________________ पमाण 473 - अभिधानराजेन्द्रः - भाग 5 पमाण विषयो गोचरो, धर्मसाधनलक्षण इति योगः। कस्य ? -धर्मवादस्योक्तलक्षणस्य, कथमित्याह-तस्य तस्येति वीप्सायां द्विवचनम् / तन्त्रस्य शास्त्रस्य षष्टितन्त्राऽऽदेर्विशिष्टाऽपेक्षा निश्रा तत्त-तन्त्रव्यपेक्षा, तथा यद्यदर्शनं प्रति वादी समाश्रितस्तत्तदपेक्षयेत्यर्थः / किं यावांस्तदभ्युपगतदर्शनार्थोऽभिधीये तावदपेक्षोऽसौ धर्मवादविषयः ? नैवमित्याह प्रस्तुतार्थो मुमुक्षूणां मोक्षार्थ एव, तत्रोपयोगःप्रयोजनभावो यस्याऽस्ति सप्रस्तुतार्थोपयोगी, सएव नान्योऽपिधर्मवादविषयः। कश्वासावित्याहधर्मस्य कर्मानुपादाननिर्जरणलक्षणस्यसाधनानि हेतवोऽहिंसाऽऽदीनि, तानि लक्षणं स्वभावो यस्य स तथेति॥१॥ धर्मसाधनान्येवाऽऽहपञ्चैतानि पवित्राणि,सर्वेषां धर्मचारिणाम। अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम्।।२।। पञ्चेति संख्या, एतानि वक्ष्यमाणानि पवित्राणि पावनानि, सर्वसंमतत्वात्तेषाम् / सर्वेषां समस्तानां जैनसाङ् ख्यबौद्धवैशेषिकाऽऽदीना, धर्मचारिणां धार्मिकाणाम्। कानि तानीत्याह-अहिंसाप्राणबधविरतिः। सत्यम्-ऋतम्। अस्तेयम्-अचौर्यम्।त्यागः-सर्वसंत्यजनम्। मैथुनवर्जनम्-अब्रह्मविरतिरिति सर्वसंमतत्वं चैषामेवम्-जैनस्तावहेतानि महाव्रतान्यभिधीयन्ते, सांख्ययासमतानुसारिभिश्चयमाः। यस्तेआहुः‘‘पश्चयमाः, पञ्च नियमाः।" तत्र यमाः "अहिंसा सत्यमस्तेयं ब्रह्मचर्यमव्यवहारश्चेति''। नियमास्तु-"अकोधो गुरुशुश्रूषा, शौचमाहारलाघवम्। अप्रमादश्चेति।" पाशुफ्तैस्तुधर्मशब्देनोक्तानि। यतस्ते दश धर्मानाहुः / तद्यथा'अहिंसा सत्यवचन-मस्तैन्यं चाप्यकल्पना। ब्रह्मचर्य तथाऽक्रोधा ह्यार्जवे शौचभेव च / / 1 / / संतोषो गुरुशुश्रूषा, इत्येते दश कीर्तिताः।" भागेवतैस्तु व्रतशब्दे नोच्यन्ते-यदाहुस्ते- "पञ्चव्रतानिपञ्चोपव्रतानि।" तत्र व्रतानि-यमाः। उपव्रतानितु-नियमाः-बौद्धः पुनरेतानि कुशलधर्मा उक्ताः / यास्ते- "दश कुशलानि' / थातच "हिंसा स्तैन्योऽन्यथाकाम, पैशुन्यं पुरूषानृतं। संभिन्नाऽऽलापे व्यापाद-मभिध्यां दीग्वपर्ययम्।।१।। पापं कमेंति दशधा, कायवाङ् भानसैस्त्यजेत्।" अत्र च "अचान्यथाकाम'' पारदार्यम्, संभिन्नाऽऽलापोऽसंबद्धभाषणं, व्यापादः परपीडाचिन्तनम्, अभिध्या धनाऽऽदिष्वसन्तोषः, परिग्रह इति तार्पयम् / दृग्विपर्ययो मिथ्याभिनिवेशः, एतद्विपर्ययाश्च दश कुशलधर्मा भवन्तीति / वैदिकैस्तु ब्रह्मशब्देनैतान्यभिहितानीति / / 2 / / यद्येतानि पवित्राणि ततः किमित्याहक खल्वेतानि युज्यन्ते, मुख्यवृत्त्या क्व वा न हि। तन्त्रे तत्तन्त्रनीत्यैव, विचार्य तत्त्वतो ह्यदः // 3 // धर्मार्थिभिः प्रमाणाऽऽदे-र्लक्षणं न तु युक्तिमत् / प्रयोजनाऽऽद्यभावेन, तथा चाऽऽह माहमतिः॥४|| क्न कस्मिन्तन्त्र इति योगः। खलुक्यालङ्कारे। एतान्यनन्तरोदितान्यहिंसाऽऽदीनि,युज्यन्ते घटन्ते, मुख्यवृत्त्वाऽनुपचारेण, क्व वा कस्मिन्या तन्त्रे (न हि) नैव युज्यन्ते इत्यनुवर्तते / तन्त्रे बौद्धादिसिद्धन्ते, कथं युज्यन्ते कथं वा न युज्यन्त इत्याह-तस्यैव बौद्धादेस्तन्त्रस्य शास्त्रस्य नीतिरात्मादिपदार्थाना सत्त्वाखत्त्वनित्यानित्यत्वादिका व्यवस्था तत्तन्त्रनीतिः, तथैव न तु शास्त्रान्तरनीत्या, एकाशास्त्रोक्तप्रकाराणां ह्यहिंसाऽऽदीनामन्यशास्त्रन्यायेनायुज्यमानतायाः स्फुटमेव प्रतीयमानत्वादिति। किमित्याह-हिशब्दस्यैवकारार्थत्वात् अद एव, एतदेवानन्रोक्तं विचार्य विचारणीय, तत्त्वतः परमार्थेन, वस्त्वन्तरविचारणे धर्मवा-दाभावप्रसङ्गात्। कैर्विचार्यमित्याह-धर्मार्थिभिर्धार्मिकैः / उक्तविपर्ययमाह-प्रमाणस्य प्रत्यक्षाऽऽदेः, आदिशब्दात्प्रमेयस्य आत्माऽऽदेः लक्षणं तदन्यव्यवच्छेदकं स्वरूपम् / यथा- 'स्वपरावभासि ज्ञानं प्रमाणम्।' इत्यादि तुशब्दः पुनरर्थः, ननैव, युक्तिमत् उपपत्त्युपेतं, विन्त्रार्यमाणमिति शेषः / केन हेतुनेत्याह-प्रयोजनं फलं तदादिर्यस्योपायाऽऽदेः प्रयोजनाऽऽदिस्तस्याऽभावोऽसत्ता प्रयोजनाऽऽद्यभावस्तेन, प्रमाणलक्षणविचारणस्य प्रयोजनाऽऽद्यभावेन हेतुनेत्यर्थः / प्रयोगश्वात्रैवम्-प्रमाणाऽऽदिलक्ष्णविचारणं न युक्तिमत्-प्रयोजनाऽऽद्यभावात्, यद्यत्प्रयोजनाऽऽदिरहितं तत्तन्नविचारणक्षमम, प्रयोजनाऽऽदिरहितं च प्रमाणादिलक्षणविचारणमिति तन्न युक्तिमदिति। न चायमसिद्धो हेतुः, सिद्धसेनसूरिवचनप्रतिष्ठितत्वादस्य। एतदेवाह-तथा चाऽऽह महामतिःतथा च तेनैव प्रकारेण निष्प्रयोजनत्वेन, 'आह' ब्रूते, इह तत्कालापेक्षो वर्तमाननिदेशः / कोऽसावित्याह-महामतिः-अतिशयवत्प्रज्ञः सिद्धसेनाऽऽचार्य इत्यर्थः // 3 // 4 // एतदेवाऽऽहप्रसिद्धानि प्रमाणनि, व्यवहारश्च तत्कृतः। प्रमाणलक्षणस्योक्तौ, ज्ञायते न प्रयोजनम्।।५।। प्रसिद्धानि लोके स्वत एव रूढानि न तु प्रमाणलक्षणप्रमातृवचनप्रसाधनीयानि, प्रमाणानि प्रत्यक्षाऽऽदीनि / तथा-व्यवहरणं व्यवहारः स्नानपानदानदहनपाचनाऽऽदिका क्रिया। चशब्दः प्रसिद्धत्वसमुचयार्थः / तत्कृतः प्रमाणप्रसाध्यः, प्रमाणलक्षणप्रधीणानामपि गोपालबालाऽऽदीनां तथाव्यवहारदर्शनात् / ततश्चैवं सति प्रमाणलक्षणस्य विसंवादिज्ञानं प्रमाणमित्यादि उक्तौ प्रतिपादने, ज्ञायते उपलभ्यते (न) नैव, प्रयोजनं फलम्, उपलमभार्ह सत् यन्नोपलभ्येत तन्नास्तीत्यभिप्रायः / इह च नास्तीति मुख्यवृत्त्या वक्तव्य सत्यपि यत् ज्ञायते नेत्युक्तमाचार्येण तदपि वचनपारूष्यपरिहारार्थमिति / / 5 / / एवं तावत् प्रमाणलक्षणप्रतिपादने प्रयोजनाभाव उक्तोऽथ तत्रैवोपायाभावप्रतिपादनायाऽऽहप्रमाणेन विनिश्रत्य, तदुच्येत न वा ननु / अलक्षितात् कथं युक्ता, न्यायतोऽस्य विनिश्चितिः।६। नन्विति प्रमाणलक्षणप्रणायकमनाशङ् कायाम्. ततश्वाऽऽह-प्रमाणलक्षणम्, प्रमाणतः प्रमाणेन प्रत्यक्षादिना विनिश्चत्य निर्णीय, तत् प्रमाणलक्षणमुच्येताभिधीयेत त्वया न वेति अन्यथा वा? तत्र यद्याद्यः पक्षस्तदा यत्तत्प्रमाणलक्षणनिश्चायक प्रमाण तल्लक्षणतो निश्चितमनिश्चितं वा स्यात? यदि निश्चितं तत्तदा किं तेनैवाधिकृतप्रमाणेन, प्रमाणान्तरेण वा तत्र यदि तेनैव तदेतरेतराऽऽश्रयः। तथाहि-प्रमाणातल्लक्षणनिश्चयः तल्लक्षण निश्चये चतत्प्रमाणमिति यावत् तल्लक्षणं न निश्चितं न तावत् प्रमाणस्य प्रमाणत्वं, यावच्च न प्रमाणन्य प्रामाण्यं नतावल्लक्षणनिश्चय इति। नपि प्रमाणान्तरेण तल्लक्षणनिश्चयः, अन्वस्थापत्तेः तथाहि-यत्तत्प्रमाणान्तरंतन्निश्चिततल्लक्षणम्, अन्यथावा? अन्यथा वक्ष्यमाणदोषापत्तेः नाऽपि निश्चितलक्षणं, यत