________________ पमायट्ठाण 485 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण ई परिणइधम्मो मोहो जमुदिज्जए उदिण्णे य। सुठु वि चित्तजयपरो, कह अकले ण वड्डिहिई ? ||1 // ' एवं च को दोषः?, इत्याह-दृप्तं यदि वा दीप्तं, नरमिति प्रक्रमः / 'चः पुनरर्थे, जातिविवक्षया च बहुवचनप्रक्रमेऽप्येकवचनं, कामाः विषयाः 'समभिद्रवन्ति' अभिभवन्ति, तथाविधस्य स्त्र्याद्यभिलषणीयत्वात्सुखाभिभावनीयत्वाचेति भावः / कमिव क इवेत्याह-द्रुमं वृक्ष, यथेत्यौपभ्ये, 'स्वादुफलं' मधुरफलान्वितं, च इति भिन्नक्रमः / ततश्च (पक्खि त्ति) पक्षिण इव। इह च द्रुमोपमःपुरूषाऽऽदिः, स्वादुफलतातुल्यं च दृप्तत्व, दीप्तत्वं वा, पक्षिसदृशाश्च कामा इति। अनेन रसप्रका-मभोजने दोष उक्तः। सम्प्रति सामान्येनैव प्रकामभोजने दोषमाहजहा दवग्गी पउरिंधणे वणे, समारूओ नोवसमं उवेइ। एविंदियग्गी वि पगामभोइणो, न वंभयारिस्स हियाय कस्सई // 11 / / यथा दवाग्निः' दावालनः, प्रचुरेन्धने 'वने' अरण्ये, एतदुपादानं च वसतौ, कश्चिद्विध्यापकोऽपि स्यादिति। 'समारूतः' सवायुः 'नोपसमं न उपशम विध्यापनम्, 'उपैति' प्राप्रोति, 'एवम्' इति दवानिवत् नोपशमभाग भवति / (इंदियग्गि त्ति) इन्द्रियशब्देनेन्द्रियजनितो राग एवोक्तः, तस्यैवानर्थहेतुत्वनेह चिन्त्यमानत्वात्। सोऽग्निरिव धर्मवनदाहकत्वाद् इन्द्रियाग्निः, सोऽपि 'प्रकामभोजिनः' अतिमात्राऽऽहारस्य, प्रक्राममोजनस्य पवनप्रायत्वेनातीव तदुदीरकत्वाद्, अतश्चायं न ब्रह्मचारिणः ‘हिताय' हितनिमित्तं ब्रह्मचर्यविधातकत्वेन कस्यविद् अतिसुस्थितस्याऽपि, तदनेन प्रकामभोजनस्य काक्वा परिहार्यत्वमुक्तम्। इत्थं रागमुद्धकामेन यत्परिहर्तव्यं तद भिधाय यदतियत्नेन कर्त्तव्यं तदाहविवित्तसिज्जाऽऽसणजंतियाणं, ओमासणाणं दमिइंदियाणं / / नरागसत्तृ धरिसेइ चित्तं, पराइओवाहिरिवोसहेहिं / / 12 / / विविक्ता स्यादिविकला शय्या-वसतिः, तस्यामासनम् अवस्थानम्, तेन यन्त्रिता नियन्त्रिता विविक्तशय्याऽऽसनयन्त्रितास्तेषाम् 'अवमाशनानाम्' न्यूनभोजनानाम् / पठन्ति च-(ओमासणाए त्ति) अवमन्यूनमशनम् -आहारो येषां तेऽमी अवमाशनास्तद्भावोऽवमाशनता-अवमौदर्यरूपा, तया, दमितानि वशीकृतानि इन्द्रियाणि यैस्तै तथा तेषां दमितेन्द्रियाणां, पठ्यतेच- "ओमासणाईदमिइंदियाणं ति।'' अवममशनं यत्र तपसि तदवमाशनं तदादिभिस्तपोभेदैर्दमितानीन्द्रियाणि यैस्ते तथा तेषां, न नैव रागः शत्रुरिवाभिभवहेतुतया रागशत्रुः 'धर्षयति' पराभवात, किं तत् ?-चित्त, किंतु स एवेत्थं पराधृष्यत इति भावः। क इव? - 'पराजितः पराभूतः 'व्याधिरिव' कुष्ठाऽऽदिः औषधेः' गुडूच्या- दिभिर्देहमिति गम्यते / अनेनापि विविक्तशय्याऽऽसनाऽऽदीनां काक्का विधयत्वमुक्तम्। इदानीं तु विविक्तशयनाऽऽसने यत्नाऽऽधानाय विपर्यय दोषमाह जहा विरालाऽऽवसहस्समूले, नमूसगाणं वसही पसत्था। एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो॥१३॥ यथा विडाला मार्जारास्तेषामावसथः-आश्रयो विडालाऽऽवसथस्तस्य 'मूले' समीपे न मूषकाणां वसतिः 'प्रशस्ता' शोभना, अवश्य तत्र तदपायसम्भवात्, एवमेव स्त्रीणां युवतीनां, पण्डकाऽऽद्युपलक्षणमेतत्। निलयोनिवास स्त्रीनिलयस्तस्थ 'मध्ये' अन्तर्न ब्रह्मचारिणः 'क्षमः' युक्तः, कोऽसौ?-निवासः-वसतिः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः। विविक्तशय्याऽवस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्तव्य-तदाह नरूपलावण्णविलासहासं, न जंपियं इंगिय पेहियं वा। इत्थीण चित्तंसि निवेसइत्ता, दलु ववस्से समणे तवस्सी॥१४॥ 'न' नैव रूपं-सुसंस्थानता, लावण्यं-नयनमनसामाह्लादको गुणो, विलासा विशिष्टनेपथ्यरचनाऽऽदयो, हासः-कपोलविकाशाऽऽदिरेषा समाहारे रूपलावण्यविलासहासं, नजल्पितमन्मथोल्लापाऽऽदि (इंगिय त्ति) बिन्दुलोपाद् 'इङ्गितम्' अङ्गभङ्गाऽऽदि वीक्षितं' कटाक्षवीक्षिताऽऽदि 'वा' समुच्चये। स्त्रीणां सम्बन्धि ('चित्तंसि’ त्ति) चित्ते' मनसि 'निवेश्य' -अहो ! सुन्द-रमिद चेति विकल्पतः स्थापयित्वा, 'द्रष्टुम्' इन्द्रियविषयता नेतुं 'व्यवस्येत्' अध्यवस्येत्, श्रमणस्तपस्वीति प्राग्वत्। चित्ते निवेश्येत्यनेन च रागाऽऽद्यभिसन्धिं विनैतदर्शनमपि न दोषायेति ख्याप्यते / उक्तं हि- "न सक्क रूपमद्दटुं" इत्यादि, निवेश्येति च समानकालत्वेऽपि क्त्वाप्रत्ययः / अक्षिणी निमील्य हसतीत्यादिवत् / किमित्येवमुपदिश्यते ? इत्याहअदंसणं चेव अपत्थणंच, अचिंतणं चेव अकित्तणं च। इत्थीजणस्सारियझाणजुग्गं, हियं सया बंभवए रयाणं // 15 / / 'अदर्शनम्' इन्द्रियाविषयीकरणं, 'चः समुचये / एव अवधारणे अदर्शनमेव च 'अप्रार्थनं च अनभिलषणम् 'अचिन्तनं चैव' रूपाssद्यपरिभावनम् 'अकीर्तनं च' असंशब्दनं, तच नाभतो गुणतो वा स्त्रीजनस्य, आर्यध्यान धर्माऽऽदि, तस्य योग्यंतद्धेतुत्वेनोचितमार्यध्यानयोग्य, हितं' पथ्यं, 'सदा' सर्वकालं, ब्रह्मव्रते। पाठान्तस्तो ब्रह्मचर्ये 'सतानाम् आसक्तानाम्। ततः स्थितमेतत्-स्त्रीणां रूपाऽऽदि मनसि निवेश्य द्रष्टुं व्यवस्येत्। ननु "विकारहे तो सति विक्रि यन्ते, येषां न चेतांसि व ए