________________ पमायट्ठाण 484 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण लाकातः प्रभवतीति बलाकाप्रभवम्, यथा च, किमुक्तं भवति ? यथाऽनयोः परस्परमुत्पत्तिस्थानता 'एवमेव' अनेनैव प्रकारेण, मोहयति- मूढता नयत्यात्मानमिति मोहः-अज्ञानम् / तच्चेह मिथ्यात्वदोषदुष्ट ज्ञानमेव गृह्यते। उक्तं हि-"जह दुव्वयण-मवयणं" इत्यादि। आयतनम्-उत्पत्तिस्थानं यस्याः सा मोहाऽऽयतना, ता, 'खुः' अवधारणे, ततो मोहाऽऽयतनामेव (तण्हं ति) तृष्णा, वदन्तीति सम्बन्धः / यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षय इति / मोहं च तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति / तृष्णा हि सती मूर्छा, सा चात्यन्तदुस्त्यजा रागप्रधाना, ततस्तया, राग उपलक्षिते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयैवाऽऽक्षिप्यते / ततस्तृष्णाग्रहणेन रागद्वेषायुक्तौ, एतयोश्चानन्तानुबन्धिकषायरूपयोः सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकषायवतिरागस्याऽपि मिथ्यात्वगमनम्। तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागाऽऽदीनां सम्भवस्तथोक्तम् // 6 // सम्प्रति यथैतेषां दुःखहेतुत्वं तथा वक्तुमाहरागो य दोसो विय कम्मबीयं, कम्मं च मोहप्पभवं वयंति। कम्मं च जाईमरणस्स मूलं, दुःखं च जाईमरणं वयंति // 7 // 'रागश्च मायालोभाऽऽत्मकः 'द्वेषोऽपि च,' क्रोधमानाऽऽत्मकः, कर्म ज्ञानाऽऽरणाऽऽदि, तस्य बीजं कारणं कर्मबीजम्, कर्म, चस्य भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च-मोहकारणं वदन्ति / 'चः' सर्वत्र समुच्चये / 'कर्म च' इति कर्म पुनः, जातयश्च मरणानि च जातिमरणं, तस्य 'मूलं' कारणम्, 'दुःखं' संसारम्,आसातपक्षे तु दुःखयतीति दुःखं, कोऽर्थः?-दुःखहेतु, चस्य पुनरर्थस्य भिन्नक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकराऽऽदय इति गम्यते / जातिमरणस्यैवातिशयदुः खोत्पादकत्वात् / उक्तं हि- "मरमाणस्स जं दुःखं, जायमाणस्स जंतुणो / तेण दुक्खेण संतत्तो, न सरति जातिमप्पणी ||1||" ||7|| यतश्चैवमतः किं स्थितमित्याहदुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तहा। तण्हा हया जस्स न होइ लोभो, लोभो हओ जस्स न किंचणाइं॥८|| 'दुःखम्' उक्तरूप, हतमिव हत, केनेत्याह-यस्य 'न भवति न विद्यते, कोऽसौ ?-मोहः, अस्यैव तन्मूलकारणत्वात्। ततो हि कर्म कर्मणश्च दुःखमित्यनन्तरमेवोक्तं, हतमिव हतमिति च व्याख्यातं, तत्क्षयेऽपि नारकाऽऽदिगतौ स्वतत्त्वभावनापरस्यापि कियतोऽपि दुःखस्य सम्भवात्, यदि दुःखहननं मोहाभावात्, असावपि कुत इत्याह-मोहो हतो यस्य न भवति तृष्णा / कोऽर्थः? तृष्णाया अभावान्मोहाभावः, तदायतनत्वेन तस्या अभिधानात्। तृष्णाया अपि कुतो हननमित्याह तृष्णा हता यस्य न भवति लोभः। किमुक्तं भवति?-लोभाभावातृष्णाऽभावः, तृष्णाग्रहणे नोक्तनीत्या रागद्वेषयोरूक्तत्वात्तयोश्व लोभक्षये सर्वथैवाभावात्, अत एव प्राधान्याल्लोभस्य रागान्तर्गतत्वेऽपि पृथगुपादानम्। दृश्यते हि प्रधानस्य सामान्योक्तावपि विशेषतोऽभिधानं यथा ब्राह्मणा आयाताः, वसिष्ठोऽप्यायात इति। सतर्हि केनहत इत्याहलोभो हतो यस्य न किञ्चनानि, द्रव्याणि सन्तीति गम्यते। सत्सु हि तेषु संभवत्यभिकाङ्क्षा, तद्रूप एव च लोभः / यत्तु तत्सद्भावेऽपि लोभहननं भरताऽऽदीनां तत्कादाचित्कमित्यविवक्षितमेव, पठ्यते च-यस्य न किशनास्ति-न किञ्चिद्विद्यते, द्रव्याऽऽदिकमिति गम्यत इति सूत्रार्थः // 8 // सन्त्वेवं दुःखस्य मोहाऽऽदयो हेतवो, हननोपायास्तेषां किमयमेव, उतान्योऽप्यस्ति? इत्याशङ्कय सविस्तरं तदुन्मूलनोपायं विवदिषुः प्रस्तावमारचयति रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं। जे जे उवाया पडिवज्जियव्वा, ते कित्तइस्सामि अहाणुपुटिव lll स्पष्टम्। नवरं यदिह रागस्य प्रथममुपादानं, पूर्व तु मोहस्य, तत् मोहस्य रागद्वेषयोश्च परस्पराऽऽत्तत्वेन पूर्वापरभावस्यानियमात्। तथा उद्धर्तुकामेन इति।' उन्मूलयितुमिच्छता, सह मूलानामिव मूलानां - तीब्रकषायोदयाऽऽदीनां मोहप्रकृतीना, जालेन-समूहेन, वर्त्तत इति समूलजालस्तम्, एतच्च रागाऽऽदीनां प्रत्येक विशेषणम्, 'उपायाः' तदुद्धरणहेतवः 'प्रतिपत्तव्याः' अङ्गीकर्तव्याः, कर्तुमिति गम्यते। पठ्यते च- "अपाया परिवज्जियव्वा'' इति / 'अपायाः' तदुद्धरणप्रवृत्तानां विघ्नकारिणोऽर्थाः 'परिवर्जयितव्याः' परिहर्त्तव्या इति सूत्रावयवार्थः / यथाप्रतिज्ञातमेवाऽऽहरसा पगामं न हु सेवियव्वा, पायं रसा दित्तिकरा नराणं / दित्तं च कामा सममिडवंति, दुमं जहा सादुफलं च पक्खी // 10 // ‘रसाः' क्षीराऽऽदिविकृतयः 'प्रकामम्' अत्यर्थं 'न निषेवितव्याः' नोपभोक्तव्याः, प्रकामग्रहणं तु वा ताऽऽदिक्षोभनिवारणाय रसा अपि निपेवितव्या एव निष्नपरणनिषेवणस्य तुनिषेध इति ख्यापनार्थम्। उक्तं च- "अच्चाहारो न सहइ, अतिनिद्धेण विसया उदिज्जंति। जायामायाहारो, तं पि पगाम ण भुंजामि // 1 // " किमित्येवमुपदिश्यते?. इत्याह'प्रायः' बाहुल्येन रसाः, निषेव्यमाणा इतिगम्यते। दृाप्तेः-धातूद्रेकस्तत्करणशीला दृप्तिकराः, दृप्तकरा वा पाठान्तरतः। इह च भावे क्तप्रत्यय इति दर्प उच्यते / दृश्यत एवं हि कुर्वता दृप्तत्वममीषां प्राणिनामिति / यदि वा दीप्तं दीपनं, मोहानलज्वलनमित्यर्थः तत्करणशीला दीप्तकराः / केषाम् ?-नराणाम् / उपलक्षणत्वात् स्त्रयादीनां च, उदीरयन्ति हि ते उपभुक्तास्तेषां माहानलमिति / उक्तं हि- 'विग