________________ पमाण 472 - अभिधानराजेन्द्रः - भाग 5 पमाण से किं तं पएसणिप्फण्णे ? पएसणिप्फण्णे एगसमयट्ठिईए, दुसमयट्ठिईए, तिसयमहिईए.जाव दससमयट्ठिईए असंखिज्जसमयट्टिईए ! से तं पएसनिप्फण्णे / 136 / नवरमिह प्रदेशाः कालस्य निर्विभागा भागाः, तैर्निष्पन्नं प्रदेशनिष्पन्नं, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्ख्येयसमयस्थितिकोऽसङ्ख्ययैः कालप्रदेशैर्निर्वृत्तः, परस्त्वकेन रूपेण पुद्गलाना स्थितिरेव नास्ति, प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया।।१३६।।।। से किं तं विभागनिप्फण्णे ? विभागणिप्फण्णे-अणेगविहे / पण्णत्ते / तं जहासमयावलिअमुहुत्ता, दिवसअहोरत्तपक्खमासा य। सवच्छरजुगपलिआ, सागरओसप्पिपरिअट्टा" |137 / विभागनिष्पन्नं तु समयाऽऽदि / तथा चाऽऽह-समयाऽऽवलियगाहा / / 137 / / अनु०। भायप्रमाणम्से किं तं भावप्पमाणे? भावप्पमाणे तिविहे पण्णत्ते। तं जहागुणप्पमाणे, नयप्पमाणे, संखप्पमाणे।।१४६।। भवनं भावो वस्तुनः परिणामो ज्ञानाऽऽदिर्पणोऽऽदिश्च, प्रमिति प्रमीयते अनेन प्रमीयते वा इति प्रमाणम्, भाव एव प्रमाणं भावप्रमाणम् / भावसाधनपक्षे प्रमितिः वस्तुपरिच्छेदस्तद्धेतुत्वाद्भावस्य प्रमाणताऽवसेवा। तच भावप्रमाण त्रिविधं प्रज्ञप्तम् / तद्यथा- 'गुणप्रमाणभित्यादि।' गुणो ज्ञानाऽऽदिः, स एव प्रमाणं गुणप्रमाणं, प्रमीयते च गुणव्या गुणाश्च गुणरूपतया प्रमीयन्तेऽतः प्रमाणता / / 146 / / अनु०। (नयप्रमाणस्वरूपम् ‘णय' शब्दे चतुर्थभागे१८७६ पृष्ठे उक्तम् ) संख्यानं संख्या, सैव प्रमाणं संख्याप्रमाणमा अनु०। से किं तं गुणप्पमाणे? गुणप्पमाणे दुविहे पण्णत्ते ? तं जहाजीवगुणप्पमाणे, अजीवगुणप्पमाणे य॥ तत्र गुणप्रमाणं द्विधा-जीवगुणप्रमाणं च, अजीवगुणप्रमाणं च। त्वाऽल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाहसे किं तं अजीवगुणप्पमाणे ? अजीवगुणप्पमाणे पंचविहे पण्णत्ते / तं जहा- वण्णगुणप्पमाणे, गंधगुणप्पमाणे, रसगुणप्पमाणे, फासगुणप्पमाणे, संठाणगुणप्पमाणे। ('से किं तं अजीयगुणप्पमाणे' इत्यादि) एतत्सर्वमपि पावासिद्धम्। से किं तंवण्णगुणप्पमाणे ? वण्णगुणप्पमाणे पंचविहे पण्णते। तं जहा-कालवण्णगुणप्पमाणे०जाव सुकिल्लवण्ण गुणप्पमाणे / से तं वण्णगुणप्पमाणे / से किं तं गंधगुणप्पमाणे ? गंधगुणप्पमाणे दुविहे पण्णत्ते। तं जहा-सुरभिगंधगुणप्पमाणे, दुरभिगंधगुणप्पमाणे य / से तं गंधगुणप्पमाणे / से किं तं रसगुण प्पमाणे ? रसगुणप्पमाणे पंचविहे पण्णत्ते / तं जहा- तित्तरसगुणप्पमाणे०जाव महुररसगुणप्पमाणे / से तं रसगुणप्पमाणे / से किं तं फासगुणप्पमाणे ? फासगुणप्पमाणे अट्ठविहे पण्णत्ते। तं जहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे। से तं फासगुणप्पमाणे। से किं तं संठाणगुणप्पमाणे ? संठाणगुणप्पमाणे पंचविहे पण्णत्ते / तं जहा-परिमंडलसंठाणगुणप्पमाणे, वट्टसंठाणगुणप्पमाणे, तंससंठाणगुणप्पमाणे, चउरंससंठाणगुणप्पमाणे / से तं अजीवगुणप्पमाणे। (परिमंडलेति) नवरं परिमण्डलसंस्थानं बलयाऽऽदिवत्, वृत्तमयोगोलकवत्, त्र्यत्रं त्रिकोणं श्रृङ्गाटकफलवत्, चतुरस्रं समचतुष्कोम्, आयतंदीर्घमिति। से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पण्णत्ते। तं जहा-णाणगुणप्पमाणे, दंसणगुणप्पमाणे, चरित्तगुणप्पमाणे / / जीवस्य गुणा ज्ञानाऽऽदयस्तद्रूपंप्रमाणं जीवगुणप्रमाणं, तच ज्ञानदर्शनचारित्रगुणभेदात्रिधा। से किं तंणाणगुणप्पमाणे ? णाणगुणप्पमाणे चउटिवहे पण्णत्ते / तं जहा-पचक्खे, अणुमाणे, ओवम्मे, आगमे / / तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम् / तद्यथा-प्रत्यक्षम्, अनुमानम्, उपमानम्, आगमः / तत्र 'अशू' व्याप्तौ इत्यस्य धातोरश्नुते - ज्ञानाऽऽत्मना अर्थान् व्याप्रोतीति अक्षोजीवः। 'अश' भोजने इत्यस्य वा अनातिभुङ् के पालयति वा सर्वार्थानित्यक्षोजीव एव / आश्रितमक्ष प्रत्यक्षमिति, "अत्यादयः क्रान्ताऽऽद्यर्थे द्वितीयया / " (का० रू०४३०) इति समासः। जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञान वर्तते तत्प्रत्यक्षमित्यर्थः, अन्ये त्वक्षमक्ष प्रति वर्तत इत्यव्ययीभाव समासं विदधति, तच्चन युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्. दृश्यते चेयं, प्रत्यक्षा बुद्धिः, प्रत्यक्षो बोधः, प्रत्यक्ष ज्ञानमिति दर्शनात्, ततो यथादर्शितस्तत्पुरूष एवायम्। अनु० / (प्रत्यक्षप्रमाणम् ‘पञ्चक्ख' शब्देऽस्मिन्नेव भागे विस्तरतो गतम्) (अनुमानगुणप्रमाणस्वरूपम्) 'अणुमाण' शब्दे प्रथमभागे 403 पृष्ठे गतम्) अव (उप) मानप्रमाणस्वरूपनिरूपणम् 'ओमाण' शब्दे तृतीयभागे 60 पृष्ठे दर्शितम्) (आगमप्रमाणनिरूपणम् 'आगम' शब्दे द्वितीयभागे 52 पृष्ठे कृतम्) (दर्शनगुणप्रमाणम् 'दसणगुणप्पमाण' शब्दे चतुर्थभागे 2428 पृष्ठे दर्शितम् ) चरित्रगुणप्रमाणम् 'चरित्तगुणप्पमाण' शब्दे तृतीयभागे 1147 पृष्ठे दर्शितम्) यथार्थहिंसाऽऽदिनिषेकमेव शासनम्। भ० 5 श० 4 उ०। (E) अनन्तरं वादा उक्तस्तिषां च मध्ये मुख्यवृत्त्या धर्मवाद एव विथेय इतितद्विष्ज्ञयमुण्दर्शयन्नाहविषयो धर्मवादस्य, तत्तत्तन्त्रव्यपेक्षया। प्रस्तुतार्थोपयोग्येव, धर्मसाधनलक्षणः।।१।।