SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ पमाण 476 - अभिधानराजेन्द्रः - भाग 5 पमाण अथ फलस्य साध्यत्वं समर्थयन्तेस्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलं तु साध्यं प्रमाणनिष्पाद्यत्वात्॥१६|| यत्प्रमाणनिष्पाद्य, तत्साध्यम्, यथोपादानबृद्ध्यादिक, प्रमाणनिष्पाद्यं च प्रकृतं फलमिति / तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् / सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था, तद्भावविरोधात् / न हि सारूप्यमस्य प्रमाणम्, अधिगतिः फलमिति सर्वथा तादात्म्ये सिद्धयति, अतिप्रसक्तेः / ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम्, अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्याऽपि प्रमाणफलव्यवस्थेति चेत् / नैवम् / स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः / कथं च प्रमाणस्याप्रमाणाफलव्यावृत्त्या प्रमाणफलव्यवस्थावत्प्रमाणान्तरफलानतरव्यावृत्त्या अप्रमाणत्वस्याऽफलत्वस्थ च व्यवस्था न स्यात? इति // 16 // अथ प्रसङ्गतः कर्तुरपि सकाशात्प्रस्तुतफलस्य भेदं समर्थयन्तेप्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदः 17 कर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः / / 17 / / अत्र हेतुमाहुःकर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात्॥१८॥ ये साध्यसाधनभावेनोपलभ्येते, ते भिन्ने, यथा देवदत्तदारूच्छिदिक्रिये, साधसाधकभावेनोपलभ्यते च प्रमातृस्वपरव्यवसितिलक्षणक्रिये।।१८।। एतद्धत्वसिद्धतां प्रतिषेधन्तिकर्ता हि साधकः, स्वतन्त्रत्वात्; क्रि या तु साध्या, कर्तृनिर्वय॑त्वात् ||16 // स्वमात्मा तन्त्रं प्रधानमस्येति स्वतन्त्रस्तद्भावस्तत्त्वं तस्मात् / यः क्रियायां स्वतन्त्रः स साधको, यथा दारूच्छिदायां वश्वनः, स्वतन्त्रश्च स्वपरव्यवसितिक्रियायां प्रमातेति / स्वतन्त्रत्वं कर्तुः कुतः सिद्धम् ? इति चेत् / क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्षितत्वात् / स्वपरव्यवसितिलक्षणा क्रिया पुनः साध्या, कर्तृनिर्वय॑त्वात, या कर्तनिर्वा क्रिया, सा साध्येतिव्यवहारयोग्या, यथा सम्प्रतिपन्ना,तथा च स्वपरव्यवसितिक्रियेति / तदेवं कर्तृक्रिययोः साध्यसाधकभावेन प्रतीयमानत्वादुपपन्नः कथञ्चि-द्भेदः / / 16 / / एनमेवार्थं द्रढयन्तिनच क्रिया क्रियावतः सकाशादमिन्नेव, भिन्नैव वा, प्रतिनियतक्रियाक्रियावद्रावभङ्गप्रसङ्गात्।।२०।। अभिन्नैवेत्यनेन सौगतस्वीकृतमभेदैकान्त, भिन्नैवेत्यनेनतु वैशेषिकाऽऽद्यभिमतं भेदैकान्तं प्रतिक्षिपन्तिक्रियायाः क्रियावत एकान्तेनाभेदे हि क्रियावन्मात्रमेव तात्त्विकं स्यात्, न तु द्ववम्, अभेदप्रतिज्ञाविरोधात्। एकान्तभेदे तु क्रिया क्रियाक्तोर्विवक्षितपदार्थस्यैवेयं क्रियेति संबन्धावधारण न स्यात् / भेदाविशेषादशेषवस्तूनामप्यसौ किं न भवेत् ? न च समवायोऽत्र नियामकतया वक्तुं युक्तः, तस्याऽपि व्यापकत्वेनतन्नि यामकतायामपर्याप्तत्वात् / तस्माद्भेदाभेदैकान्तपक्षयोः प्रतिनियतक्रियावद्भावभङ्गप्रसङ्गः सुव्यक्त इति कथञ्चिदविष्वग्भूतैव क्रिया क्रियावतः सकाशादङ्गीकर्तुमुचिता / / 20 / / कश्चिदाह-कल्पनाशिल्पिनिर्मिता सर्वाऽपि प्रमाणफलव्यवहुतिरिति विफल एवायं प्रमाणफलाऽऽलम्बनः स्याद्वादिनां भेदाभेदप्रतिष्ठोपक्रम इति तन्मतमिदानीमपाकुर्वन्ति संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापाः, परमार्थतः स्वाभिमतसिद्धिविरोधात्॥२१|| अयमर्थः-सांवृतप्रमाणफलव्यवहारवादिनाऽपि सांवृतत्वं प्रमाणफलयोः परमार्थवृत्त्या तावदेष्टव्यम् / तच्चाऽसौ प्रमाणादभिमन्यते, अप्रमाणाद्वा? न तावदप्रमाणात्, तस्या किञ्चित्करत्वात् / अथ प्रमाणात् / तन्न / यतः सांवृतत्वग्राहकं प्रमाणं सांवृतम्, असांवृतं वा स्यात् ? यदि सांवृतम् / कथं तस्मादपारमार्थिकात्पारमार्थिकस्य सकलप्रमाणव्यवहारसांवृतत्वस्य सिद्धिः? तथा च पारमार्थिक एव समस्तोऽपि प्रमाणफलव्यवहारः प्राप्तः। अथ प्रमाणफलसांवृतत्वग्राहक प्रमाणं स्वयमसांवृतमिष्यते, तर्हि क्षीणा सकलप्रमाणफलव्यवहारसांवृतत्वप्रतिज्ञा, अनेनैव व्यभिचारात्। तदेव सांवृतसकलप्रमाणफलवयवहारवादिनो व्यक्त एव परमार्थतः स्वाभिमतसद्धिविरोध इति॥२१॥ प्रस्तुतमेवार्थं निगमयन्तिततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरूषार्थसिद्धिहेतुःस्वीकर्तव्यः॥२२॥ रत्ना०६ परि०। स्या०| (12) इदानीं ये प्रमाणादेकान्तेनाभिन्नं प्रमाणफलमाहुः, ये च बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते, तन्मतस्य विचार्यमाणत्वे विशरारूतामाहुः न तुल्यकालः फलहेतुभावो, हेतौ विलीने न फलस्य भावः। नसंविदद्वैतपथेऽर्थसंविद्विलूनशीर्ण सुगतेन्द्रजालम्।१६। बौद्धाः किल प्रमाणात्तत्फलमेकान्तेनाऽभिन्नं मन्यन्ते। तथा च तत्सिद्वान्तः- "उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात्।'' अस्य व्याख्या- (उभयत्रेति) प्रत्यक्षेऽनुमाने च, तदेव ज्ञानं प्रत्यक्षाऽनुमानलक्षणं फलं कार्यम् / कुतः ? अधिगमरूपत्वादिति परिच्छेदरूपत्वात्। तथाहि-परिच्छेदरूपमेव ज्ञानमुत्पद्यते / न च परिच्छेदादृतेऽन्यत ज्ञानफलम् अभिन्नाऽधिकरणत्वात्। इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति / एतच न समीधीनम्। यतो यद्यस्मादेकान्तेनाऽभिन्नं, तत्तेन सहैवोत्पद्यते, यथा घटेन घटत्वम्। तैश्च प्रमाणफलयोः कार्यकारणभावोऽभ्युपगम्यतेप्रमाणं कारणं, फलं कार्यमिति / स चैकान्ताऽभेदे न घटते। न हि युगपदुत्पद्यमानयोस्तयोः सव्येतरगोविषाणयोरिय कार्यकारणभावो युक्तः नियतप्राक्कालभावित्वात्कारणस्य, नियतोत्तरकालभावित्यात्कार्यस्य। एतदेवाऽऽह-"नतुल्यकालः फलहेतुभावः'' इति / फलं कार्य, हेतुः कारणम्, तयोर्भावः स्वरूपं, कार्यकारणभावः स तुल्यकालः समानकालोन युज्यत इत्यर्थः। अथ क्षणान्तरितल्यात्तयोः क्रमभावित्वं भविष्यतीत्याशङ्कयाऽऽह- "हेतौ विलीने न फलस्य भावः''
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy