________________ पएस 25 - अभिधानराजेन्द्रः - भाग 5 पएस सासादन सम्यक्त्वसम्भवेनाऽऽभिनिबोधिकाऽऽदिज्ञानिनामेकाऽऽदीना। स-भवात्त एव षड् भङ्गाः / इह च यथायोगं पृथिव्यादयः, सिद्धाश्च न दाच्याः, असम्भवादिति / एवमवध्यादिष्वपि भङ्ग कत्रयभावना, केवलवयधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धा पूच न वाच्याः मनःपर्यापदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः। अत एव वाचनान्तरे दृश्यते- "विण्णेयं जस्स ॐ अश्वि ति।' (ओहिए अण्णाणे इत्यादि) सामान्ये अज्ञाने त्यज्ञानाऽऽदिभिरविशेषिते मत्यज्ञाने श्रुताज्ञानेच जीवाऽऽदिषु त्रिभड्गी भवति। ते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदातु तदन्ये ज्ञान विमुच्यमत्यऽज्ञानाऽऽदितया परिणमन्ति, तदैकाऽऽदिसम्भवेन सप्रदेशापूचा प्रदेशाश्चेत्यादिभड्गद्वयामित्येवं भङ्ग कत्रयमिति / वृथिव्यादिषु तु सप्रदेशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह- (एगिंदियवज्रो तियभंगो ति) इह च त्रयेऽपि सिद्धा न वाच्याः / विभङ्गे तु जीवाऽऽदिषु मात्रयं, तद्भावना च मत्यज्ञानाऽऽदिवत्केवलमिहैकेन्द्रियविकलेन्द्रियाः सिद्धाश्नवाच्या इति। (सिजोई जहा ओहियो त्ति) सयोगिजीवाऽऽविदण्डकद्रयेऽपि तथा वाच्यो यथौधिको जीवाऽऽदिः। स चैवम्-सयोगी जीदो नियमात्सदेशो, नारकाऽऽदिस्तु सप्रदेशोऽप्रदेशो वा / बहवस्तु जीवाःरप्रदेशांएवः नारकाऽऽद्यारतु त्रिभङ्गवन्त एकेन्द्रियाः पुनस्तृतीयभङ्गा इति / इह सिद्धपदं नाध्येयम्। (मणजोई इत्यादि) मनायोगिनो योगत्रयवन्तः संज्ञिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियाऽऽदयः / एतेषु च जीवाऽऽदिषु त्रिविधो भङ्गः। तद्भावना च मनोयोग्यादीनामवस्थितत्व प्रथमः, अमनोयोगित्वाऽऽदित्यागाच ननोय गित्वाऽऽद्युत्पादेनाप्रदेशत्वलाभेऽन्यद्भङ्ग कद्वयमिति, नवरं काययो गेनो ये एकेन्द्रियास्तेष्वभङ्गक, सप्रदेशाश्चाप्रदेशाश्चे श्रेत्येक एव भड़क इत्यर्थः / एतेषु च योगत्रयदण्डकेषु जीवाऽऽदिपदानि यथासम्भवमध्येयानि, सिद्धपदं च न वाच्यमिति / (अजोगी जहा अलेस ति) दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां ततो द्वितीयदण्डकेऽयोगिषु जीदसिद्धपदयोर्भङ्ग कत्रय, मनुष्येषु च षड्भङ्गीति / (सागारेत्यादि) साकारोपयुक्केष्वनाकारोपयुक्तेषु च नारकाऽऽदिषु त्रयो भङ्गाः। जीवपदे, पृथिव्यादिपदेषु च सप्रदेशाश्वाप्रदेशाश्वेत्येक एव। तत्र चान्यतरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रदेशत्वे भावनीये। सिद्धाना वेकसमयोपयोगत्वेऽपि साकारस्येतरस्यचोपयोगस्यासकृत्प्राप्त्या सप्रदेशत्व, सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम्। एवं चासकृदवाप्तसाकारोपांगा बहूनाश्रित्य सप्रदेशा इत्येको भङ्गः। तानेव सकृदवाप्तसाकारोपयोग चैकमाश्रित्य द्वितीयः / तथा तानेव सकृदवाप्तसाकारोपयोगाश्च बहुनधिकृत्य तृतीयः / अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्य प्रथमः / तानेव सकृत्प्राप्तानाकारोपयोग चैकमाश्रित्य द्वितीयः / उभयेषामप्यनेकत्वे तृतीय इति / (सवेयगा जहा सकसाइ त्ति) सवेदानामपि जीवाऽऽदिपदेषु भङ्ग कत्रयभावात्, एके न्द्रियेषु चैक भङ्ग कसद्भावात् / इह च वेदप्रतिपन्नान्बहून् श्रेणिभंश च वेद प्रतिपद्यमानकानेकादीनपेक्ष्य भङ्गत्रयं भावनीयम्। (इत्थीयेय-गेत्यादि) इह वेदानेदान्तरसंक्रान्ती प्रथमसमये प्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्वाव्य, नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेचेको भङ्गकः / सप्रदेशाश्वाप्रदेशाश्वेत्येवरूपः, प्रागुक्तयुक्तरेवेति। स्त्रीदण्डकपुरूषदण्डकेषु देवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जा-नि वाच्यानि, सिद्धपदं च सर्वेष्वपिन वाच्यमिति। (अवेयगा जहा अकसाइ त्ति) जीवमनुष्यसिद्धपदेषु भङ्ग त्रयमकर्षायिवद्वाच्यमित्यर्थः / (ससरीरी जहा ओहिओ त्ति) औधिकदण्डकवत् सशरीरिदिण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य, नारकाऽऽदिषु तु बहुत्वे भगकत्रयम्, एकेन्द्रियेषु तु तृतीयभङ्ग इति / (ओरालियवेउव्वियसरीराणं जीवेगिंदियवज्जो तियभंगो त्ति) औदारिकाऽऽदिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहुत्वे तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभात्।शेषेषु भङ्ग कत्रयं, बहूनां तेषु प्रतिपनानां तथौदारिकवैक्रियत्यागेनौदारिक वैक्रिय च प्रतिपद्यमानानामेकाऽऽदीनां लाभात् / इहौदारिकदण्डकयोनरिका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, यश्व वैक्रियदण्डके एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते, सचान्यूनानामसङ्ख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य तथा, यद्यपि पञ्चेन्द्रियतिर्यो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे, तथाऽपि च भगवयवचनसामर्थ्याद्वहूनां वैक्रियावस्थानसंभवः / तथैकाऽऽदीनां तत्प्रतिपद्यमानता चावस्या / (आहारगेत्यादि) आहारकशरीरे जीवमनुष्ययोः षड् भङ्ग काः पूर्वोक्ता एवाऽऽहारकशरीरिणमल्पत्वात्, शेषजीवानां तु तन्न सम्भवतीति। (तेयगेत्यादि) तैजसकार्मणशरीरे समाश्रित्य जीवाऽऽदयस्तथा वाच्या यथौधिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तेजसाऽऽदिसंयोगस्य। नारकाऽऽदयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृतीयभङ्गाः, एतेषु च शरीराऽऽदिदण्डकेषु सिद्धपदं नाध्येयमिति। (असरीरेत्यादि) अशरीरेषु जीवाऽऽदिषु सप्रदेशताऽऽदित्वेन वक्तव्येषु जीवसिद्धपदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राऽशरीरत्वस्याभावादिति / (आहारपज्जत्तीए इत्यादि) इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहाराऽऽदिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाऽऽहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशाश्वाप्रदेशाश्वेत्येक एव भङ्गः, शेषे तु त्रयो भगा इति / (भासामणेत्यादि) इह भाषामनसोः पर्याप्तिः भाषामनःपर्याप्तिः, भाषामनः पर्याप्त्योस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्च तया पर्याप्तका यथा संज्ञिनस्तथा सप्रदेशाऽऽदितया वाच्याः, सर्वपदेषु भङ्गत्रयमित्यर्थः / पञ्चेन्द्रियपदान्येव चेह वाच्यानि। पर्याप्तीनां चेदं स्वरूपमाहुः-येन करणेन भुक्तमाद्दारं खलं रस च कर्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः / करणं शक्तिरिति पर्यायौ / तथा शरीरपर्यापि मयेन करणेनौदारिकवैक्रियाऽऽहारकाणां शरीराणां योग्यानि द्रव्याणि गृहीत्वादारिकाऽऽदिभावेन परिणमयति तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति, तथा येन करणेनैकाऽऽदीनामिन्द्रियाणां प्रायोग्यानि द्रध्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनाऽऽनप्राणप्रायोग्यानि द्रव्याण्यवलम्ब्याऽऽनप्राणतया निस्स्रष्टुसमर्थो भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा येन करणेन सत्याऽऽदिभाषायाः प्रायोग्यानि द्रव्याण्यवलम्व्य चतुर्विधभाषया परिणमय्य भाषानिसर्जनसमर्थो भवति तस्य करणस्य निष्पत्तिभाषापर्याप्तिः / तथा येन करणेन चतुर्विध