________________ पमाण 470 - अभिधानराजेन्द्रः - भाग 5 पमाण ऽसत्प्रतिभासे कश्चिद्विशेषः / यथाऽन्यदेशाऽऽद्यवस्थितमाकारं कुतश्चिद् भमनिमित्तात् ज्ञानं दर्शयति, तथाऽविद्यावशादत्यन्तासन्तमपि किन दर्शयति? तथा च कथं शून्यवादान्मुक्तिः? तथा परतः प्रामाण्यमपि मिथ्यात्वाऽऽशङ्कायां कस्य चित् ज्ञानस्य बाधकाभावान्वेषणाद्वक्तव्यम् / तदन्वेषणे च सापेक्षत्वं प्रमाणानामपरिहार्य विपरीतख्यातौ / ततो न कस्यचित् ज्ञानस्य मिथ्यात्वं तदभावान्नान्यदेशकालाकारार्थप्रतिभासो, नाऽपि बाधकाभावापेक्षा / भ्रान्ताभिमतेषु तु तथा व्यपदेशः, स्मृतिप्रमोषात्। तथाहि-इदं रजतमिति प्रतीताविदमितिपुरो व्यवस्थितार्थमतिभासं, रजतमिति पूर्वावगतरजतस्मरणं, सादृश्याऽऽदेः कुतश्चिन्निमित्तात्, तचच्स्मरणमपि, स्वरूपेण नाऽवभासते इति स्मृतिप्रमोष उच्यते / यत्र स्मरामीतिप्रत्ययस्तत्र स्मृतेरप्रमोषः, यत्र स्मृतित्वेऽपि स्मरामीति रूपाप्रवेदनं कुतश्चिद् कारणात, स्मृतिप्रमोषाऽभिधीयते / अस्मिन्मते रजतमिति यत्फलसंवेदनं; तत्किं प्रत्यक्षफलस्य सतः, किं वा स्मृतेः? यदि प्रत्यक्षफलस्य; तदा यथेदमिति प्रत्यक्षफलं प्रतिभाति, तथा रजतमित्यपि; ततश्च तुल्ये प्रतिभासे, एकं प्रत्यक्षम्, अपरं स्मरणमिति किं कृतो विशेषः ? अथोक्तं स्मरणस्याऽपि सतस्तद्रूपानवगमात्तेनाऽऽकारेणावगमः। तत्किं रजमित्यत्राप्रतिपत्तिरेव, तस्यां चाऽभ्युपगम्यमानायां कथं स्मृतिप्रमोषः ? अन्यथा मूछाद्यवस्थायामपि स्यात् / अथेदमिति तत्र प्रत्ययाभावान्नाऽसौ। नन्विदमित्यत्राऽपि वक्तव्यं; किमा-भाति? पुरोऽवस्थितं शुक्तिशकलमिति चेत्। ननु किं प्रतिभासमानत्वेन तत्तत्र प्रतिभाति, उत सन्निहितत्वेन ? प्रतिभासमानत्येन तथाभ्युपगमे, न स्मृतिप्रमोषः / शुक्तिकाशकले हि स्वगतधर्मविशिष्ट प्रतिभा समाने, कुतो रजतस्मरणसंभावना ? न हि घटग्रहणे पटस्मरणसंभवः / अथ शुक्तिकार जतयोः सादृश्यात् शुक्तिप्रतिभासे रजतस्मरणम् / न / तस्य विद्यमानत्वेऽप्यकिञ्चित्करत्वात् / यदाह्यसाधारणधर्माध्यासितं शुक्तिस्वरूपंप्रतिभाति, तदा कथं सदृशवस्तुस्मरणम् ? अन्यथा सर्वत्र स्यात् / सामान्यमात्रग्रहणे हि तत्कदाचिद्भवेदपि; नासाधारणस्वरूपप्रतिभासेतन्नेदमित्यत्र शुक्तिकाशकलस्य प्रतिभासनात्तथाव्यपदेशः। सन्निहितत्वेनाप्रतिभासमानस्याऽपितद्विषयत्वाभ्युपगमे, इन्द्रियसंबद्धानां तद्देशवर्तिनामण्वादीनामपि प्रतिभासः स्यात्। न चाऽप्रतिभासमानामिन्द्रियाऽऽदीनामिव प्रतीतिजनकानामपि तद्विषयता सङ्गच्छते / तन्नेदमित्यत्र शुक्तिकाशकलप्रतिभासः / नापि रजतमित्यत्र स्मृतित्वेऽपि तस्याः स्वरूपेणाऽनवगमात्प्रमोष इत्यभ्युपगमो युक्तः। अथ स्मृतिरप्यनुभवत्वेन प्रतिभातीति तत्प्रमोषोऽभ्युपगम्यते / नन्वेव सैव शून्यवादपरतःप्रामाण्यभयादनभ्युपगम्यमाना विपरीतख्यातिरापतिता। न चात्रा प्रतिपत्तिरेव / रजतमित्येवं स्मरणस्यानुभवस्य वा प्रतिभासनात् // इदमदम्पर्यम्-अर्थसंवेदनमपरोक्ष सामान्यतो दृष्ट लिङ्गं यदि ज्ञातृव्यापारानुमापकमभ्युपगम्यते, तदा स्मृतिप्रमोषे रजतमित्यत्र संवेदनम्, उतासंवदेनम् ? प्रतिभासोत्पत्तेः संवेदनेऽपि, रजतमनुभूयमानतया न संवेद्यते। स्मृतिप्रमोषाभावप्रसङ्गात्। नाऽपि स्मर्यमाणतया। प्रमोषाभ्युपगमात्। विपरीतख्यातिस्तुनाभ्युपगम्यते। तद्रजतभित्यत्र संवेदनस्यापरोक्षत्वाभ्युपगमेऽपि,प्रतिभासाभावः प्रसक्तः। किंच-स्मृतिप्रमोषः पूर्वोक्तदोषद्वयभयादभ्यपगतः; तच तदभ्यु पगमेऽपि समानम्। तथाहि-सम्यग्रजतप्रतिभासेऽपि आशङ्कोत्पद्यतेकिमेष स्मृतावपि स्मृतिप्रमोषः, उत सम्यगनुभव इति सापेक्षत्वाद्वाधकान्वेषणे परतः प्रमाण्यम् ? तत्र च भवन्मतेनानवस्था प्रदर्शितैव। यत्र हि स्मृतिप्रमोषस्तत्रोत्तरकालभावी बाधकप्रत्ययो, यत्र तु तदभावस्तर स्मृतिप्रमोषासंभव इति कथं न बाधकाभावापेक्षायां परतः प्रामाण्य - दोषभयस्यावकाशः ? शून्यवाददोषभयमपि स्मृतिप्रमोषाभ्युपगमेऽवश्यंभावि / तथा हि-ध्वस्तश्रीहर्षाऽऽद्याकारोऽनुत्पन्नशङ्खचक्रवाद्याकारश्च ज्ञाने यः प्रतिभाति, सोऽवश्यं ज्ञानरचितोऽसत्प्रतिभाति / रजताऽऽदिस्मृतेरप्यसन्निहितरजताऽऽकारप्रतिभासस्वभावत्वात्तत्सत्यं तदुत्पत्तावसन्निहितं नोपयुज्यत इति असदर्थविषयत्वे ज्ञानस्य, कथं शून्यवादभयाद्भवतः स्मृतिप्रमोषवादिनो मुक्तिः ? तन्न स्मृतिप्रमोषः। कश्वायं स्मृतिप्रमोषः-किं स्मृतेरभावः, उतान्यावभासः, आहोस्वित् अन्याऽऽकारवेदित्वामिति विकल्पाः? तत्र नासौ स्मृतेरभावः / प्रतिभासाभावप्रसङ्गात् / अथान्यावभासोऽसौ / तदाऽत्राऽपि वक्तव्यम्-किं तत्कालोऽन्यावभासोऽसौ, अथोत्तरकालभावी ? यदि तत्कालभावी अन्यावभासः स्मृतेः प्रमोषः,तदाघटाऽऽदिज्ञानं तत्कालभावि तस्याः प्रमोषः स्यात् / अथोत्तरकालभाव्यसौ तस्याः प्रमोषः / तदप्ययुक्तम्। अतिप्रसङ्गात्। यदि नामोत्तरकालमन्यावभासः समुत्पन्नः पूर्वज्ञानस्य स्मृतिप्रमोषत्वेनाभ्युपगतस्य, तत्त्वे किमायातम् ? अन्यथा सर्वस्यपूर्वज्ञानस्य स्मृतिप्रमोषत्वप्रसङ्गः। अथान्याऽऽकारवेदित्वं तस्या असो; तदा विपरीतख्याति : स्यात् ? न स्मृतिप्रमोषः / कश्चाऽसौ विपरीत आकारस्तस्याः। यदि स्फुटाविभासित्वं, तदाऽसौ प्रत्यक्षस्याऽऽकारः, कथं स्मृति संबन्धी? तत्संबन्धित्वे वा तस्याः प्रत्यक्षरूपतैव स्यात्, न स्मृतिरूपता। अत एव शुक्तिकायां रजतप्रतिभासस्य न स्मृतिरूपता तत्प्रतिभासेन व्यवस्थाप्यते / तस्य प्रत्यक्षरूपतया प्रतिभासनात् / नाऽपि बाधकप्रत्ययेन तस्याः स्मृतिरूपता व्यवस्थाप्यते / यतो बाधकप्रत्ययः तत्प्रतिभावस्यार्थस्यासद्रूपत्वमावेदयति, न पुरस्तद्ज्ञानस्य स्मृतिरूपताम् / तथाहि-बाधकप्रत्यय एवं प्रवर्ततेनेदं रजतं, न पुना रजतप्रतिभासःप्रकृतः स्मृतिरिति / तन्न स्मृतिप्रमोषरूपता भ्रान्तदशामभ्युपगन्तुं युक्ता / अतो नायमपि सत्पक्षः / तन्नार्थसंवदनस्वरूपमप्यपरोक्षं सामान्यतो दृष्टां लिङ्ग प्राभाकरैभ्युपगम्यमानं, ज्ञातृ-व्यापारलक्षणप्रमाणानुमापकमिति, मीमांसकमते प्रमाणस्यैवाऽसिद्धत्वात्कथं यथावस्थितार्थपरिच्छेदशक्तिस्वभावस्य प्रामाण्यस्य स्वतः सिद्धिः ? न हि धर्मिणोऽसिद्धी तद्धर्मस्य सिद्धिर्युक्ता; अतो न सर्वत्र स्वतः प्रामाण्यसिद्धिरिति स्थितम् / सम्म०१ काण्ड। (साऽऽकारं ज्ञान प्रमाणम् / निराकाराज्ञानवादी ‘णाण' शब्दे चतुर्थभागे 1656 पृष्ठे निरस्तः) (मीमांसकानां ज्ञातृव्यापारः प्रमाणम् इति ‘णाण' शब्दे चतुर्थभागे 1663 पृष्ठे उक्तम्) (अनधिगताधिगन्तृत्वं प्रमाणम्, इति णाण' शब्दे चतुर्थभागे 1663 पृष्ठे दर्शितम्) (संवादिज्ञानं प्रमाणम् सौगतानामिति 'णरण' शब्दे चतुर्थभागे 1664 पृष्ठे उक्तम्) (अव्यभिचारिविशिष्टार्थोपलब्धिजनिका सामग्री प्रमाणम्, इति 'णाण' शब्दे चतुर्थभागे 1665 पृष्ठे उक्तम्) (8) द्रव्यादि चतुर्विधं प्रमाणम्से किं तं पमाणे णं ! पमाणे णं चउटिवहे पण्णत्ते / तं प"यु- 1