________________ पमायट्ठाण 452- अभिधानराजेन्द्रः - भाग 5 पमायट्ठाण ह्यते / असंख्यातानामसंख्यातभेदत्वात् / प्रग्रहरथानं तु-प्रकर्षण गह्यतेऽस्य वचनमिति प्रग्रहः-उपादेयवाक्योऽधिपतित्वेन स्थापितः, स च लौकिको, लोकोत्तरश्चा; तस्य स्थानम् / तच लौकिकं पञ्च वाराजयुवराजमहत्तरामात्यकुमारभेदात्। लोकोत्तरमपि पञ्चथैवआचार्योपाध्यायप्रवृत्तिस्थविरगणावच्छेदकभेदात्। 'योधस्थानम्' आलीढाऽऽदि। अवलस्थानंनिश्वलस्थितिरूपं, तत्र सादिसपर्यवसिताऽऽदि परमाण्यादीनाम्। गणनास्थानम्-एककाऽऽदि। सन्धानस्थानम्-द्रव्यतः कञ्चुकाऽऽदिगतम्।भावस्थानम्-औदयिकाऽऽदिको भावस्तिष्ठन्त्यत्र जन्तव इति कृत्वेति गाथात्रयार्थः।। सम्प्रति येनात्र प्रकृतं तदुपदर्शयन्नुपदेशसर्वस्वमाहभावप्पमायपगयं, संखाजुत्ते अमावठाणम्मि। चइऊण इय पमायं, जइयव्वं अप्पमायम्मि / / 522 // भावप्रमादेन उक्तरूपेण प्रकृतम्-अधिकारः, तथा (संख त्ति) सङ्। ख्यास्थानं, तद्युक्तेन, चस्य भिन्नक्रमत्वाद्भावस्थानेन च / कोऽर्थः?. संख्यास्थानेन भावस्थानेन च, सर्वत्र सुव्यत्ययेन सप्तमी। अत्र हि गुरुवृद्धसेवाऽऽद्यभिधानतः, प्रकामभोजताऽऽदिनिषेधतश्च भावप्रमादा निद्राऽऽदयोऽर्थात्परिहर्तव्यत्येनोच्यन्ते, ते चैकाऽऽदिसंख्यायोगित औदयिकभावस्वरूपाश्चेति भावः / त्यक्त्वा विहाय, इतीत्वेवंप्रकार प्रमादम / किमित्याह- "यतितव्यं " यत्नो विधेयः, क्व? 'अप्रमादे' प्रमादप्रतियोगिनि, धर्म प्रत्युद्यम इति गाथार्थः / अस्यैवार्थस्य दृढीकरणार्थमुत्तमनिदर्शनमाहवाससहस्सं उग्गं, तवमाइगरस्स आयरंतस्स। जो किर पमायकालो, अहोरतं तु संकलिअं॥५२३|| बारसवासे अहिए, तवं चरंतस्स बद्धमाणस्स। जो किर पमायकालो, अंतमुहुत्तं तु संकलिअं॥५२४|| वर्षसहस्रमिति कालात्यन्तसंयोगे द्वितीया। ततश्च वर्षसहस्रप्रमाणं कालं यावत् 'उपम्' उत्कट'तपः' अनशनाऽऽदि आदिकरस्य' ऋषभनाम्नो भगवत आचरतो यः किलेतिपरोक्षाऽऽप्तवादसूचकः। 'प्रमादकालः' यत्र प्रमादोऽभूत, यत्तदोरभिसंबन्धात् सोऽहोरात्रं 'तुः' अवधारणे।ततोऽहारात्रमेव, किमयमेकावस्थाभाविनः प्रमादस्य काल उतान्यथेत्याशङ्याऽऽह-सङ्कलितः। किमुक्तं भवति? अप्रमादगुण स्थानस्यान्तीहूर्त्तिकत्वेनानेकशोऽपि प्रमादप्राप्तौ तदवस्थितविषयभूतस्यान्तर्मुहूर्तस्यासंख्येयभेदत्वात्तेषामतिसूक्ष्मतया सर्वसङ्कलनायामप्यहोरात्रमेवाभूत्। तथा द्वादशवर्षाण्यधिकानितपश्चरतो बर्द्धहमानस्य यः किल प्रमादकाल: प्राग्वत्सोऽन्तर्मुहूर्तमेव सङ्कलितः, इहाप्यन्तर्मुहूर्तानामसंख्येयभेदत्वात् प्रमादस्थितिविषयान्तर्मुहूर्तानां सूक्ष्मत्वं, सङ्कलनान्तर्मुहूर्तस्य च बृहत्तरत्वमिति भावनीयम्। अन्ये त्वेतदनुपपत्तिभीत्या निद्राप्रमाद एवायं विवक्षित इति व्याचक्षत इति गाथाद्वयार्थः / इत्थमुत्तमनिदर्शनेनाप्रमादानुष्ठाने दाढर्धमापाद्य विपर्यये दोषदर्शनद्वारेण पुनस्तदेवाऽऽपादयितुमिदमाह जेसिं तु पमाएणं, गच्छइ कालो निरत्थओ धम्मे / ते संसारमणंतं, हिंडंति पमायदोसेणं / / 525 / / 'येषां प्राणिनां, 'तुः' पूरणे, प्रमादेनोपलक्षितानां 'गच्छति' ब्रजति, कालः 'निरर्थकः 'निष्प्रयोजनः,' क्व? -धर्मे' धर्मविषये, धर्मप्रयोजनरहित इत्यर्थः / प्रमादतो हि नश्यन्त्येव धर्मप्रयोजननानि / ते, किमित्याह-संसारम् 'अनन्तम् ' अपर्यवसितं, 'हिण्डन्ते' भ्राम्यन्ति, 'प्रमाददोषेण हेतुनेतिगाथार्थः। यतश्चैवं ततः किं कर्त्तव्यमित्याहतम्हा खलु प्पमायं, चइऊणं पंडिएण पुरिसेणं / दंसणनाणचरित्ते, कायव्वो अप्पमाओ उ॥५२६|| तस्मात् 'खलु' निश्चयेन, प्रमादं त्यक्त्वा, ‘पण्डितेन' बुद्धिमता पुरुषेण, उपलक्षणत्वात् स्त्र्यादिना च / दर्शनं च ज्ञानं च चारित्रं चेति समाहारस्तस्मिन् मुक्तिमार्गतया प्रागभिहिते, 'कर्त्तव्यः' विधेयः, 'अप्रमादः' उद्यमः, 'तुः' अवधारणार्थ इत्यप्रमाद एव, नतु कदाचित्प्रमादः, तस्यैव दोषदुष्टत्वादितिगाथार्थः / इत्य वसितोनामनिष्पन्ननिक्षेषः। सम्प्रति सूत्रानुगमे सूत्रमुचारणीयम् तच्चेदम्अचंतकालस्स समूलयस्य , सव्वस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुग्नचित्ता, सुणेह एगग्गहियं हियत्थं // 1 // अन्तमतिक्रान्तोऽत्यन्तो, वस्तुनश्च द्वावन्तौ- आरम्भक्षणः, समाप्तिक्षणश्च / तथा चान्यैरप्युच्यते- "उभयान्ता परिच्छिन्ना वस्तुसत्ता नित्यतेति।" तत्रेहाऽऽरम्भलक्षणान्तः परिगृह्यते, तथा चात्यन्तः अनादिः कालो यस्य सोऽयमत्यन्तकालस्तस्य, सह मूलेन-कषायाऽऽदिविरतिरूपेण वर्त्तन इति समूलकः प्राग्वत्तस्य। उक्तं हि "मूलं संसारस्य उ, हुंति कसाया अविरती या" 'सर्वस्य निरवशेषस्य,दुःखयतीति दुःखं संसारस्तस्य, असातं चेह दुःखं गृह्यते, अत्र च पक्षे मूलं रागद्वेषौ यः प्रकर्षण मोक्षयति-मोचयतीतिप्रमोक्षः-आत्मनो दुःखापगमहेतुः, पूर्वत्र तुशब्दस्यावधारणार्थस्येह संबन्धात् प्रमोक्ष-एव / तं 'भाषमाणस्य' प्रतिपादयतः, यदि वा-प्रमोक्षः अपगमस्तं भाषमाणस्येति / कोऽर्थः ? -यथाऽसौ अवति तथा बुवाणस्य (मे) मम प्रतिपूर्ण विषयान्तराऽगमनेनाखण्डितं वित्तं चिन्ता वा येषां ते प्रतिपूर्णचित्ताः, प्रतिपूर्णचिन्ता वा। 'शृणुत' अकार्णयत, एकाग्रस्य एकाऽऽलम्बनस्यार्थाचेतसो भाव एकाग्य ध्यानं, तच प्रक्रमाद्धाऽऽदि, तस्मै हितमेकाग्रयहितं, पाठान्तरत एकान्तहितं वा, हितः तत्त्वतो मोक्ष एव, तदर्थमिति सूत्रार्थः। यथा प्रतिज्ञातमाहणाणस्स सव्वस्स पगासणाए, अन्नाणमोहस्स विवज्जणाए। रागस्स दोसस्स य संखाएणं, एगंतसुक्खं समुवेइ मोक्खं / / 2 / /