________________ पमाण 474 - अभिधानराजेन्द्रः - भाग 5 पमाण स्तल्लक्षणनिश्चया कि तेनैव, उतान्येन ? यदि तेनैव, तदा पूर्ववदित- | रेतरऽऽश्रय अथ प्रमाणान्तरेण, तदा तदपि निश्चित लक्षणम्, अन्यथा वेत्यनवस्था / तन्न निश्चितलक्षणमिति पक्षः / नाप्यनिश्चितलक्षणमिति वाच्यम् / यत आह-अलक्षितादनिर्णीतिलक्षणात्प्रमाणलक्षणनिश्वायकात्प्रमाणात, कथं केन प्रकारेण, न कथञ्चिदित्यर्थः / युक्ता सङ्गता, न्यायतो नीत्याऽस्य प्रमाणलक्षणस्य, विनिश्चितिनिीतिः। अयमभिप्रायः-निश्चितलक्षणेन प्रमाणेन विनिश्चित्य प्रमाणलक्षणं वक्तव्यं भवतीति न्यायः। न च विकीर्षितं प्रमाणव्युत्पादकशास्त्रं विना प्रमाणलक्षणविनिश्चायकप्रमाणस्य लक्षणनिश्चयः, ततश्चानिश्चितलक्षणमेव तदित्यलक्षिणतात् प्रमाणान्न युक्ता तल्लक्षणविनिश्चितिरिति / / 6 / / अथानिश्चितलक्षणादपि प्रमाणात्प्रमाणलक्षणनिश्चिति भविष्यतीत्थस्यामाशङ्कायामाहसत्यां चास्यां तदुक्त्या किं, तद्विषयनिश्चिते। तत एवाविनिश्चित्य, तस्योक्तिन्ध्यिमेव हि।।७। सत्यां भवन्त्या, चशब्दः पुनरर्थः / अस्यामनन्तरोक्तयाम् , अनिणीतलक्षणात्प्रमाणात्प्रमाणलक्षणनिश्चितौ, तदुक्त्या प्रमाणलक्षणप्रतिपादनेन किं? न किञ्चित्प्रयोजनमित्यर्थः / कुत इत्याह-तद्वत्प्रमाणलक्षणवद्विषयनिश्चिते प्रमेयपरिच्छेदात्। यथाहि-अनिर्णीतलक्षणेनापि प्रमाणेन प्रमाणलक्षणं निश्चीयते, एवं चिकीर्षितलक्षणेन प्रमाणेन प्रमेयस्याऽपि निश्चितप्रसङ्गाद्व्यर्थं प्रमाणलक्षणप्रणयनमिति भावः / तदेवं प्रमाणेन विनिश्चित्य तदुच्येतेति पत्तो निराकृतः। अथानिश्चित्येतिपक्षस्य दूषणायाऽऽह-तत एवेति, यत एव प्रमाणेनविनिश्चित्य प्रमाणलक्षणमतिपादनमुक्तयुक्त्या मोहरूपं वर्तते, तत एवाविनिश्चित्य प्रमाणेनाविनिणीय तदुक्तिः प्रमाणलक्षणप्रतिपादनम्। किमित्याहधिया बुद्धेरान्ध्यमन्धत्वं संमोहो ध्यान्ध्यं तदेव वर्तते, प्रमाणलक्षणप्रति पादयितुर्मूढतैव, निप्फलाऽऽयासनिबन्धनत्वात्तस्या इति भावना। हिशब्दो यस्मादर्थे / तस्याश्वोत्तरश्लोके तस्मादित्यनेन संबन्ध इति / / 7 / / एवं प्रमाणलक्षणविचारस्य निष्प्रयोजनतामनुपायतां चोपदोपसंहारतः प्रक्रान्तां धर्मवादस्यैव विधेयतां दर्शयन्नाहतस्माद्यथोदितं वस्तु, विचार्य रागवर्जितैः। धर्मार्थिभिः प्रयत्नेन, तत इष्टार्थसिद्धितः॥८॥ यस्मात्प्रमाणाऽऽदिलक्षणविचार: प्रयोजनाऽऽदिविरहितस्तस्त्राद्धे तोर्यथोदितं पूर्वोक्तवस्तुनोऽनतिवृत्तं व खल्वेतानि युत्यन्त इत्यादिरूपं, वस्तु धर्मसाधनस्वरूपमर्थजातं, विचार्य विवेचनीयं किंविधैः कैरित्याहरागवर्जितः स्वदर्शनपक्षपातरहितैः उपलक्षणत्वाच्चाऽस्य परदर्शनद्वेषवियुक्तरित्यपि दृश्यम् / धर्मार्थिभिर्धर्मप्रयोजनिभिः, तदन्यैस्तु वस्त्वन्तरमपि वत्ताररणीयं स्यादिति विशेषणफलम्। कथम् ? प्रयत्नेनाऽऽदस्य। किमित्येवमित्याह ततो धर्मसाधनविषयविधारात्, इष्टार्थसिद्धितो धर्मलक्षणवाञ्छितार्थप्राप्तेः कारणादिति ॥८॥हा०१३ अष्टः / (10) प्रमाणसंख्या। एवं प्रमाणस्य स्वरूप प्रतिपाद्य संख्यांसमाख्यान्तितद दिसेदम प्रत्यक्ष परोक्षं, चेति / / 1 / / रत्ना०२ परि०। (अस्य सूत्रस्य व्याख्या 'पच्चक्ख' शब्दे ऽस्मिन्नेव भागे गता) से किं तं पमाणे ? पमाणे चउव्विहे पण्णत्ते / तं जहा-पचक्खे, अणुमाणे, ओवमे, आगमे जहा अणुओगदारे तहा णेयव्वं पमाणं० जाव तेण परंणो अत्ताऽऽगमे, णो अणंतरागमे, परंपरागमे। भ०५ श०४ उ०। ननु कथमेतद् द्वैतमुपपद्यते ? यावता प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकोऽवोचत्, अपरे तु प्रत्यक्षानुमानाऽऽगमोपमानार्थापत्यभावसंभवैति ह्यप्रातिभस्वभावान भूयसो भेदान् प्रमाणस्य प्रोचुः, तत्कथमेतत् ? इति चेत्। उच्यते-सप्तर्थयिष्यमाणप्रमाणभावेनानुमानेन तावच्चार्वाकस्तिरस्करणीयः / अपरे तु सम्भवत्प्रमाणभावनामत्रैवान्तर्भावने बोधनीयाः। तत्राऽनुमानागप्तौ परोक्षप्रकारावेव व्याख्यास्येते, उपमानं तु नैयायिकमते तावत् कश्चित्प्रेष्यः प्रभुणा प्रेषयांचफ्रे गवयमानयेति। स गवयशब्दवाच्यार्थमजानानः कञ्चन वनेचरं पुरूषमप्राक्षीत् कीदृग् गवय इति? स प्राऽऽह-यादृगु गौस्तादृगु गवय इति। ततस्तस्य प्रेष्यपुरुषस्यारण्यानीं प्राप्तस्याऽऽप्तातिदेशवाक्यार्थस्मरणसहपारि गोसदृशगवयपिण्डज्ञानम् 'अयं स गवयशब्दावाच्याऽर्थः' इति प्रतिपत्तिं फलरूपामुत्पादयत्प्रमाणमिति / मीमासकमते तु यत् प्रतिपत्त्रा गौरूपलब्धो न गवयो, न वाऽतिदेशवाक्यं गौरिव गवयः' इति श्रुतं, तस्य विकटाटवीपर्यटनलम्पटस्य गवयदर्शन प्रथमे समुत्पन्ने सति यत् परोक्षे गवि सादृश्यज्ञानमुन्मजति- 'अनेन सदृशः सगौः' इति, 'तस्य गोरनेन सादृश्यम्' इति वा तदुपमानम्- 'तस्माद्यत् स्मर्यते तत्स्यात्सादृश्ययेन विशेषितम्। प्रमेयमुपमानस्य, सादृश्य वा तदन्वितम् // 1 // इति वचनादिति / तदुच्यते-एतच्च परोक्षभेदरूपायां प्रत्यभिज्ञाया मेवान्तर्भावयिष्यते अर्थापत्तिरपि- ''प्रमाणषट्कविज्ञातो, यत्रार्थाऽनन्यथाभवन् / अदृष्ट कल्पयेदन्य, साऽर्थापत्तिरूदाहृता // 1 // " इत्यवलक्षणाऽनुमानान्तगतैव / तथाहि-अर्थापत्त्युत्थापकोऽर्थोऽन्यथाऽनुपपद्यमानत्वेनानवगतः, अवगतो वा दृष्टार्थपरिकल्पननिमितं स्यात् ? न तावदनवगतः, अतिमसद्भात् / अथावगतः, तर्धन्यथाऽनुपपद्यमानत्वावगमोऽर्थापत्तरेव, प्रमाणान्तराद्वा ? प्राच्यप्रकारे परस्पराऽऽश्रयः। तथाहि-अन्यथाऽनुपपद्यमानत्वेन प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिः, तत्प्रवृत्तेश्वास्यान्यऽथानुपपद्यमानत्वप्रतिपत्तिरिति / प्रमाणान्वरं तु भूयोदर्शनं, विपक्षे उनुपलम्भो वा ? भूयोदर्शनमपि साध्यधर्मिणि, दृष्टान्तधर्मिणि वा ? यदि साध्यधर्मिणि, तदा भूयोदर्शननैव साध्यस्याऽपि प्रतिपन्नत्यादर्थापतेयर्थ्यम् / अथ दृष्टान्तधर्मिणि, तर्हि तक प्रवृतं भूयोदर्शनं साध्यधर्मिण्यन्यथाऽनुपपद्यमानत्वं निश्चाययति, नत्रैव वा? तत्रोत्तरः पक्षोऽसन, न खलु दृष्टान्तधर्मिणि निश्चितान्यथ, नुपपद्यमानत्वोऽर्थः साध्यधर्मिणि तथात्वेनानिश्चितः स्वसाध्यं गमयति, अतिप्रसङ्गात / प्रथमपक्षे तु लिङ्गार्थापत्त्युत्थापकार्थयोर्भेदाभावः। विपक्षेऽनुपलम्भात् तदवगम इति चेत् / नन्वसावनुपलम्भमात्ररूपोऽनिश्चितो, निश्चितो वा तदवगमयेत् ? प्रथमपक्षे, तत्पुत्रत्वाऽऽदेरपि गमकत्वाऽऽपत्तिः / निश्चितश्चेत्, तहनुमानमेवार्था पत्तिरापन्ना, निश्चितान्यथाऽ