद्वेषकारण न कश्चिद्वीतरागः स्यादत आह-समश्चेत्यादि शेषं सुगमम्। आह-अस्त्वयं रागद्वेषोद्धरणोपायः, एतदनुद्धरणे च को दोषः? येन तदुद्धरणार्थमित्थमुपदिश्यत इत्याह रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ सो विणासं। रागाऽऽउरे से जह वा पयंगे, आलोअलोले समुवेइ मच्चु // 24 // रूपेषु यो 'गृद्धिं' गाऱ्या रागमित्यर्थः / उक्तं हि वाच के:"इच्छा मूच्छा कामः, स्नेहो गायं ममत्वमभिनन्दः अभिलाष इत्यने कानि रागपर्यायवचनानि / / 1 / / ' 'उपैति' गच्छति 'तीव्राम्' उत्कटां गृद्धेविशेषणं, स किमित्याह-अकाले भवम् आकालिकं -यथा-स्थित्या गुरुपक्रमादगिव प्राप्नोति स 'विनाशं' घातं , पाठान्तरतः 'क्लेश वा' मरणान्तबाधाऽऽत्मकं, रागेणाऽऽतुरोविह्वलो रागाऽऽतुरसन (से) इति स लोकप्रतीतः, 'यथा वा' इति वाश