________________ पमायट्ठाण 483 - अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण मा . ज्ञानस्य आभिनिबोधिकाऽऽदेः, सर्वस्य निरवशेषस्य, पाठान्तरतः'सत्यस्य वा, अवितथस्य, 'प्रकाशनया' इति। प्रभासनया, निर्मलीकरणेनेत्यर्थः / अनेन ज्ञानाऽऽत्मको मोक्षहेतुरूक्तः। तथा अज्ञानंमत्यज्ञानाऽऽदि, मोहोदर्शनमोहनीयम् / अनमोः समाहारेऽज्ञानमोहं, तस्य विवर्जना परिहारो, मिथ्याश्रुतश्रवण-कुदृष्टिसङ्गपरित्यागाऽऽदिना तया, अनेन स एव सम्यग्दर्शनाऽऽत्मकोऽभिहितः / तथा 'रागस्य द्वेषस्य च' उक्तरूपस्य, 'संक्षयेण' विनाशेन, एतेन तस्यैव चारित्राऽऽत्मकस्याभिधानम्; रागद्वेषयोरेव कषायरूपत्वेन तदुपघातकत्वाभिधानात् / ततश्वायमर्थः-सम्यग्दर्शनज्ञानचारित्रै३ 'एकान्तसौख्यं दुःखलेशाकलङ्कितसुखं, समुपैति मोक्षम् अपवर्गम्। अयं च दुःखप्रमोक्षाविनाभावीत्यतः स एवोपलक्षित इति सूत्रार्थः / नन्वस्तु ज्ञानाऽऽदिभिर्दुःखप्रमोक्षः, अमीषां तुकः प्राप्तिहे तुः?उच्यतेतस्सेस मग्गो गुरूविद्धसेवा, विवज्जणा बालजणस्स दूरा। सज्झायएगंतनिवेसणाय, सुत्तत्थसंचिंतणया धिई य॥३॥ तस्येति योऽयमनन्तरमोक्षोपाय उक्तः एषः' अनन्तरवक्ष्यमाणः मार्गः पन्थाः प्राप्तिहेतुः, यदुत गुरवो-यथावच्छास्त्राभिधायकाः वृद्धाश्च श्रुतपर्यायाऽऽदिवृद्धाः, तेषां से वा पर्युपासना गुरुवृद्धसेवा, इयं च गुरुकुलवासोपलक्षणं, तच न सुप्रापान्येव ज्ञानाऽऽदीनि युदक्तम्''णाणस्स होइ मागी विरहरणा दंसणं चरित्ते य धन्ना आवकहाए गुरुकुलवासं न मुचंति / / 1 / / इति सत्यपि च गुरुकुलवासे च स सगतान स्यादव तत्प्राप्तिरित्याह- विवजेना विशेषेण परिहार वालजनस्यऽऽदेः दूरात दूरेन्य तत्सद्भस्यान्पीयसोऽपि महादोषनिबन्धनतवेनाभिहितत्वात् तत्परिहारेऽपि च न स्वाध्यायतत्परतां विना ज्ञानाऽऽद्यवामिरित्याह स्वाध्याये उक्तरूपे एकान्तेन-इतव्यासङ्गपरिहाराऽऽत्मकेन निवेशनास्थापना स्वाध्यायैकान्तनिवेशना। सा च मनोवाक्कायानामिति गम्यते। पठन्ति च ‘सज्झायएगंतणिसेवणा य' इति / स्वाध्यायस्यैकान्तनिषेवणा-निश्चयेनानुष्ठानं स्वाध्यायकान्तनिषेवणा, सा च तत्रापि 'वृथा श्रुतमचिन्तितम्' इति कृत्वा अमुप्रेक्षव प्रधानेत्यभिप्रायेणाऽऽहंसूत्रास्यार्थ:-अभिधेयः सूत्रार्थस्तस्य (संचिंतणय त्ति) सूत्रत्वात् संचिन्तना सूत्रार्थसंचिन्तना, असयामपि न चित्तस्वास्थ्यं विना ज्ञानाऽऽदिलाभ इत्याह- 'धृतिश्च' चित्तस्वास्थ्यमनुद्विगत्वमित्यर्थ इति सूत्रार्थः। यतश्चैवंविधो ज्ञानाऽऽदिमार्गस्तत एतान्यभिलषता प्राक् किंविधेयमित्याहआहारमिच्छे मियमेसणिजं, सहायमिच्छे निउणत्थबुद्धिं / निकेयमिच्छिन्न विवेगजोग, समाहिकामे समणे तवस्सी॥४॥ 'आहारम्' अशनाऽऽदिकम् 'इच्छेत् अभिलषेत, मितमेषणीयम्, अपेर्गम्यमानत्वादिच्छेदप्येवंविधमेव, आदानभोजने तुदूरोत्सारिते एव, अनेवंविधस्य एवं विधाहार एव ह्यनन्तरोक्तं गुरुवृदसेवाऽऽदि ज्ञानाऽऽदिकारणमाराधयितुं क्षमः / तथा- 'सहाय' सहचरमिच्छेद्रच्छान्तर्वतीं सन्निति गम्यते, निपुणा-कुशला, अर्थेषु-जीवाऽऽदिषु बुद्धिः मतिरस्येति निपुणार्थबुद्धिस्तम् / पठ्यते च-(णिउणेहबुद्धि) तत्र निपुणासुनिरूपिता, ईहा-चेष्टा बुद्धिश्च यस्य स तथा।अनीदृशो हि सहायः स्वाच्छन्द्योपदेशाऽऽदिना ज्ञानाऽऽदिकारणगुरुवृद्ध-सेवाऽऽदिभ्रंशमेव कुर्यादिति। तथा 'निकेतम्' आश्रयमिच्छेद् विवेकः पृथग्भावः स्वयादिसंसर्गाभाव इति यावत्। तस्मै योग्यम् उचितं, तदापाताऽऽद्य-सम्भवेन विवेकयोग्यम्। अविविक्ताऽऽश्रये हि स्त्रयादिसंसर्गाचित्त-विप्लवोत्पत्ती कुतो गुरुवृद्धसेवाऽऽदिज्ञानाऽऽदिकारणं सम्भवेत् ? समाधि कामयतेअभिलषति समाधिकामः, अत्र च समाधिव्यभावभेदाद् द्विभेदः, तत्र द्रव्यसमाधिः क्षीरशर्कराऽऽदिद्रव्याणं परस्परमविरोधेना वस्थानम् / भावसमाधिस्तु ज्ञानाऽऽदीनां परस्परमबाधयाऽवस्थानं तदनन्यत्वाच ज्ञानाऽऽदीनाम, अयमेवेह गृह्यते। तथा च ज्ञानाऽऽद्यवाप्सुकाम इत्युक्तं भवति, श्रमणस्तपस्वीति प्राग्वदिति सूत्रार्थः। कालाऽऽदिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं तदाहन वा लमिज्जा निउणं सहायं, गुणहियं वा गुणओ समं वा। एक्को विपावाइँ विवजयंतो, विहरेज कामेसु असज्जमाणो॥शा 'न' निषेधे, वाशब्दश्चेदर्थे, ततश्च न चेत् 'लभेत्' प्राप्नुयात् 'निपुणम्' इति निपुणबुद्धि 'सहाय' गुणैः ज्ञानाऽऽदिभिरधिकम् अर्गलं गुणाधिकं वा 'गुणत' इति ज्ञानाऽऽदिगुणानाश्रित्य 'समं वा' तुल्यमुभयवाऽऽन्मन इति गम्यते। 'वेति विकल्पे। तत किमित्याह- 'एकोऽपि' असहायोऽपि 'पापानि पापहेतुभूतान्यनुष्ठानानि, 'विवर्जयन्' विशेषण परिहरन् / पठ्यते च- "अणायरंतो त्ति / ' अनाचरन् / 'विहरेत्' संयमाध्वनि यायात्, 'कामेषु ' विषयेषु असज्जन्' प्रतिबन्धमकुर्वन्, तथाविधगीतार्थयतिविषयं चैतत्, अन्यथैकाकि विहारस्याऽऽगमे निषिद्धत्वात् / एतदभिधाने च- "मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवति' इति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम्। इत्थं सप्रसङ्ग ज्ञानाऽऽदीनां दुःखप्रमोक्षोपायत्वमुक्तम्। इदानीं तेषामपि मोहाऽऽदिक्षयनिबन्धनत्वात्तत्क्षयस्यैव प्राधान्येन दुःखप्रमोक्षहेतुत्वख्याफ्नार्थम्, यथा तेषां संभवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्ग तस्तेषां चाभावस्तथाऽभिधातुमाह जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य। एमेव मोहाऽऽयतणं खु तण्हं, मोहं च तण्हाऽऽयतणं वयंति॥६|| यथा चेति ये नैव प्रकारेण, अण्डं - प्रतीतं, ततः प्रभव उत्पतिर्यस्याः साऽण्ड प्रभवा,'बलाका पक्षिविशेषः, अण्डं ब