________________ पमाण 471 - अभिधानराजेन्द्रः - भाग 5 पमाण जहा-नामप्पमाणे, ठवणप्पमाणे, दब्वप्पमाणे, भावप्पमाणे / / (पमाणे चउविहे इत्यादि) प्रमीयते परिच्छिद्यते वस्तु निश्चीयतेऽनेनेति प्रमाणम् / नाम-स्थापना-द्रव्य-भावस्वरूपं चतुर्विधम्। अनु० / (नामप्रमाणव्याख्या 'णामप्पमाण' शब्दे चतुर्थभागे 2001 पृष्ठे गता) (स्थापनाप्रमाणव्याख्या 'ठवणप्पमाण', शब्दे चतुर्थभागे 1676 पृष्ठे समुक्ता) से किं तं दय्वप्पमाणे? दव्यप्पमाणे छविहे पण्णत्ते / तं जहाधम्मत्थिकाए. जाव अद्धासमए। से तं दव्वप्पमाणे। अयमत्र भावार्थ:-धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड् द्रव्यविषयाणि नामानि द्रव्यमेव प्रमाणं तेन निष्पन्नाति द्रव्यप्रमाणनामानि, धर्मास्तिकायाऽऽदिद्रव्यं विहाय न कदाचिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्पर्यम् / अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेत्, उच्यतां, को दोषः ? अनन्तधर्माऽऽत्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्यपदेशताया अदुष्टत्वात्, एवमन्यत्रापि यथासम्भव वाच्यमिति / अनु० / (धर्मास्तिकायव्याख्या तदेकार्थिकानि च / 'धम्मत्थिकाय' शब्दे चतुर्थभागे 2718 पृष्ठे व्याख्यातानि) (अधर्मास्तिकायव्याख्या अधम्मत्थिकाय' शब्दे प्रथमभागे 567 पृष्ठे गता) (अद्धासमय-व्याख्या 'अद्धासमय' शब्दे प्रथमभागे 565 पृष्ठे गता) से किं ते पमाणे? पमाणे चउविहे पण्णत्ते। तं जहा-दव्वप्पमाणे, खेत्तप्पमाणे, कायप्पमाणे, भावप्पमाणे // 232 / / अनु०। तत्र प्रमितिः प्रमीयते वा परिच्छिद्यते येनार्थस्तत्प्रमाणं, तत्र द्रव्यमेव प्रमाणं दण्डाऽऽदिद्रव्येण वा धनुरादिना शरीराऽऽदेर्द्रव्येर्वा दण्डहस्ताड् गुलाऽऽदिभिर्द्रव्यस्य वा, जीवाऽऽदेव्याणा वा, जीवधर्माधर्माऽऽदीना, द्रव्ये वा परमाण्वादौ पर्यायाणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणम् / एवं यथायोगे सर्वत्र विग्रहः कार्यः। तत्र द्रव्यप्रमाणं द्वेधा- | प्रदेशनिष्पन्न,विभागानिष्पन्नं च। तत्राऽऽद्यं परमाण्वाद्यनन्तप्रदेशिकान्त विभागनिष्पन्नं पञ्चधा मानाऽऽदि / तत्र मानं धान्यमानं सेतिकाऽऽदि।। रसमानं कर्षाऽऽदि 1, उन्मानं तुलाकर्षाऽऽदि 2, अवमानं हस्ताऽऽदि 3, गणितमे-काऽऽदि 4, प्रतिमानं गुञ्जावल्लाऽऽदीति 5 / क्षेत्रमाकाश तस्य प्रमाणं द्विधा प्रदेशनिष्पन्नाऽऽदि। तत्र प्रदेशनिष्पन्नमेकप्रदेशा- | वगाढाऽऽदि असंख्येयप्रदेशावगाढान्तम् / विभागनिष्पन्नमड्गुलाऽऽदि, कालःसमयस्तन्मानं द्विधा-प्रदेशनिष्पन्नमेकसमयस्थित्यादि असंख्येयसमयस्थित्यन्तम्। विभागनिष्पन्नं समयावलिकेत्याऽऽदि। क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो जीवाऽऽदिद्रव्यविशेषकत्येनानयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः। भाव एव भावाना वा प्रमाण भावप्रमाणं गुणनयसंख्याभेदभिन्नं, तत्र गुणा जीवस्य ज्ञानदर्शनचारित्राणि / तत्र ज्ञानं प्रत्यक्षानुमानोपमानाऽऽगमरूपं प्रमाणमिति नया नैगमाऽऽदयः, संख्या एकाऽऽदिकेति। स्था०४ठा० 1 उ० / आव० / दर्शा नि०चू०। सूत्र० / आ०म० / व्य०। विशे०। उत्त०। ( ‘से किं तं पमाणे' इत्यादि) प्रमीयतेपरिच्छिद्यते धान्यद्रव्याऽऽद्यनेनेति प्रमाणम्असतिप्रसृत्यादि, अथवा इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनि- यतस्वरूपतया प्रत्येकं प्रमीयते-परिच्छिद्यते यत्तत्प्रमाणयथोक्तमेव, यदि वा धान्यद्रव्याऽऽदेरेव प्रमितिः-परिच्छेदः स्वरूपावगमः प्रमाणम्, अत्र पक्षेऽसतिप्रसृत्यादेस्तद्धेतुत्वात् प्रमाणता, तच प्रमाण द्रव्याऽऽदिप्रमेयवशाचतुर्विधम्। तद्यथा-द्रव्यविषयं प्रमाणं द्रव्यप्रमाणम्। अनु० / से किं तं दवप्पमाणे? दव्वप्पमाणे दुविहे पण्णत्ते / तं जहापएसनिप्फण्णे अ, विभागनिप्फण्णे अ / से किं तं पएसनिप्फण्णे? पएसनिप्फण्णे अणेगविहे पण्णत्ते। तं जहा-परमाणुपोग्गले दुपएसिए.जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अणंतपएसिए। से तंपएसनिप्फण्णे / से किं तं विभागनिप्फण्णे ? विभागनिप्फण्णे पंचविहे पण्णत्ते / तं जहामाणे, उम्माणे, अवमाणे, गणिमे, पडिमाणे। तत्र द्रव्यप्रमाणं द्विविधम्-प्रदेशनिष्पन्नं विभागनिष्पन्नं च। तत्र प्रदेशाएकद्विपाद्यणवस्तैर्निष्पन्नं प्रदेशनिष्पन्नं, तत्रैकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिकः, प्रदेशत्रयघटितस्त्रिप्रदेशिकः, एवं यावदनन्तैः प्रदेशैः सम्पन्नोऽतन्तप्रदेशिकः। नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नेवम् , प्रमेयस्यापि द्रव्याऽऽदेः प्रमाणतया रूढत्वात् / तथाहिप्रस्थकाऽऽदिप्रमाणेन मित्वा पुञ्जीकृत धान्याऽऽदि द्रव्यमालोक्य लोको वक्तारो भवन्तिप्रस्थकाऽऽदिरयं पुञ्जीकृतस्तिष्ठतीति, ततश्चैकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यताऽदुदैव, करणसाधनपक्षे त्वेकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु तत्स्वरूपयोगादुपचारतः, भावसाधनतायां तु प्रमितेः प्रमाणप्रमेयाधीनत्वादुपचारादेव प्रमाणप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं कर्मसाधनपक्षे परमाण्यादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः / इदं च यथोत्तरमन्यान्यसंख्योपेतैः स्वगतैरेव प्रदेशनिष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तं, द्वितीयं तु स्वगत-प्रदेशान् विहाथापरो विविधो विशिष्टो वा भागो भङ्गो विकल्पः प्रकार इति यावत्तेन निष्पन्न विभागनिष्पन्नम् / तथाहि-न धान्यमानाऽऽदेः स्वगतप्रदेशाऽऽश्रयणेन स्वरूपं निरूपयिष्यते। अपितु "दो असईओ पसई" इत्यादिको यो विशिष्टः प्रकारस्तेनेति। तच्च पञ्चविधं, तद्यथामानम्, उन्मानम्,अवमान, गणिम, प्रतिमानम्,। अनु. / (परमाणुपुद्रलव्याख्या ‘परमाणुपोग्गल' शब्दे वक्ष्यते) (मानस्वरूपम् 'माण' शब्दे वक्ष्यते)(उन्मानव्याख्या 'उम्माण' शब्दे द्वितीयभागे 847 पृष्ठे गता) (अवमानव्याख्या 'ओमाण' शब्दे तृतीयभागे 6. पृष्ठे गता) (गणिमव्याख्या 'गणिम' शब्दे तृतीयभागे 824 पृष्ठे प्रतिपादिता) (प्रतिमानव्याक्या ‘पडिमाण' शब्देऽस्मिन्नेव भागे 335 पृष्ठे गता) (क्षेत्रप्रमाणव्याख्या 'खेत्तप-माणं' शब्दे तृतीयभागे 770 पृष्ठे गता) से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते। तं जहापएसणिप्फण्णे, विभागणिप्फण्णे अ॥१३५।। गतार्थमेव // 135||