________________ पमाण 468 - अभिधानराजेन्द्रः - भाग 5 पमाण पक्षः / स न युक्तः। अनवस्थाप्रसङ्गात्। तथाहि-अभावप्रमाणस्याभावप्रमाणानिश्चितस्याऽभावनिश्वायकत्वं, तस्याप्यन्याभावप्रमाणादित्यनवस्था। अथ प्रमेयाभावात्तन्निश्चयः। सोऽपि न युक्तः / इतरेतराऽऽश्रयदोषप्रसङ्गात्। तथाहि-प्रमेयाभावानेश्चयात् प्रमाणाभावनिश्चयः, सोऽपि प्रमाणाभावनिश्चयादिति इतरेतराश्रयत्वम्। नाऽपि स्वसंवेदनात्प्रमाणाभावनिश्चयः / तस्य भवताऽनभ्युपगमात् तन्न अभावाऽऽख्यं प्रमाणं सम्भवति। सम्भवेऽपि न तत्प्रमाणचिन्ताऽहमिति प्रतिपादितम्। प्रतिपादयिष्यते च प्रमाणचिन्ताऽवसरे अत्रैव / तन्नाभावप्रमाणादपि विपक्षे साधनाभावनिश्चयः / अतो न अदर्शननिमित्तोऽपि प्रकृतव्यतिरेकनिश्चयः / तदभावात् न प्रकृतसाद्ध्ये प्रकृतहेतोर्नियमलक्षणसम्बन्धनिश्चयः / न चान्वयव्यतिरेकनिश्चयव्यतिरेकेणान्यतः कुतश्चित् तन्निश्चयः। नियमलक्षणस्य संबन्धस्य यथोक्तान्वयव्यतिरेकवयतिरेकेणासम्भवात् / तथाहि-य एव साधनस्य साध्यसद्भावे एव भावः, अयमेव तस्य साध्ये नियमः / साध्याभावे साधनस्यावश्यंतयाऽभाव एव यः, अयमेव वा तस्य तत्र नियमः। अतो यदेवान्वयव्यतिरेकयोर्यथोक्तलक्षणयोर्निश्चायकं प्रमाणं तदेव नियमस्वरूपसम्बन्धनिश्चायकम्। तन्निश्चायकं च प्रकृतसाध्यसाधने हेतोर्न सम्भवतीति प्रतिपादितम् / तन्नानुमानादपि ज्ञातृव्यापारलक्षणप्रमाणसिद्धिः। अथाऽपि स्याद्, बाहोषु कार-केषु व्यापारवत्सु फलं दृष्टम्, अन्यथा सिद्धिस्वभावानां कारकाणामेकं धात्वर्थ साध्यमनङ्गीकृत्य कः परस्परसम्बन्धः, अत-स्तदन्तरालवर्तिनी सकलकारकनिष्पाद्याऽभिमतफलजनिका व्यापारस्वरूपा क्रियाऽभ्युपगन्तव्या, इति प्रकृतेऽपि व्यापारसिद्धिरिति। एतदसम्बद्धम्। विकल्पानुपपत्तेः / तथाहि-व्यापारोऽभ्युपगम्यमानः, किं कारकजन्योऽभ्युपगम्यते, आहोस्वित् अजन्य इति विकल्पद्वयम्? तत्र यद्यजन्य इति पक्षः। सोऽयुक्तः। यतोऽजन्योऽपि किं भावरूपोऽभ्युपगम्यते, आहोस्विद् अभाव-रूपः ? यद्यभावरूप इत्यभ्युपगमः / सोऽप्ययुक्तः। यतोऽभावरूपत्वे तस्यार्थप्रकाशलक्षणफलजनकत्वं न स्यात् / तस्य फलजनकत्वविरोधात्। अविरोधेवा, फलार्थिनः कारकान्वेषणं व्यर्थ स्यात् / तत एवाभिमतफलनिष्पत्तेर्विश्वमदरिद्रं च स्यात् / तन्नाभावरूपो व्यापारोऽभ्युपगन्तव्यः अथ भावरूपोऽभ्युपगमविषयः। तदाऽत्राऽपि वक्तव्यम्। किमसौ नित्यः, आहोस्वित् अनित्य इति? तत्र यदि नित्य इतिपक्ष / सोऽसङ्गतः। नित्यभावरूपव्यापाराभ्युपगमेऽन्धाऽऽदीनामप्यर्थदर्शनप्रसङ्गः, सुप्ताऽऽद्यभावः, सर्वसर्वज्ञताभावप्रसङ्गश्व / कारकान्वेषणवैयर्थ्य तु व्यक्तम् / अथाऽनित्यइत्यभ्युपगमः / सोऽप्यलौकिकः। अजन्यस्य भावस्याऽनित्यत्वेन केनचिदभ्युपगमात्। अथ वदेन्मयैवाभ्युपगतः / तत्रापि वक्तव्यम्। किं कालान्तरस्थायी, उत क्षणिकः ? यदि कालान्तरस्थायी, तदा 'क्षणिका हि सा न कालान्तरमवतिष्ठते'' इति वचः पनरिप्तवेत। कारकान्वेषणं चात्राऽपि पक्षे, फलार्थिनामसङ्गतम्। कियत्कालस्थाय्यजन्यभावरूपव्यापाराभ्युपगमे, तत्कालं यावत्तत्फलस्याऽपि निष्पत्तेः, आव्यापार विनाशमर्थप्रकाशलक्षणकार्यसद्भावादन्धत्वमूर्जाऽऽदीनामभावः स्यात्। अथ क्षणिक इति पक्षः। सोऽपि न युक्तः / क्षणानन्तरं व्यापारासत्त्वेनार्थप्रतिभासाभावात् / अपगतार्थप्रतिभासं सर्वं जगत् स्यात् / अथ स्वत एव द्वितीयाऽऽदिक्षणेषु व्यापारोत्पत्ते यं दोषः। अजन्यत्वं तु तस्यापरकारकजन्यत्वाभावेन। नैतदस्ति। कारकानायत्तस्य देशकालस्वरूपप्रतिनियमाभावस्वभावतायाः प्रतिपादनात् / किं च-अनवरतक्षणिकाजन्यव्यापाराभ्युपगमे, तज्जन्यार्थप्रतिभासस्यापि तथैव भावात् सुप्ताऽद्यभावदोषस्तदवस्थः / तन्नाजन्यव्यापाराभ्युपगमः श्रेयान्। अथ जन्यो व्यापार इतिपक्षः कक्षीक्रियते। तदाऽत्रापि विकल्पद्वयम्-किमसौ जन्यो व्यापारः क्रियाऽऽत्मकः, उत तदनात्मक इति? तत्र यदि प्रथमः पक्षः। सन युक्तः / अत्रापि विकल्पद्वयानतिवृत्तेः तथाहि साऽपि क्रिया किं स्पन्दाऽऽत्मिका, उत अस्पन्दाऽऽत्मिका? यदि स्पन्दाऽऽत्मिका। तदाऽऽत्मनो निश्चलत्वादन्येषां कारकाणां व्यापारसद्भावेऽपि व्यापारो न स्यात्, यदर्थोऽयं प्रयासः; तदेवेत्युक्तं भवतैवमभ्युपगच्छता। अथापरिस्पन्दात्मिका क्रिया व्यापारस्वभावा / न / तथाभूतायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात्, अभावस्य जनकत्वविरोधात् / न च क्रिया कारणफलापान्तरालवर्तिनी परिस्पन्दस्वभावा,तद्विपरीतस्वभावा वा प्रमाणगोचरचारिणीति न तस्याः सव्यवहारविषयत्वमभ्युपगन्तुं युक्तमिति न क्रियात्मको व्यापारः / नापि तदनात्मको व्यापारोऽङ्गीकर्तुं युक्तः। तत्राऽपि विकल्पद्वयप्रवृत्तेः। तथाहि-किमसावक्रियात्मको व्यापारो बोधस्वरूपः, अबोधस्वभावो वा? यदि बोधस्वरूपः; प्रमातृवन्न प्रमाणान्तरगम्यताऽभ्युपगन्तुंयुक्ता। अथाबोधस्वभावः नायमपि पक्षः / बोधाऽऽत्मकज्ञातृव्यापारस्याबोधाऽऽत्मकत्वासंभवात्। न हि चिद्रूपस्याचिद्रूपो व्यापारो युक्तः। जानातीति च ज्ञातृव्यापारस्य बोधाऽऽल्मकस्यैवाभिधानात् / तन्न अबोधस्वभावोऽपि व्यापारः / किं च-असौ ज्ञातृव्यापारो धर्मिस्वभावः, उत धर्मस्वभाव इति पुनरपि कल्पनाद्वयम् ? धर्मिस्वरूपत्वे, ज्ञातृवन्न प्रमाणान्तरगम्यत्वमित्युक्तम् / धर्मस्वभावत्वेऽपि, धमिणो ज्ञातुर्व्यतिरिक्तो व्यापारः, अव्यतिरिक्तः, उभयम्, अनुभयम् इति चत्वारो विकल्पाः। न तावदव्यतिरिक्तः। तत्त्वे, संबन्धाभावेन ज्ञातुर्व्यापार इतिव्यपदेशायोगात्। अव्यतिरिक्ते, ज्ञातैव; तत्स्वरूपवनापरो व्यापारः। उभयपक्षस्तु, विरोधमपरिहृत्य नाभ्युपगमनीयः। अनुभयपक्षस्तु, अन्योऽन्यव्यवचछेदरूपाणामेकविधानेनापरनिषेधादयुक्त इति प्रतिपादितम्। किं च-व्यापारस्य कारकजन्यत्वाभ्युपगमे, तज्जनने प्रवर्त्तमाननि कारकाणि किमपरव्यापारभाञ्जि प्रवर्त्तन्ते, उत तन्निरपेक्षाणीति विकल्पद्वयम् यद्याद्यो विकल्पः, तदा तद्व्यापारजननेऽपि, तैरपरव्यापारभाग्भिः प्रवर्तितव्यम्; तजननेऽप्यपरव्यापारयुग्भिः प्रवर्तितव्यमित्यनवस्थितेर्न फलजननव्यापारोद्भूतिरिति तत्फलस्याप्यनुत्पत्तिप्रसंङ्गात् न व्यापारपरिकल्पनं श्रेयः। अथ अपरव्यापारमन्तरेणाऽपि फलजनकव्यापारजनने प्रवर्तन्ते, नायं दोषः, तर्हि प्रकृतव्यापारमन्तरेणाऽपि फलजनने प्रवर्तिष्यन्त इति किमनुपलभ्यमानव्यापारकल्पनप्रयासेन ? किं च-असौ व्यापारः फलजनने प्रवर्त्तमानः किमपरव्यापारसव्यपेक्षः, अथ निरपेक्ष इत्यत्रापि कल्पनाद्वयम ? तत्र यदयाद्या कल्पना। सा न युक्ता / अपरापरव्यापारजननक्षीणशक्तित्वेन व्यापारस्याऽपि फलजनकत्वायोगात् / अथ व्यापारन्तरानपेक्ष एव फलजनने प्रवर्तते, तर्हि कारकाणामपि व्यापारजनननिरपेक्षाणां फलजनने प्रवृत्तौ, न कश्चिच्छक्तिव्याधातः