________________ पमाण 463 - अभिधानराजेन्द्रः - भाग 5 पमाण धीनतथा परस्परमव्यभिचारात्, स्पर्शाऽऽदिज्ञानं जाग्रदवस्थायामभिवाञ्छितस्पर्शाऽऽदिव्यतिरेकेणाासंभवद्भिन्नविषयमपि स्वविषयाभावेऽप्याशयमानरूपज्ञानस्य प्रामाण्यं निश्चाययतीति न तत्सङ्गतमेवम्। अत एव रूपाऽऽद्याविनाभावित्वाद् ध्वनीनां तद्विशेषशङ्कायां ववचिद्वीणाऽऽदिरूपप्रतिपत्तौ तद्विहशेषशङ्काव्यावृत्तेस्तद्रूपदर्शनसंवादादपि प्रामाण्यनिश्चयः सिद्धो भवति। यच्चोक्तम्-किं संवादज्ञानं साधनज्ञानविषयं तस्य प्रामाण्यं व्यवस्थापयति, उत भिन्नविषयमित्यादि / तदप्पविदितपराभिप्रायस्याऽभिधानम् / न हि संवादज्ञानं तद्ग्राहकत्वेन, तस्य प्रामाण्यं व्यवस्थापयति, किंतुतत्कार्यविशेषत्वेन, यथा धूमोऽग्रिमिति पराभ्युगमः / यच संवादज्ञानात्साधनज्ञानप्रामाण्यनिश्चये चक्रकदूषणमभ्यधायि / तदप्यससङ्गतम् / यदि हि प्रथममेव संवादज्ञानात् साधनस्य प्रामाण्यं निश्चित्य प्रवर्तेत तदा स्यात्तदूषणं, यदातु वह्निरूपदर्शन सत्येकदा शीतपीडितोऽन्यार्थ तद्देशमुपसर्पस्तत्स्पर्शमनुभवति, कृपालुना वा केनचित्तद्देश वढेरानयने, तदाऽसौ वह्निरूपदर्शनस्पर्शनज्ञानयोः संबन्धमवगच्छति, एवंस्वरूपो भावएवंभूतप्रयोजननिर्वर्त्तक इति / सोऽवगतसंबन्धोऽन्यदाऽनभ्यासदशायामनुमानान्ममाऽयं रूपप्रतिभासोऽभिमतार्थक्रियासाधनः एवंरूपप्रतिभासत्वात्, पूर्वोत्पन्नवरूपप्रतिभासवत्, इत्य स्मात्साधननिर्भासिज्ञानस्य प्रामाण्यं निश्चित्य प्रवर्तत इति, कुतश्रककचोद्यावतारः ? अभ्यासदशायामपि साधनज्ञानस्यानुमानात्प्रामाण्यं निश्चित्य प्रवर्तत इत्येके। न च तदशायामन्वयव्यतिरेकव्यापारस्यासंवदेनान्नानुमानव्यापार इत्यभिधातुं शक्यम् / अनुपलक्ष्यमाणस्याऽपि तद्व्यापारस्याऽभ्युपगमनीयत्वात्; अकस्माद्भूमदर्शनात्परोक्षाग्निप्रतिपत्ताविव / अन्यथा गृहीतविस्मृतप्रतिबन्धस्यापि तद्दर्शनादकस्मात् प्रतिपत्तिः स्यात्। न चाध्यक्षैव साधनस्य फलसाधनशक्तिरिति कथमध्यक्षेऽनुमानप्रवृत्तिरिति चोद्यम्। दृश्यमानप्रदेशपरोक्षाऽग्रिसङ्गतेरिव तज्जननशक्तेरप्रत्यक्षत्वेन, अनुमानप्रवृत्तिमन्तरेण निश्चेतुमशक्यत्वात् / तदुक्तम्- "तदृष्टावेव दृष्टेषु, संवित्-सामर्थ्य भाविनः। स्मरणादभिलाषेण, व्यवहारः प्रवर्त्तते॥१॥" इति। अपरे तु मन्यन्ते-अभ्यासावस्थायामनुमानमन्तरेणाऽपि प्रवृत्तिः संभवति / अथानुमाने सति प्रवृत्तिर्दृष्टा, तदभावे न दृष्टत्यनुमानका सा। नन्वेवं सत्यभ्यासदशायां विकल्पस्वरूपानुमानव्यतिरेकेणाऽपि प्रत्यक्षा तत्प्रवृत्तिर्दृश्यते इति तदा तत्कार्या साकस्मान्न भवति? तथाहि-प्रतिपादोद्धारं न विकल्परूपानुमानव्यापारः संवेद्यते, अथचपुरः प्रतिभासमाने वस्तुनि प्रवृत्तिः संपद्यत इति। अथाऽऽदावनुमानात्प्रवृत्तिदृष्टति तदन्तरेण सा पश्चात्कथं भवति ? नन्वेवमादौ पर्यालोचनाद्व्यवहारो दृष्टः, पश्चात्पर्यालोचनमन्तरेण कथं पुरः स्थित वस्तुदर्शनमात्राद्भवतीति वाच्यम्। यदि पुनरनुमानव्यतिरेकेण सर्वदा प्रवृत्तिर्न भवतीति प्रवर्तकमनुमानमेवेत्यभ्युपगमः / तथा सति | प्रत्यक्षेण लिङ्गग्रहणाभावात्तत्राप्यनुमानमेव तन्निश्चयव्यवहारकारणं, तदप्यपरलिङ्गनिश्वयव्यतिरेकेण नोदयमासादयतीत्यनवस्थाप्रसङ्गतोऽनुमानस्यैवाप्रवृत्तेर्न क्वचित्प्रवृत्तिलक्षणो व्यवहार इत्यभ्यासाघ- 1 स्थायां प्रत्यक्ष स्वत एव व्यवहारकृत् अभ्युपेयम्। अनुमानं तुतादात्म्यतदुत्पत्ति प्रतिबन्धलिङ्ग निश्चयबले न स्वसाध्यादुपजायमानत्वादेव तत्प्रापणशक्तियुक्तं संवादप्रत्ययोदयात्प्रागेव प्रमाणाऽऽभासविवेकेन निश्चीयतेऽतः स्वत एव / तथाहि-यद्यत उपजायते तत्तत्प्रापणशक्तियुक्तम्। तद्यथा-प्रत्यक्ष स्वार्थस्य। अनुमेयादुत्पन्नं चेदं प्रतिबद्धलिङ्गदर्शनद्वाराऽऽयात लिङ्गि ज्ञानमिति तत्प्रापणशक्तियुक्तं निश्चीयत इति मूढ प्रति विषयदर्शनेन विषयी व्यवहारोऽत्रसाध्यते। सङ्केतविषयख्यापनेन समये प्रवर्तनात् / तथाहि-प्रत्यक्षेऽप्याव्यभिचारनिबन्धन एवानेन प्रामाण्यव्यवहारः प्रतिपन्नः / अव्यभिचारश्च नान्यस्तदुत्पत्तेः / सैव च ज्ञानस्य प्रापणशक्तिरुच्यते। तदुक्तम्-"अर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणता। प्रतिबद्धस्वभावस्य, तद्धेतुत्वे समं द्वयम्॥१॥” इति। तस्मात् मूढ प्रतिपरतः प्रामाण्यव्यवहारः साध्यते। अनुमाने प्रामाण्यस्य प्रतिबद्धलिङ्गनिश्चयानन्तरं स्वसाध्यव्यभिचारलक्षणस्य तत उत्पन्नत्वेन प्रत्यक्षसिद्धत्वात्, न परतः प्रामाण्यनिश्चये चक्रकचोद्यस्यावतारः। प्रत्यक्षे तु संवादात्प्रागदुत्पत्तिरशक्यनिश्चयेति संवादापेक्षैवानभ्यासदशायां तस्य प्रामाण्याध्यवसितिर्युक्ता। अत उत्पत्ती, स्वकार्ये, ज्ञप्तौ च सापेक्षत्वस्य प्रतिपादितत्वात् "ये यद्भाव प्रत्यनपेक्षाः" इति प्रयोगे हेतोरसिद्धिः / यतश्च संदेहवि-पर्ययविषयप्रत्ययप्रामाण्यस्य परतो निश्चयो व्यवस्थितोऽतो "ये संदेहविपर्ययाध्यासिततनवः" इति प्रयोगे न व्याप्त्यसिद्धिः / यदप्युक्तम्- सर्वप्राणभृतां प्रामाण्य प्रति संदेहविपर्ययाभावादसिद्धो हेतुरित्यादि। तदप्यसत्। यतः प्रेक्षापूर्वकारिणः प्रमाणाऽप्रमाणचिन्तायामधिक्रियन्ते नेतरे / ते च कासाञ्चित् ज्ञानव्यक्तीनां विसंवाददर्शनाजाताऽऽशङ्कान ज्ञानमात्रादेवमेवायमर्थ इति निश्चिन्वन्ति, नापि तद्ज्ञानस्य प्रामाण्यमध्यवस्यन्ति / अन्यथैषां प्रेक्षावत्व हीयेत इति संदेहविषये कथं न संदेहः / तथा कामलाऽऽदिदोषप्रभवे ज्ञाने विपर्ययरूपताऽप्यस्तीति तद्बलाद्विपर्ययकल्पनाऽन्यज्ञानेऽपि संगतैवेति प्रकृते प्रयोगे नासिद्धो हेतुरिति भवत्यतो हेतोः परतः प्रामाण्यसिद्धिः / यदपि प्रमाणतदाभासयोस्तुल्यं रूपमित्याद्याशक्याऽप्रमाणे अवश्यंभावी बाधकप्रत्ययः, कारणदोषज्ञानं च इत्यादिना परिहृतम् / तदपिन चारुायतोबाधककारणदोषज्ञानं मिथ्यांप्रत्ययेऽवश्यभावि, सम्यक्-प्रत्यये तदभावो विशेषः प्रदर्शितः / स तु किं बाधकाग्रहणे, तदभावनिश्चये वा ? पूर्वस्मिन् पक्षे भ्रान्तदृशस्तद्भावेऽपि तदग्रहणं दृष्ट कश्चित्कालम्, एवमत्रापि तदग्रहणं स्यात्। तत्रैतत्स्याद्भ्रान्तदृशः किञ्चित्कालतदग्रहेऽपिकालान्तरे बाधकग्रहणम् / सम्यग्दृष्टौ तु कालान्तरेऽपि तदग्रहः / नन्वेतत्सर्वविदा विषयो नार्वाग्दृशां व्यवहारिणामस्मादृशाम् / बाधकाभावनिश्वयोऽपि सम्यग्-ज्ञाने किं प्रवृत्तेः प्राक् भवति, उत प्रवृत्त्युत्तरकालम् ? यदि पूर्वः पक्षः / स न युक्तः / भ्रान्तज्ञानेऽपि तस्य सम्भवात् प्रमाणत्वासक्तिः स्यात् / अथ प्रवृत्त्युत्तरकालं बाधकाभावनिश्चयः / सोऽपि न युक्तः / बाधकामावनिश्चयमन्तरेणैव प्रवृत्तरुत्पन्नत्वेन शनिश्चयस्याकिञ्चित्करत्वात् / न च बाधकाभावनिश्चये प्रवृत्त्युत्तरकालभाविनि किश्चिन्निमित्तमस्ति। अनुपलब्धिनिमित्तमिति चेन्न। तस्या असम्भवात्। तथाहि-बाधकानुपलब्धिः किं प्रवृत्तेः प्राग्भाविनी बाधकामावनिश्चयस्य प्रवृत्युत्तरकाल