________________ पमाण 475 - अभिधानराजेन्द्रः - भाग 5 पमाण योग नुपपत्तेरनुमानरूपत्वात् / न च सपक्षसद्भावासद्भावकृतोऽनुमानार्थापत्त्योर्भेदः, पक्षधर्मातासहितादनुमानात्तद्रहितस्य प्रमाणान्तरत्वानुषङ्गात् / न च पक्षधर्मत्ववन्ध्यमनुमानमेव नास्तीति वाच्यम्- "पित्रोच ब्राहाणत्वेन, पुत्रब्राह्मणताऽनुमा। सर्वलोकप्रसिद्धान, पक्षधर्ममपेक्षते // 1 // '' इति भट्टेन स्वयमेवाभिधानात्। रत्ना०२ परि० / भगवतीपञ्चमशतके चत्वारिप्रमाणान्युक्तानि, रत्नावतारिकायां तु द्वे कथम् ? इति प्रश्ने उत्तरम्-रत्नावतारिकायां तु परोक्षप्रमाणेऽनुमानोपमानाऽऽगमलक्षणप्रमाणत्रयस्यान्तर्भावविवक्षया प्रमाणद्यमुक्तमस्तीति बोध्यम् // 2 // ही०२ प्रका०। प्रत्यक्षानन्तर परोक्षं लक्षयन्तिअस्पष्टं परोक्षम् ||1|| प्राकसूत्रितस्पष्टत्वाभावभ्राजिष्णु यत् प्रमाणं तत्परोक्ष लक्षयितव्यम्। अथैतत् प्रकारतः प्रकटयन्तिस्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पश्चप्रकारम् स्पष्टम्।।२।। रत्ना०३ परि०। सम्म०। सूत्र०। (11) प्रमाणफलम्-एवं प्रमाणस्य लक्षणसंख्याविषयानाख्याय फलं स्फुटयन्ति - यत्प्रमाणेन साध्यते तदस्य फलम्।।१।। यद् वक्ष्यमाणभज्ञाननिवृत्त्यादिकं प्रत्यक्षाऽऽदिना प्रमाणेन साधकतमेन साध्यते, तदस्य प्रमाणस्य फलमवगन्तव्यम्।।१।। अथैतत्प्रकारत्तो दर्शयन्तितद् द्विविधम्-आनन्तर्येण, पारपर्येण च / / 2 / / तत्राऽऽद्यभेदामादर्शयन्तितत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम्।३। अज्ञानस्य विपर्ययाऽऽदेर्निवृत्तिः प्रध्वंसः स्वपरव्यवसितिरूपाफलं बोद्धव्यम्॥३॥ अथापरप्रकारं प्रकाशयन्तिपारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम्॥४॥ औदासीन्सं साक्षात्समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहान्माध्यस्थ्यमुपेक्षेत्यर्थः / कुत इति चेत्। उच्यते-सिद्धप्रयोजनत्वात् के वलिमा सर्वत्रौदासीन्यमेव भवति, हेयस्य संसारतत्कारणस्य हानादुपादेयस्य मोक्षतत्कारणस्योपादानात सिद्धप्रयोजनत्वं नासिद्धं भगवताम् // 4 // अथ केवलव्यतिरिक्तप्रमाणानां परम्पराफलं प्रकटयन्तिशेषप्रमाणानां पुनरूपादानहानोपेक्षाबुद्धयः / / 5 / / पारम्पर्येण फलमिति संबन्धनीयम्। तत उपादेये कुड्कुमका मिनीकपूराऽऽदावर्थे ग्रहणबुद्धिः, हेये हिममकराङ्गाराऽऽदी परित्यागबुद्धिः, उपेक्षणीयेऽर्थानाप्रसाधकत्वेनोपादानहानान] जरतृणादौ वस्तुन्युपेक्षाबुद्धिः पारम्पर्येण फलमिति॥५॥ प्रमाणात्फलस्य भेदाभेदैकान्तवादिनो यौगसौगतान्निराकर्तुं स्वमतं च व्यवस्थापयितुंप्रमाणयन्ति तत्प्रमाणतः स्याद् भिन्नमभिन्नं च प्रमाणफलत्वान्यथाऽनुपपत्तेः||६|| तदिति प्रकृतं फलं परामृश्यते / / 6 / / अथात्राऽऽशक्य व्यभिचारमपसारयन्तिउपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोयभिचार इति न विभावनीयम्।।७।। प्रमाणफलं च भविष्यति, प्रमाणात् सर्वथा भिन्न च भविष्यति, यथोपादानबुद्धयादिकमिति न परामर्शनीय यौगैरित्यर्थः // 7 / / अत्र हेतुःतस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः॥८॥ एकप्रमातृतादात्म्यमपि कुतः सिद्धमित्याशङ्कयाहु:प्रमाणतया परिणतस्यै वाऽऽत्मनः फलतया परिणतिप्रतीतेः / / यस्यैवाऽऽत्मनः प्रमाणाऽऽकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः / / 6 / / एतदेव भावयन्तियः प्रमिमीते स एवो पादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहा-रिभिरस्खलितमनुभवात् ||10|| न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽन्यश्चोपादानहानोपेक्षाबुद्धिपर्यायस्वभावतयेति कस्याऽपि सचेतसोऽनुभवः समस्तीत्यर्थः // 10 // यथोक्तार्थानभ्युपगमे दूषणमाहुःइतरथा स्वपरयोःप्रमाणफलव्यवस्थाविप्लवः प्रसज्ज्येत।११। इतरथेत्येकस्यैव प्रमातुः प्रमाणफलतादात्म्यानङ्गीकारे इमे प्रमाणफले स्वकीये, इमे च परकीये इति नैयत्यं न स्यादिति भावः / तदित्थमुपादानाऽऽदौ व्यवहितेफले प्रमाणादभेदस्याऽपि प्रसिद्धेन तेन प्रकृतहेतोर्व्यभिचार इति सिद्धम् // 11 // अथ व्यभिचारान्तरं पराकुर्वन्तिअज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्त इति नाऽऽशङ्कनीयम्॥१२।। प्रमाणफलं च स्यात्, प्रमाणात् सर्वथाऽप्यभिन्नं च स्याद्यथाऽज्ञाननिवृत्तिरित्यनयो कान्कित्वं प्रमाणफलत्वान्यथाऽनुपपत्तेर्हेतोरिति न शङ्कनीय शाक्यैः / / 12 / / कुत इत्याहकथञ्चित्तस्याऽपि प्रमाणाद्भेदेन व्यवस्यानात्॥१३॥ कथञ्चिदिति वक्ष्यमाणेन प्रकारेण ||13|| तमेव प्रकार प्रकाशयन्तिसाध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् 14 ये हि साध्यसाधनभावेन प्रतीयते।तेपरस्परं भिद्येते. यथा कुठारच्छिदे, साध्यसाधनभावेन प्रतीयते च प्रमाणाऽज्ञाननिवृत्त्याख्यफले॥१४|| अस्यैव हेतोरसिद्धता परिजिहीर्पयः प्रमाणस्य साधनतां तावत्समर्थयन्तेप्रमाणं हि करणाऽऽख्यं साधनं, स्वपरव्यवसितौ साधकतमत्वात् // 15 // यत्खलु क्रियायां साधकतमं, तत्करणाऽऽख्यं साधनं, यथा परश्वधः, साधकतमं च स्वपरव्यवसितौ प्रमाणमिति।।१५।।