________________ पमाय 450 - अभिधानराजेन्द्रः - भाग 5 पमाय श्लाघतायाम,प्रभ०१ संब० द्वार / प्रमदनं प्रमादः / प्रमत्ततायाम्, सदुपयोगाभावे, स्था०। छविहे पमाएपण्णत्ते तं जहा- मज्जपमाए, णिद्दापमाए, विसयपमाए, कसायपमाए, जूयपमाए, पडिलेहणापमाए। षड्विधः षट्प्रकारः प्रमदनं प्रमादः, प्रमत्तता सदुपयोगाभाव इत्यर्थः। प्रज्ञप्तः / तद्यथा-मद्यं सुराऽऽदिस्तेदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादः / स्था / (तद्दोषः 'मन्ज' शब्दे दर्शयिष्यते) निद्रा प्रतीता। | (तद्दोषश्व 'णिद्दापमाय' शब्दे चतुर्थभागे 2072 पृष्ठे दर्शितः) विषयाः शब्दाऽऽदयस्तेषां चैवं प्रमादता (ताम् 'विसयपमाय' शब्दे वक्ष्यामि) कषायाः क्रोधाऽऽदयः, तेषामप्येवं प्रमादता "चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते / यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः / / 1 / / " इति / द्यूतं प्रतीतं, तदपि प्रमाद एव / (तद्दोषः 'जूयप्पमाय' शब्दे चतुर्थभागे 1584 पृष्ठेदर्शितः) तथा-प्रत्युपेक्षणं प्रत्युपेक्षणा, सा चद्रव्यक्षेत्रकालभावभेदाचतुर्दा / तत्र द्रव्यप्रत्युपेक्षणावस्त्रपात्राऽऽधुपकरणानामशनपानाऽऽद्याहाराणां चक्षुर्निरीक्षणरूपा / क्षेत्रप्रत्युपेक्षणा-कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा / कालप्रत्युपेक्षणा धर्मजागरिकाऽऽदिरूपा। यथा- "कि कय किं वा सेस, किं करणिज तवं च न करेमिः पुष्वावत्तरकाले, जागरओ भावपडिलेहा / / 412 // " इति / (अस्या गाथाया अर्थः 'पडिलेहणा' शब्देऽस्मिन्नेव भागे 341 पृष्ठ गतः) तत्र प्रत्युपेक्षणायां प्रमादः शैथिल्यमाज्ञाऽतिक्रमो वा प्रत्युपेक्षणाप्रमादः / अनेन च प्रमार्जनाभिक्षाचार्याऽऽदिषु इच्छाकारमिथ्याकाराऽऽदिषु च दशविधसामाचारोरूपव्यापारेषु यः प्रमादोऽसात्रुपलक्षितः, तस्याऽपि सामाचारीगतत्वेन षष्टप्रमादलक्षणव्यभिचारित्वादित। स्था०६ठा०। अष्ट प्रमादाः-सम्प्रति ''अट्टाहा पमाय त्ति' सप्तोत्तरद्विशततम द्वारमाहपमाओ य मुणिंदेहि, भणिओ अट्ठभेयओ। अन्नाणं 1 संसओ चेव 2, मिच्छानाणं ३तहेव य॥१२२२|| रागो 4 दोसो 5 सइब्मंसो 6, धम्मम्मि य अणायरो 71 जोगाणं दुप्पणीहाणं 8, अट्ठहा वजियव्वओ॥१२२३।। प्रमाद्यति मोक्षमार्ग प्रति शिथिलीद्यगो भवत्यनेन प्राणीति प्रमादः। स / च मुनीन्द्रः तीर्थकृद्भिर्मणितः प्रतिपादितो भवत्यऽष्टभेदोऽष्टप्रकारः / तद्यथा-अज्ञानं मूढता, संशयः किमेतदेवं स्यादुतान्यथेति संदेहः, मिथ्याज्ञातं विपर्यस्तताप्रतिपत्तिः, रागोऽभिष्वङ्गः, द्वेषोऽप्रीतिः, स्मृतिभ्रंशो विस्मरणशीलता, धर्मे चाहत्प्रणीतेऽनादरोऽनुद्यमः, योगानां मनोवाक्कायाना दुष्प्रणिधानं दुष्टताकरणम्, अयं चाष्टविधोऽपि प्रमादः कर्मबन्धहेतुत्वाद्धर्जयितव्यः परिहर्तव्य इति। प्रव०२०७ द्वार। उत्त०। ध०। पञ्चा०1भा उणह पमायं / ' 'अमानोनाः प्रतिषेधे' मा कुर्वीथाः कषाययोगाऽऽदिभिः प्रमादम्। पं० चू०२ कल्प०। अप्रमादधुतनिक्षेपमभिधातुमाहनिक्खेवो अपमाए, चउव्विहो दुविहो य होइ दव्वम्मि। आगम नोआगमतो, नो आगमतो य सो तिविहो / / 504 / / / जाणगसरीरभविए, तव्वइतिरित्ते अमित्तमाईसु / भावे अन्नाणअसं-वराईसु होइणायव्यो / / 505 / / (अमित्तामाईसु त्ति) अमित्राः शत्रवः, अदिशब्दाव्यालाऽऽदिपरिग्रहः। तेषु योऽप्रमादः सः, तद्व्यतिरिक्तोऽप्रमाद उच्यते / द्रव्यत्वं चाऽस्य तथाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा (भाये इति) भावे विचार्य अज्ञान मिथ्याज्ञानमसंवरोऽनिरूद्धाऽऽश्रवता, आदिशशब्दात्कषायाऽऽदिपरिग्रहः। एतेषु प्रक्रमादप्रमादः-एतज्जयं प्रति सदा सावधानतारूपो भवति ज्ञातव्यः / उत्त० 26 अ० / "निद्दापमायमाई-सु सई तु खलियस्स सारणा होइ। नणु कहियं ते पमाया, मा सीयसु तेसु जाणंतो॥४६६।।" बृ०१ उ०२ प्रक०। तं तह दुल्लहभं, विज्जुलयाचंचलं मणुस्सत्तं। लभ्रूण जो पमायइ, सो कापुरिसो न सुप्पुरिसो।। तत्माहनुषत्वंतथा पूर्वोक्तप्रकारेण दुर्लभलाभं दुष्प्रापलाभं विद्युल्लताचञ्चल लब्ध्वा यः प्रमाद्यति प्रमादं करोति स कापुरूषो, न सत्पुरुषः / आ०म०१ अ०। उत्त०। प्रमादस्यैव विशेषतोऽपायहेतुतामाहपव्वजं विजं पिव, साहंतो होइ जो पमाइलो। तस्स न सिज्झइ एसा, करेइ गरूयं च अवगारं / / 111 / / प्रव्रज्या जिनदीक्षां विद्यामिव स्त्रीदेवताऽधिष्ठितामिव साधयन् भवति यः (पमाइल्लो त्ति) प्रभादवान्, "आल्विल्लोल्लाल-वंत-मन्तेत्तेरमणा मतोः / / 8 / 2 / 166 / / इतिवचनात् / तस्य प्रमादवतो न सिद्ध्यति न फलदानाय संपद्यते, एषा पारमेश्वरी दीक्षा विद्येव। चकारस्य भिन्नकमत्वात्, करोति च गुरूं महान्तमपकारमनर्थमिति। भावार्थः पुनरयम्यथा अत्र प्रमादवतः साधकस्य विद्या फलदा न भवति, ग्रहसंक्रमाऽऽदिकमनर्थ च संपादयति, तथा शीतलविहारिणो जिनदीक्षाऽपि न केवलं सुगतिसंपत्तये न भवति, किं तु दुर्गतिदीर्घभवभ्रमणापायं च विदधाति, आर्यमङ्गोरिव। उक्तं च "सीयलविहारओ खलु, भगवंताऽऽसायणानिओएण। पत्तो भयो सुदीहो, किलेसबहुलो जओ भणियं / / 1 / / तित्थयरपवयणसुय, आयरियं गणहरं महिड्डीयं। आसायंतो बहुसो, अणंतसंसारिओ भणिओ // 2" इति। तस्मादप्रमादिना साधुना भवितव्यमिति। ध० 20 3 अधि० 4 लक्षा (आर्यमङ्गुकथा अजमंगु' शब्दे प्रथमभागे 211 पृष्ठे गता) प्रमादस्यैव युक्त्यन्तरेण निषेधमाहपडिलेहणाइ चिट्ठा, छक्कायविधाइणी पमत्तस्स। भणिया सुयम्मि तम्हा, अपमाई सुविहिओ हुज्जा / / 112 / / प्रत्युपेक्षणा प्रतिलेखना, आदिशब्दाद्भसनाऽऽदिपरिग्रहः / चेष्टा क्रिया व्यापार इत्येकार्थाः / पट्कायविघातिनी प्रमत्तस्य सार्धाभणितोक्ता श्रुते सिद्धान्ते। तद्यथा "पडिलेहणं कुणंतो, गिहिकहं कुणइ जणवयकह वा। देह व पचक्खाणं, वाएइ सयं पडिच्छइ वा / / 438 / /