SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ पमायट्ठाण 486 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण व धीराः / " तत्किमिति रागमुद्धर्तुकामेन विविक्तशयनाऽऽसमता विधेयेत्युच्रुते? इत्याशझ्याऽऽह कामं तु देवीहिं वि भूसियाहिँ, न चाइया खोभइउं तिगुत्ता। तहा वि एगंतहियं ति नचा, विवित्तवासो मुणिणं पसत्थो॥१६॥ (कामं तु त्ति) अनुमतमेवैतद् यदुत (देवीहिं वि त्ति) 'देवीभिरपि' अप्सरोभिरप्यास्तां मानुषीभिरत्यपिशब्दार्थः / 'भूषिताभिः अलड् कृताभिः (न) नैव (चाइय त्ति) शक्ताः 'क्षोभयितुं' चालयितु, संयमादिति गम्यते। 'तिसृभिः' मनोगुप्त्यादिगुप्तिभिर्गुप्ताः, अर्थान्मुनयः, 'तथाऽपि' यदप्येवंविधाश्चालयितुं न शक्यन्ते तदप्येकान्तहितमेतदिति ज्ञात्वा / किमुक्तं भवति ?-सम्भवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति, येऽपि न क्षुभ्यन्ति, तेऽपि स्त्रीसंसक्तवसतिवासे "साहु तवोवणवासो'' इत्याद्यवर्णाऽऽदिदोषभाजो भवेयुरिति परिभाव्य 'विविक्तवासो' विविक्तशय्याऽऽसनाऽऽत्मको मुनीनां प्रशस्त इत्यन्तर्भावित ण्यतया 'प्रशंसितः' गणधराऽऽदिभिः लाधित इत्यर्थः अतः स एवाऽऽश्रयणीय इतिभावः। एतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाहमुएक्खाभिकंखिस्स वि माणवस्स, संसारभीरूस्स ठियस्स धम्मे। नेयारिसंदुत्तरमत्थि लोए, जहडिओ बालमणोहराओ / / 17 / / 'मोक्षाभिकासि णोऽपि' मुक्त्यभिलाषिणोऽपि मानवस्य संसारात्चतुर्गतिरूपाद्भयनशीलो भीरूः संसारभीरूः, अपेरिहापि सम्बन्धनात्तस्याऽपि-तथा स्थितस्याऽपि धर्मे श्रुतधर्माऽऽदौ (न) नैव 'एतादृशम्' ईदृशम्, दुस्तरं-दुरतिक्रमम्, 'अस्ति' विद्यते, 'लोके' जगति यथा 'स्त्रियः युवतयः 'बालमनोहराः निर्विवेकचित्ताऽऽक्षेपिण्यो दुस्तराः। दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिदुस्तरत्वादासां परिहार्यत्वेन विविक्तशय्यऽऽसनमेव श्रेय इति भावः / नन्वेवं स्त्रीसङ्गातिकमार्थमयमुपाय उपदिष्टस्तथा शेषसङ्गाति- / क्रमार्थमपि किं न कश्वनोपाय उपदिश्यते ? इत्याह-यदि वा | स्त्रीसङ्गतिक्रमे गुणमाह एएय संगा समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा। जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ||18|| एतांश्च 'सङ्गान' सम्बन्धान, प्रक्रमात् स्त्रीविषयान्, 'समतिक्रम्य' उल्लङ्घय 'सुखोत्तराश्चैव' अकृच्छ्रोलड् ध्याश्चैव भवन्ति 'शेषाः' द्रव्याऽऽदिसङ्गाः, सर्वसङ्गानां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेवैतेषु प्रधानत्वादिति भावः / दृष्टान्तमाह-यथा 'महासागरं' स्वयम्भूरमणमुत्तीर्य 'नदी' सरित् 'भवेत्' स्यात्सुखोत्तरैवेति प्रक्रमः / वीर्यातिशय योगत इति भावः / (अवि गंगासमानेति) गङ्गा किल महानदी, तत्समानाऽपितत्सदृशाऽपि, आस्तामि-तरा-क्षुद्रनदीत्यपिशब्दार्थः। यदुक्तम्- "विवित्तसेज्जाऽऽसणतियाणं इत्यत्र विविक्तावसथमर्थतो व्याख्याय "ओमासणाणं दमिइंदियाणं'' इत्यात्रावमाशनत्वमनन्तरमेव प्रकामभोजननिषेधेन समर्थितं, दमितेन्द्रियत्वं तूत्तरत्र वक्ष्यत इत्युभयमुपेक्ष्य "नरागसत्तूधरिसेइ चित्तं' इत्यत्र किमिति रागपराजयं प्रत्येवमुपदिश्यते ? इत्याशय रागस्य दुःखहेतुत्वं दर्शयितुमाह कामाणुगिद्धिप्पभवं खु दुक्खं, सव्वस्स लोगस्स सदेवगस्स। जंकाइयं माणसियं च किंचि, तस्संतयं गच्छइ वीयरागो।।१६।। कामाः-विषयास्तेष्वनुगृद्धिः-सतताभिकाङ्गा, अनुभावानुबन्ध इत्यादिष्वनोः सातत्येऽपि दर्शनात् / तस्याः प्रभवो यस्य तत्कामानुगृद्धिप्रभवम् (खु त्ति) खुशब्दस्यावधारणार्थत्वात्कामानुगृद्धिप्रभवमेव, किं तत्?-'दुःखम्' असातं, सर्वस्य लोकस्य प्राणिगणस्य, कदाचिद्देवानां विशिष्टानु भावक्त्तयैवं न स्यादत आह'सदेवकस्य' देवैः समन्वितस्य, कतरत्तद्दुःखमित्याह-यत् 'कायिक' रोगाऽऽदि, 'मानसिकंच' इष्टावियोगाऽऽदिजन्यं 'किञ्चित् स्वल्पमपि, कदाचिदेतदभावेऽप्येतत्स्याद् अत आह-तस्य द्विविधस्याऽपि दुःखस्यान्तमेव अन्तकंपर्यन्तं गच्छति 'वीतरागः' विगतकामानुगृद्धिरित्यर्थः। ननु कामाः सुखरूपतयैवानुभूयन्ते तत्कथं कामानुगृद्धि प्रभवमेव दुःखम् ? उच्यतेजहा य किंपागफला मणोरमा, रसेण वण्णेण य भुञ्जमाणा। ते खुद्दए जीविएँ पञ्चमाणा, एओवमा कामगुणा विवागे // 20 // 'यथा च' इति यथैव, किम्पाको-वृक्षविशेषस्तत्फलानि, अपेर्गम्यमानत्वात् 'मनोरमाण्यपि हृदयङ्गमान्यपि, 'रसेन' आस्वादेन, 'वर्णेन च' रूचिररक्ताऽऽदिना,चशब्दाद् गन्धाऽऽदिना च, 'भुज्यमानानि' उपभुज्यमानानि (ते) इति 'तानि' लोकप्रतीतानि, क्षोदयितुम् अध्यवसानाऽऽदिभिरूपक्रमकारणैर्विनाशयितुं शक्यत इति क्षुद्रं, तदेवानुकम्प्यतया श्रुद्रकं, सोपक्रममित्यर्थः, तस्मिन्, जीविते-आयुषि पच्यमाननि-विपाकाऽवस्थाप्राप्तानि। मरणान्तदुःखदायीनीति शेषः / प्राग्वच लिङ्गव्यत्ययः। पठ्यतेच-'तेजीवियं खुदति पत्रमाणे' त्ति।तानि किम्पाकफलानि, जीवितम् आयुः, 'खुन्दति' आर्षत्वात् 'क्षोदयन्ति' विनाशयन्ति, विपच्यमानानि एतदुपसाः' किम्पाकफलतुल्पाः, कामगुणाः 'विपाके' फलप्रदानकाले। किमुक्तं भवति?-यथा किम्पाकफ्लान्युपभुज्यमानानि मनोरमाणि, विपाकावस्थायां तु सोपक्रमाऽऽयुष मरणहेतुतयाऽतिदारुणानि, एवं कामगुणा अपि उपभुज्यमाना मनोरमाः, विपाकावस्थायांतु नरकाऽऽदिदुर्गतिदुःखदायितयाऽत्यन्तदारूणा एव, ततः
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy