________________ पमाण ४६४-अभिधानराजेन्द्रः - भाग 5 पमाण भाविनो निमित्तम्, अथ प्रवृत्त्युत्तरकालभाविनीति विकल्पद्वयम्? तत्र यदि पूर्वः पक्षः स न युक्तः। पूर्वकालाया बाधकानुपलब्धेः प्रवृत्त्युत्तरकालभावनिश्चयनिमित्तत्वासम्भवात् / न ह्यन्यकालानुपलब्धिरन्यकालमभावनिश्चयं विदधाति / अतिप्रसङ्गात् / नापि प्रवृत्त्युत्तरकालभाविनी बाधकानुपलब्धिस्तन्निश्चयनिमित्तम् / प्राक् प्रवृत्तेरुत्तरकाल बाधकोपलब्धिर्न भविष्यतीत्यर्वाग्दर्शिना निश्चेतुमशक्य त्वेन, तस्या असिद्धत्वात् / नापि प्रवृत्त्युत्तरकालभाविन्यनुपलब्धिस्तदैव निश्चीयमाना तत्कालभाविबाधकाभावनिश्वयस्य निमित्तं भविष्यतीति वक्तुं शक्यम् / तत्कालभाविनो निश्चयस्याऽकिञ्चित्करत्वप्रतिपादनात्। किं च-बाधकानुपलब्धिः सर्वसंबन्धिनी किं तन्निश्वयहेतुः, उताऽऽत्मसंबन्धिनीति पुनरपि पक्षद्वयम् ? यदि सर्वसंबन्धिनीति पक्षः / स न युक्तः। तस्या असिद्धत्वात् / न हि सर्वे प्रमातारो बाधक नोपलभन्त इति अग्दिर्शिना निश्चेतुं शक्यम् / अथाऽऽत्मसंबन्धिनीत्ययमभ्युपगमः / सोऽप्ययुक्तः / आत्मसंबन्धिन्या अनुपलब्धेः परचेतोवृत्तिविशेषेरनैकान्तिकत्वात्तन्न बाधाभावनिश्चयेऽनुपलब्धिनिमित्त, नापि संवादो निमित्तम् / भवदभ्युपगमेनानवस्थाप्रसङ्गस्य प्रतिपादितत्वात् / न च बाधाऽभावो विशेषः सम्यक्प्रत्ययस्य सम्भवतीति प्रागेव प्रतिपादितम्। कारणदोषाभावेऽप्ययमेव न्यायो वक्तव्य इति नासावपि तस्य विशेषः। किं च-कारणदोषबाधकाभावयोर्भवदभ्युपगमेन कारणगुणसवादकप्रत्ययरूपत्वस्थ प्रतिपादनात् तन्निश्चये तस्य विशेषेऽभ्युपगम्यमाने परतः प्रामाण्यनिश्चयोऽभ्युपगत एव स्यात्। न च सोऽपि युक्तः। अनवस्थादोषस्य भवदभिप्रायेण प्राक् प्रतिपादितत्वात् / यदप्युक्तम्- "एवं त्रिचतुरज्ञान'' इत्यादि / तत्रैकस्य ज्ञानरय प्रामाण्य, पुनरप्रामाण्यं, पुनः प्रामाण्यम्, इत्यवस्थात्रयदर्शनाद्वाधके, तबाधकाऽऽदौ वाऽवस्थावयमाशडमानस्य कथं परीक्षकस्य नापरापेक्षा, येनानवस्था न स्यात ? यदप्युक्तम्- 'अपेक्षातः' इत्यादि / तदप्यसङ्गतम्। यतो नाऽयं छलव्यवहारः प्रस्तुतो, येन कतिपयप्रत्ययमात्र निरूप्यते। न हि प्रमाणमन्तरण बाधकाऽऽ-शङ्कानिवृत्ति / न चाऽऽशङ्काथ्यावर्तक प्रमाणं भवदभिप्रायेण संभवतीत्युक्तम् / तथा कारणदोषज्ञानेऽपि पूर्वेण जाताऽऽशङ्कस्य कारणदोषज्ञानान्तरापेक्षायां कथमनवस्थानिवृत्तिः ? कारणदोषज्ञानस्य तत्कारणदोषग्राहकज्ञानाभावमात्रत : प्रमाणत्वान्नात्राऽनवस्था। यदाह-"यदा स्वतः प्रमाणत्वं, तदाऽन्यन्नैव मृग्यते। निवर्तते हि मिथ्यात्वं, दोषाज्ञानादयत्नतः॥१।।" इति। एतचानुद्धोष्यम् / प्रागेव विहितोत्तरत्वात्। नचदोषाज्ञानाघोषाभावः। सत्स्वपि दोषेषुतदज्ञानस्य संभवात् / सम्यग्ज्ञानोत्पादनशक्तिवैपरीत्येन मिथ्याप्रत्ययोत्पादनयोग्यं हि रूपं तिमिराऽऽदिनिमित्तमिन्द्रियदोषः / स चातीन्द्रियत्वात्सन्नपि नोपलक्ष्यते / न च दोषा ज्ञानेन व्याप्ताः, येन तन्निवृत्त्या निवर्तेरन् दोषाभावज्ञाने तु संवादाऽऽद्यपेक्षायां सैवाऽनवस्था प्राक् प्रतिपादिता / एतेनैतदपि निराकृतम् / यदुक्तं भट्टेन "तस्मात्स्वतः प्रमाणत्वं, सर्वत्रौत्सर्गिकं स्थितम्। बाधकारणदुष्टत्व ज्ञानाभ्यां तदपोद्यते / / 1 / / पराधीनेऽपि चैतस्मि-न्नानवस्था प्रसज्यते। प्रमाणाधीनमेतद्धि, स्वतस्तच प्रतिष्ठितम् / / 2 / / प्रमाण हि प्रमाणेन,यथा नान्येन साध्यते। न सिध्यत्यप्रमाणत्य-मप्रमाणात्तथैव हि // 3 // " इति स्यान्मतम्। यदप्यन्यानपेक्षप्रमितिभावो बाधकप्रत्ययः, तथाऽप्यबाधकतया प्रतीत एवान्यस्याप्रमाणतामाधातुं क्षमो नान्यथेति। सोऽयमदोषः। यतः"बाधकप्रत्ययस्ताव-दन्यित्वावधारणम्। सोऽनपेक्षप्रमाणत्वात, पूर्वज्ञानमपोहते / / 1 / / तत्राऽपित्वपवादस्य, स्यादपेक्षा क्वचित्पुनः। जाताऽऽशङ्कस्य पूर्वेण, साऽप्यन्येन निवर्तते / / 2 / / बाधकान्तरमुत्पन्नं, यद्यस्यान्विच्छतोऽपरम्। ततो मध्यमबाधेन, पूर्वस्यैव प्रमाणता / / 3 / / अथान्यदप्रयत्नेन , सम्यगन्वेषणे कृते। मूलाभावान्न विज्ञानं, भवेद् बाधकबाधनम् / / 4|| ततो निरपवादत्वा-तेनैवाऽऽद्य बलीयसा। बाध्यते तेन तस्यैव, प्रमाणत्वमपोद्यते // 5 // एवं परीक्षकज्ञान-त्रितय नातिवर्तते। ततश्चाजातबाधन, नाऽऽशङ्कक्यं बाधकं पुनः।।६।।" इति। तथाहि-एतेन सर्वेणापि ग्रन्थेन स्वतः प्रामाण्यव्याहतिः परिहता, परीक्षकज्ञानत्रितयाधिकज्ञानानपेक्षयाऽनव स्था च / एतद् द्वितयमपि परपक्षे प्रदर्शितं प्राक्तनन्यायेन / यच्चान्यत् पूर्वपक्षे परतः प्रामाण्ये दूषणमभिहितम्, तच्चाइनभ्युपगमेन निरस्तमिति न प्रतिपदमुच्चार्य दूष्यते / प्रेरणाबुद्धेस्तु प्रामाण्यं न साधननिर्भासि प्रत्यक्षस्येव संवादातस्य तस्यामभावात् / नाप्यव्यभिचारिलिङ्गनिश्चयबलात्स्वसाध्यादुपजायमानत्वादनुमानस्येव। किं च-प्रेरणाप्रभवस्य चेतसः प्रामाण्यसिद्ध्यर्थ स्वतः प्रामाण्यप्रसाधन प्रयासोऽयं भवताम्। चोदनाप्रभवस्य च ज्ञानस्य न केवल प्रामाण्यं न सिद्धयति, किं त्वप्रामाण्यनिश्चयोऽपि तव न्यायेन संपद्यते। तथाहि-यद् दुष्टकारणजनितं ज्ञानं, न तत्प्रमाणम् यथा तिमिराऽऽधुपद्रवोपहतचक्षुरादिप्रभवं ज्ञानम्, दोषवत्प्रेरणावाकयजनितं च- "अग्निहोत्रं जुहुयाद् ''इत्यादिवाक्यप्रभवं ज्ञानमिति कारणविरुद्धोपलब्धिः / न चासिद्धो हेतुः / भवदभिप्रायेण प्रेरणाया गुणवतो वक्तुरभावे, तद्गुणैरनिराकृतैर्दोषैर्जन्यमानत्वस्य प्रेरणाप्रभवे ज्ञाने सिद्धत्वात्। अथ स्यादयं दोषो यदि वक्तृगुणैरेव प्रामाण्यापवादकदोषाणां निराकरणमभ्युपगम्यते / यावता वक्तुरभावेनाऽपि निराश्रयाणां दोषाणामसद्भावोऽभ्युपगम्यत एव। तदुक्तम्"शब्दे दोषोद्भवस्तावद्, वक्त्रधीन इति स्थितम्। तदभावः कचित्तावद्, गुणवन्द्वक्तृकत्वतः।।१।। तद्गुणैरपकृष्टानां, शब्दे संक्रान्त्यसम्भवात्। यद्वा वक्तुरभावेन, न स्युर्दोषा निराश्रयाः॥२॥'' इति। भवेदप्येवं, यद्यपौरुषेयत्वं कुतश्चित्प्रामाण्यात्सिद्धं स्यात् / तच्च न सिद्धम् / तत्प्रतिपादकप्रमाणस्य निषेत्स्यमानत्वात्। अत एव चेदमप्यनुझोष्यम्- "तत्रापवादनिर्मुक्तिर्वक्त्रभावाल्लघीयसी। वेदेतेनाप्रमाणत्वं, नाऽऽ-- शङ्कामपि गच्छति // 1 // " तेन गुणवतो वक्तुरनभ्युपगमाद्भवद्धिः, अपौरुषे