SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ पमाण 466 - अभिधानराजेन्द्रः - भाग 5 पमाण यमप्ययुक्तः। सर्वसंबन्धिनोऽनुपलम्भस्याऽसिद्धत्वात्। अथ दृश्यानुपलम्भस्तन्निश्चायक इति पक्षः / सोऽप्यसङ्गतः / यतो दृश्यानुपलम्भश्चतुर्दा व्यवस्थितः-स्वभावानुपलम्भः, कारणानुपलम्भो, व्यापकानुपलम्भो, विरुद्धविधिश्चेति / तत्र यदि स्वभावानुपलम्भस्तन्निश्चायकत्वेनाभिमतः / स न युक्तः / स्वभावानुपलम्भहहस्यैवंविधे विषये व्यापारासम्भवात्। तथाहि-एकज्ञानसंसर्गिणस्तुल्ययोग्यतास्वरूपस्य भावान्तरस्याभावव्यवहारसाधकत्वेन पर्युदासवृत्त्या तदन्यज्ञानस्वभावोऽसावभ्युपगम्यते। न च प्रकृतस्य साध्यस्य केनचित्सहैकज्ञानसंसर्गित्वं सम्भवतीति नाऽत्र स्वभावानुपलम्भस्य व्यापारः / नाऽपि कारणानुपलम्भः प्रकृतसाध्याभावनिश्चायकः। यतः-सिद्धे कार्यकारणभावे कारणानुपलम्भः कार्याभावनिश्चायकत्वेन प्रवर्तते / न च प्रकृतस्य साध्यस्य केनचित्सह कार्यत्वं निश्चितम्। तस्याऽदृश्यत्वेन प्रागेव प्रतिपादनात्। प्रत्यक्षानुपलम्भनिबन्धनश्च कार्यकारणभाव इति कारणानुपलम्भोऽपि न तनिश्चायकः। व्यापकानुपलम्भस्तु सिद्ध व्याप्यव्यापकभावे व्याप्याभावसाधकोऽभ्युपगम्यते। न च प्रकृतसाध्यव्यापकत्वेन कश्चित्पदार्थो निश्चेतुं शक्यः। प्रकृतसाध्यस्यादृश्यत्वप्रतिपादनात्। तन्न व्यापकानुपलम्भोऽपि तन्निश्चायकः / विरुद्धोपलब्धिरप्यत्र विषये न प्रवर्तते / तथाहि-एको विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावात्सहानवस्थानलक्षणो निश्चीयते, शीतोष्णयोरिव / विशिष्टात् प्रत्यक्षात्। न च प्रकृतं साध्यमविकलकारणं कस्यचिद्भावे निवर्तमानमुपलभ्यते / तस्यादृश्यत्वादेव / द्वितीयस्तु परस्परपरिहारस्थितिलक्षणः / सोऽपि लक्षणस्य स्वरूपव्यवस्थापकधर्मरूपस्य दृश्यत्वाभ्युपगमनिष्ठो, दृश्यत्वाभ्युपगमनिमित्तप्रमाणनिबन्धनो न प्रकृतसाध्यविषये संभवति। तन्नततोऽपि प्रस्तुतसिद्धिः। तत्र साध्यस्याभावनिश्चयोऽनुपलम्भनिबन्धनः। साधनाभावनिश्चयोऽपि नादृश्यानुपलम्भनिमितः / उक्तदोषत्वात् / दृश्यानुपलम्भनिमित्तत्वेऽपि, न स्वभावानुपलम्भस्तन्निमित्तम् / उद्दिष्टविषयाभावव्यवहारसाधकत्वेन तस्य व्यापाराभ्युपगमात्। अनुद्दिष्टविषयत्वेऽपि, यत्र यत्र साध्याभावस्तत्र तत्र साधनाभाव इति, एवं न ततः साधनाभावनिश्चयः / तन्निश्चयश्च नियमनिश्चयहेतुरिति न स्वभावानुपलम्भोऽपि तन्नियमहेतुः / नापि कारणानुपलम्भः / यतः कारणं ज्ञातृव्यापार एवार्थप्रकटतालक्षणस्य हेतोर्भवताऽभ्युपगम्यते / न चाऽसौ प्रत्यक्षसमधिगम्य इति कुतस्तस्य सम्प्रति कारणत्वावगम इति न कारणानुपलम्भोऽपि तदभावनिश्चयहेतुः / व्यापकानुपलम्भेऽप्ययमेवन्यायः। यतो व्यापकत्वमपि पूर्वोक्तहेतु प्रति ज्ञातृव्यापारस्यैवाभ्युपगन्तव्यम्। अन्यथाऽन्यस्य व्यापकत्वे साध्यविपक्षाद् व्यापकनिवृत्तिद्वारेण निवर्त्तमानमपि साधनं न साध्यनियतं स्यात्। अथ यथा सत्त्वलक्षणो हेतुः क्षणिकत्वलक्षणसाध्यव्यतिरिक्तक्रमयोगपद्यस्वरूपपदार्थान्तरव्यापकनिवृत्तिद्वारेण, अक्षणिकलक्षणाद्विपक्षाव्यावर्त्तमानः स्वसाध्यनियतः, तथा प्रकृ तोऽपि हेतुर्भविष्यति / असम्यगेतत्। यतस्तत्रापि यद्यर्थक्रियालक्षणसत्त्वव्यापके क्रमयोगपद्ये कुतश्वित्प्रमाणातक्षणिके सिद्धे भवतस्तदा तन्निवृत्तिद्वारेण विपक्षात् व्यावर्त्तमानाऽपि सत्त्वलक्षणो हेतुः स्वसाध्यनियतः स्यात्। अन्यथा तत्र व्यापकवृत्त्यनिश्चये राश्यन्तरे क्षणिकाक्षणिकरूपे तस्याऽऽशङ्कयमानत्वेन तद्व्याप्यस्याऽपि नैकान्ततः क्षणिकनियतत्वनिश्चयः। न च प्रकृतसाध्येऽयं न्यायः। तस्यात्यन्तपरोक्षत्वेन हेतुव्यापकभावान्तराधिकरणत्वासिद्धेः तन्न व्यापकानुपलम्भनिमित्तोऽपि विपक्षे साधूनामावनिश्चयः / नाऽपि विरुद्धोपलब्धिनिमित्तः / प्रकृतसाध्यस्यात्यन्तपरोक्षत्वेन तदप्रतिपत्तौ तदभावनियतवि पक्षस्याप्यप्रतिपत्तितस्तेन सहार्थ-प्रकाशनलक्षस्य हेतोः सहानवस्थानलक्षणविरोधाऽसिद्धेः / पर-मपरपरिहारस्थितलक्षणस्तु विरोधोऽन्योन्यव्यवच्छेदरूपयोरर्थप्रकाशनाप्रकाशनयोः सम्भवति, न पुनरर्थप्रकाशनज्ञातृव्यापरोः अन्योऽन्यवच्छेदरूपत्वाभावात् / नापि ज्ञातृव्यापारनियतत्वादर्थप्रकाशनस्य साध्यविपक्षण विरोध इति शक्यमभिधातुम्। अन्योन्याऽऽश्रयदोषप्रसक्तेः / तथाहि-सिद्धे तन्नियतत्वे तद्विपक्षविरोधसिद्धिः, तत्सिद्धेश्च तन्नियतत्वसिद्धिरिति स्पष्ट एवेतरेतराऽऽश्रयो दोषः / तन्न विरुद्धोपलब्धिनिमित्तोऽपि विपक्षे साधनाभावनिश्चयः / अथादर्शनशब्देनाभावाऽऽख्यं प्रमाणं व्यतिरेकनिश्चयनिमित्तममिधीयते। तदप्यनुपपन्नम्। तस्यतन्निमित्तत्वासंभवात्। तथाहि-निषेध्यविषयप्रमाणपशकस्वरूपतयाऽऽत्मनोऽपरिणामरूपं वा तदभ्युपगम्येत, तदन्यवस्तुविषयज्ञानरूपं वा? गत्यन्तराभावात् / तदुक्तम्-"प्रत्यक्षाऽऽदेरनुत्पत्तिः, प्रमाणाभाव उच्यते। साऽऽत्मनोऽपरिणामो वा, विज्ञानं वाऽन्यवस्तुनि / / 1 / / " तत्र यदि निषेध्यविषयप्रमाणपशकरूपत्वेनाऽऽत्मनोऽपरिणामलक्षणमभावाऽऽख्यप्रमाणं साधनाभावनियतसाध्याभावस्वरूपव्यतिरेकनिश्चयनिमित्तमित्यभ्युपगमः। सनयुक्तः। तस्य समुद्रोदकपलपरिमाणेनानैकान्तिकत्वात्। अथान्यवस्तुविषयविज्ञानस्वरूपमभावाऽऽख्यं प्रमाणं व्यतिरेकनिश्चयनिमितमिति पक्षः / सोऽपि न युक्तः / विकल्पैरनुपपत्तेः तथाहि-किं तत्साध्यनियतसाधनस्यरूपादन्यद्वस्तु, यद्विषयं ज्ञानं तदन्यज्ञानमित्युच्यते ? यदि यथोक्तसाधनस्वरूपव्यतिरिक्त पदार्थान्तरं, तदा वक्तव्यम्-तदेकज्ञानसंसर्गि, साधनेन सह, उतान्यथेति? यदि यथोक्त साधनेनैकज्ञानसंसर्गि तदा तद्वि-षयज्ञानासिध्यति, यथोक्तसाधनस्याभावनिश्चयः प्रतिनियतविषयः। किंतु यत्र यत्र साध्याभावस्तत्र तत्रावश्यंतया साधनस्याप्यभाव इत्येवम्भूतो व्यतिरेकनिश्चयो न ततः सिद्ध्यति। सर्वोपसंहारेण साधनाभावनियतसाध्याभावनिश्चयस्य हेतोः साध्यनिय तत्वलक्षणनियमो निश्चायक इति नैकज्ञानसंसर्गिपदार्थान्तरोपलम्भादभावाऽऽख्यात्प्रमाणाव्यतिरेकनिश्चयः / अथ तदसंसर्गि पदार्थान्तरोपलम्भस्वरूपमभावाऽऽख्यं प्रमाणं, साध्या भावे साधनाभावनिश्चयनिमित्तम्। तदप्यसंबद्धम्। अति प्रसङ्गात् / न हि पदार्थान्तरोपलम्भमात्रादन्यस्य तदतुल्ययोग्यतारूपस्य तेन सहकज्ञानासंसर्गिणः पदार्थान्तरस्याभावनिश्चयः / अन्यथा सह्योपलम्भाद्विन्ध्याभावनिश्चयः स्यात्। अथ तथाभूतसाधनादन्यस्तदभावः, तद्विषयं ज्ञानं तदन्यज्ञानं, तद्विपक्षे साधनाभावनिश्चयनिमित्तम्। ननु तदपि ज्ञानं किं यत्र यत्र साध्याभावस्तत्र तत्र साधनाभाव इत्येवं प्रवर्तते, उत कचिदेव साध्याभावे साधनाभाव इत्येवम् ? तत्र यद्याद्यः कल्पः। स न युक्तः। यथोक्तसाधनविविक्तसर्वप्रदेशकालप्रत्यक्षीकरणमन्तरेण एवम्भूतज्ञानोत्पत्त्यसंभवात् /
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy