________________ पमाण 467 - अभिधानराजेन्द्रः - भाग 5 पमाण सर्वदेशप्रत्यक्षीकरणे च कालाऽऽदिविप्रकृष्टानन्तप्रदेशप्रत्यक्षीकरणवत्स्वभावाऽऽदिव्यवहितसर्वपदार्थसाक्षात्करणात्स एव सर्वदर्शी स्यादित्यनुमाऽऽनाश्रयण सर्वज्ञाभावप्रसाधनं चानुपपन्नम्। अथ द्वितीयपक्षाभ्युपगमः, तदा भवति ततः प्रतिनियतेप्रदेशे साध्याभावे साधनाभावनिश्चयः, घटविविक्तप्रत्यक्षप्रदेश इव घटाभावनिश्चयः, किं तु तथाभूतात्साध्याभावे साधनाभावनिश्चयान्न व्यतिरेको निश्चितो भवति। साधनाभावनियमसाध्याभावस्य सर्वोपसंहारेण निश्चये, व्यतिरेको निश्चितो भवति / अन्यथा यत्रैव साध्याभावे साधनाभावो न भवति तत्रैव साधनसद्भावेऽपिन साध्यमिति, न साधनं साध्यनियतं स्यादिति व्यतिरेकानश्चयनिमित्तो न हेतोः साध्यनियमनिश्चयः स्यात्। तन्न द्वितीयोऽपि पक्षः। अथ न प्रकृतसाधनाभावज्ञानं तद्विविक्तसमस्तप्रदेशोपलम्भनिमित्तं, येन पूर्वोक्तो दोषः, किं तु तद्विषयप्रमाणपञ्चकनिवृत्तिनिमित्तम्। तदुक्तम्- "प्रमाणपञ्चकं यत्र वस्तुरूपेनजायते। वस्त्वसत्ताऽवबोधार्थ, तत्राऽभावप्रमाणता ||1||" नन्वत्राऽपि वक्तव्यम्-किं सर्वदेशकालावस्थितसमस्तप्रमातृसंबन्धिनी तन्निवृत्तिः तथा भूतसाधनाभावज्ञाननिमित्तम्: उत प्रतिनियतदेशकालावस्थिताऽऽत्मसम्बन्धिनीति कल्पनाद्वयम् ? तत्र यद्याद्या कल्पना। सा न युक्ता। तथा भृतायास्तन्निवृत्तेरसिद्धत्वात् / नचासिद्धावपि तथाभूतज्ञाननिमित्तम्। अतिप्रसङ्गात् / सर्वस्यापि तथाभूतज्ञाननिमित्तं स्यात् / केनचित्सह प्रत्यासत्तिविप्रकर्षाभावात्, अनभ्युपगमाच्च / न हि परेणाऽपि प्रमाणपञ्चकनिवृत्तेरसिद्धाया अभावज्ञाननिमित्तताऽभ्युपगता। कृतयत्नस्यैव प्रमाणपञ्चकनिवृत्तेरभावसाधनत्वप्रतिपादनात्। 'गत्या गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते / तदाऽन्यकारणाभावादसन्नित्यवगम्यते / / 1 // " इत्यभिधानात्। न चेन्द्रियाऽऽदिवदज्ञाताऽपि प्रमाणपञ्चकनिवृत्तिरभावज्ञानं जनयिष्यतीति शक्यमभिधातुम् / प्रमाणपञ्चकनिवृत्तेस्तुच्छरूपत्वात् / न च तुच्छरूपाया जनकत्वम्। भावरूपताप्रसक्तेः। एवंलक्षणस्य भावत्वात्। तन्न सर्वसंबन्धिनी प्रमाणपञ्चकनिवृत्तिर्विपक्षे साधनाभावनिश्चय-निबन्धनम्।नाऽप्यात्मसंबन्धिनी तन्निमित्तम्। यतः साऽपि कि तादात्विकी, अतीतानागतकालभवा वा? न पूर्वा / तस्या गङ्गा-पुलिनरेणुपरिसंख्यानेनानैकान्तिकत्वात्। नोत्तरा। तादात्यिकस्याऽऽत्मनस्तन्निवृत्तेरसंभवात्, असिद्धत्वाच्च / तन्न आत्मसंब-धिन्यपि प्रमाणपञ्चकनिवृत्तिस्तज्ज्ञानोत्पत्तिनिमित्तम् / तन्न अन्यवस्तुविज्ञानलक्षणमप्यभावाऽऽख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तम्।यच्च- ''गृहीत्या वस्तुसद्भाव, स्मृत्वा च प्रतियोगिनम्। मानसं नास्तिताज्ञानं, जायतेऽक्षानपेक्षया / / 1 / / " इत्यभावप्रमाणोत्पत्तौ निमित्तप्रतिपादनम् / तत्र कि वस्त्वन्तरस्य प्रतियोगिसंसृष्टस्य ग्रहणम्, आहोस्वित् असंसृष्टस्य ? तत्र यद्याद्यः पक्षः। सन युक्तः। प्रतियोगिसंसृष्ट्वस्त्वन्तरस्य प्रत्यक्षेण ग्रहणे, प्रति-योगिनः प्रत्यक्षेण वस्त्वन्तरे ग्रहणात्, नाभावाऽऽख्यप्रमाणस्य तत्र तदभावग्राहकत्वेन प्रवृत्तिः / प्रवृत्तौ वा प्रतियोगिसत्त्वेऽपि तदभाव ग्राहकत्वेन प्रवत्तेर्विपर्ययः / तत्त्वान्न प्रामाण्यम्। अथ प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणम्, तदा प्रत्यक्षेणैव प्रतियोभ्यभावस्य गृहीतत्वात्तत्राभावा ऽऽख्य प्रमाण प्रवर्तमान व्यर्थम् / अथ प्रतियोग्यसंसृष्टताऽवगमो वस्त्वन्तरस्याभावप्रमाणसंपाद्यः; तर्हि तदप्यभावाख्यं प्रमाण प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणे सति प्रवर्तते। तदसंसृष्टताऽवगमश्च पुनरप्यभावप्रमाणसंपाद्य इत्यनवस्था / तथा प्रतियोगिनोऽपि स्मरणं किं वस्त्वन्तरसंसृष्टस्य, अथाऽसंसृष्टस्य? यदि संसृष्टस्य, तदा नाभावप्रमाणप्रवृत्तिरिति पूर्ववद्वाच्यम्। अथासंसृष्टस्य स्मरणम्। ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे, तथाभूतस्य तस्य स्मरणं, नान्यथा / प्रत्यक्षेण च पूर्वप्रवृत्तेन वस्त्वन्तरासंसृष्टप्रतियोगिग्रहणे पुनरप्यभावप्रमाणपरिकल्पनं व्यर्थम् 'वस्त्वसङ्करसिद्धिश्च, तत्प्रामाण्यसमाश्रया।'' इत्यभिधानात्तदर्थं तस्य परिकल्पनम् तच्च प्रत्यक्षेणैव कृतमिति तस्य व्यर्थता / अथात्राप्यभावप्रमाणसंपाद्यः प्रतियो-गिनो वस्त्वन्तरासंसृष्टताग्रहः, तर्हि तथाभूतप्रतियोगिग्रहणे तथा-भूतस्य स्मरणं, तत्सद्भावे चाभावप्रमाणवृत्तिः, तत्प्रवृत्तौ च तस्यासंसृष्टताग्रहः, तदग्रहे च स्मरणमित्येवं चक्रकचोद्यं भवन्तमनुबध्नाति / नाऽपि वस्तुमात्रस्य प्रत्यक्षेण ग्रहणमित्यभिधातुं शक्यम्। तथाऽभ्युपगमे, तस्य वस्त्वन्तरत्वासिद्धेः / प्रतियोगिनोऽपि प्रतियोगित्वस्येतिन प्रतियोगिनो नियत रूपस्यस्मरणमिति सुतरामभावप्रमाणोत्पत्त्यभावः। किं च-यदि, अभावाऽऽख्यं प्रमाणमभावग्राहकमभ्युपगम्यते; तदा तमेव प्रतिपादयतु: प्रतियोगिनस्तु निवृत्तिः कथं तेन प्रतिपादिता स्यात् ? अथाऽभावप्रतिपत्तौ तन्निवृत्तिप्रतिपत्तिः / ननु साऽपि निवृत्तिः प्रतियोगि-स्वरूपा संस्पर्शिनी ततश्च तत्प्रतिपत्तौ, पुनरपि कथं प्रतियोगिनिवृत्तिसिद्धिः? तन्निवृत्तिसिद्धेरपरतन्निवृत्तिसिद्ध्यभ्युपगमे, अपरा तन्नि वृत्तिस्तथाऽभ्युपगमनीयेत्यनवस्था / किं च-अभावप्रतिपत्तौ प्रतियोगिस्वरूप किमनुवर्तते, व्यावर्त्तते वा ? अनुवृत्तौ, कथं प्रतियोगिनोऽभावः ? व्यावृत्तौ, कथ प्रतिषेधः प्रतिपादयितुं शक्यः ? तद्विविक्तप्रतिपत्तेस्तत्प्रतिषेध इति चेन्न। तदप्रतिभासने तद्विविक्तताया एव प्रतिपत्तुमशक्तेः प्रतियोगिप्रतिभासात् नायं दोष इति चेत् / क्व तर्हि वि ज्ञाने तस्य प्रतिभासः ? यदि प्रत्यक्षे।नयुक्तः। तत्सद्भावसिद्ध्या तन्निवृत्त्यसिद्धेः / स्मरणे तस्य प्रतिभास इति चेन्न / तत्राऽपि येन रूपेण प्रतिभाति, न तेनाभावः; येन न प्रतिभाति न तेन निषेधः; तदेवं यदि प्रतियोगिस्वरूपादन्योऽभावः, तथाऽपि तत्प्रतिपत्तौ न तन्निवृत्तिसिद्धिः / अनन्यत्वेऽपि तत्प्रतिपत्तौ प्रतियोगिनः प्रतिपन्नत्वात् न निषेधः / अपि चतदभावाऽऽख्यं प्रमाण निश्चितं सत्, प्रकृताभावनिश्चयनिमित्तत्वेनाभ्युपगम्यते, आहोस्वित् अनिश्चितमिति विकल्पद्वयम् ? यद्यनिश्चितमिति पक्षः। स न युक्तः / स्वयमव्यवस्थितस्य खरविषाणाऽऽदेरिव अन्यनिश्वायकत्वायोगात्। इन्द्रियाऽऽदेस्त्वनिश्चित स्यापि रूपाऽऽदिज्ञानं प्रति कारणत्वात् निश्चायकत्वंयुक्तम् न पुनरभावप्रमाणस्य। तस्यापरज्ञानं प्रति कारणत्वासम्भवात्। तदसम्भवश्व, प्रमाणाभावात्मऽऽकत्वेनावस्तुत्वात् / वस्तुत्वेऽपि, तस्यैव प्रमेयाभावनिश्चयरूपत्वेनाभ्युपगमाहत्वात् / नाऽपि द्वितीयः पक्षः / यतस्तन्निश्चयोऽन्यस्मादभावाऽऽख्यात्प्रमाणादभ्युपगम्येत; प्रमेयाभावाद्वा? तत्र यदि प्रथमः